| YouTube Channel

समयः (samayaH)

 
Apte
English
समयः [samayḥ], 1 Time in general.
Occassion, opportunity
तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन्
Ms.*
1.53.
Fit time, proper time or season, right moment
गन्तुं प्रवृत्ते समयं विलङ्घ्य
Ku.*
3.35.
An agreement, a compact, contract, an engagement
मिथःसमयात्
Ś.*
5.
A convention, conventional usage.
An established rule of conduct, a ceremonial custom, usual practice, observance
निह्नवन्ति ये तेषां समयं सुकृतं यत्
Mb.
* 12. 229.8
निरस्तनारीसमया दुराधयः
Ki.*
1.28
U.*
1.
The convention of poets
(e. g. that persons separated from their beloveds are affected at the sight of clouds.).
An appointment, assignation.
A condition, stipulation
V.*
5.
A law, rule, regulation
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते
U.*
5.19.
Direction, order, instruction
precept.
Emergency, exigency.
An oath
कामं तथा तिष्ठ नरेन्द्र तस्मिन् यथा कृतस्ते समयः सभायाम्
Mb.
* 3.183.35.
A sign, hint, indication
शौरिसमयनिगृहीतधियः
Śi.*
15.41.
Limit, boundary.
A demonstrated conclusion, doctrine, tenet
बौद्ध˚, वैशेषिक˚
&c.
End, conclusion, termination.
Success, prosperity.
End of trouble. (समयेन 'on condition, conditionally'.)
Comp.
-अध्युषितम् a time at which neither the stars nor the sun is visible
उदिते$नुदिते चैव समयाध्युषिते तथा
Ms.*
2.15. -अनुवर्तिन्
a.
following established customs. -अनुसारेण, -उचितम्ind. suitably to the occasion, as the occasion demands.-आचारः conventional practice, established usage
अतश्च प्रवज्यासुलभसमयाचारविमुखः
Māl.
4.6.
क्रिया making an agreement
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया
Mb.
* 1.2.119 'the time-arrangement of Draupadi's conjugal life'.
enjoining certain duties
स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम्
Ms.*
7.22.
preparation of an ordeal. -च्युतिः neglect of the right time. -ज्ञ
a.
knowing the right time. -धर्मः covenant, stipulation. -परि- रक्षणम् observance of a compact, treaty, or agreement
समयपरिरक्षणं क्षमं ते
Ki.*
1.45. -बन्धन
a.
bound by an agreement. -भेदः breaking an agreement or engagement, breach of contract. -विद्या astrology
Dk -व्यभि- चारः breaking an agreement, violation or breach of contract. -व्यभिचारिन्
a.
breaking an agreement
निगृह्य दापयेच्चैनं समयव्यभिचारिणम्
Ms.*
8.22-221.
Apte 1890
English
समयः 1 Time in general.
2 Occasion, opportunity.
3 Fit time, proper time or season, right moment
Ku. 3. 25.
4 An agreement, a compact, contract, an engagement
मिथःसमयात् Ś. 5.
5 A convention, conventional usage.
6 An established rule of conduct, a ceremonial custom, usual practice
निरस्तनारीसमया दुराधयः Ki. 1. 28
U. 1.
7 The convention of poets
(e. g. that persons separated from their beloveds are affected at the sight of clouds).
8 An appointment, assignation.
9 A condition, stipulation
V. 5.
10 A law, rule, regulation
Y. 3. 19
U. 5. 19.
11 Direction, order, instruction, precept.
12 Emergency, exigency.
13 An oath.
14 A sign, hint, indication.
15 Limit, boundary.
16 A demonstrated conclusion, doctrine, tenet
बौद्ध°, वैशेषिक° &c.
17 End, conclusion, termination.
18 Success, prosperity.
19 End of trouble. (समयेन ‘on condition, conditionally’).
Comp.
अध्युषितं a time at which neither the stars nor the sun is visible.
अनुवर्तिन् a. following established customs.
अनुसारेण,
उचितं ind. suitably to the occasion, as the occasion demands.
आचारः conventional practice, established usage
Māl. 4. 6.
क्रिया making an agreement.
परिरक्षणं observance of a compact, treaty, or agreement
समयपरिरक्षणं क्षमं ते Ki. 1. 45.
भेदः breaking an agreement or engagement, breach of contract.
व्यभिचारः breaking an agreement, violation or breach of contract.
व्यभिचारिन् a. breaking an agreement.
Apte Hindi
Hindi
समयः
पुं*
- सम् + + अच्
काल
समयः
पुं*
- सम् + + अच्
"अवसर, मौका"
समयः
पुं*
- सम् + + अच्
"योग्य काल, उपयुक्त काल, या ऋतु, ठीक वक्त"
समयः
पुं*
- सम् + + अच्
"करार, समझौता, संविदा, पहले से किया गया ठहराव"
समयः
पुं*
- सम् + + अच्
"रुढि, प्रथा"
समयः
पुं*
- सम् + + अच्
"चालचलन का संस्थापित नियम, संस्कार, लोकप्रचलन"
समयः
पुं*
- सम् + + अच्
कवियों का अभिसमय
समयः
पुं*
- सम् + + अच्
"नियुक्ति, स्थिरीकरण"
समयः
पुं*
- सम् + + अच्
"अनुबंध, शर्त"
समयः
पुं*
- सम् + + अच्
"कानून, नियम, विनियम "
समयः
पुं*
- सम् + + अच्
"निदेश, आदेश, निर्देश, विधि"
समयः
पुं*
- सम् + + अच्
"आपत्काल, संकटकाल"
समयः
पुं*
- सम् + + अच्
शपथ
समयः
पुं*
- सम् + + अच्
"संकेत, इंगित, इशारा"
समयः
पुं*
- सम् + + अच्
"सीमा, हद"
समयः
पुं*
- सम् + + अच्
"प्रदर्शित उपसंहार, सिद्धांत, मतवाद"
समयः
पुं*
- सम् + + अच्
"अन्त, उपसंहार, समाप्ति"
समयः
पुं*
- सम् + + अच्
"सफलता, समृद्धि"
समयः
पुं*
- सम् + + अच्
कष्ट का अन्त
Wordnet
Sanskrit
Synonyms:
समयः, कालः
noun
जीवनस्य अवधिः।
"राज्ञः अन्तिमः समयः अतीव कष्टदायकः आसीत्।"
Synonyms:
समयः
noun
कार्यसम्पादनार्थं साधनम् इव वर्तमाना कालस्य अवधिः या स्वस्य नियन्त्रणे भवति।
"मम समीपे भोजनार्थं समयः नास्ति।"
Synonyms:
समयः, संविद्, अभिसन्धिः, अभिसंधिः, नियमः, सङ्केतः
noun
प्रागेव प्रतिज्ञातं प्रतिपादितं वा।
"गतसप्ताहे तेन अमेरिका-भारतयोः वाणिज्य-सम्बन्धविषये यः समयः प्रतिपादितः सः सत्यम् अभवत्।"
Synonyms:
कालः, समयः
noun
समयविशेषः।
"महाविद्यालयस्य कालः अस्माभिः सन्तोषेण व्यतीतः।"
Synonyms:
युगम्, कालः, समयः
noun
कालविशेषः- अधिकः कालः।
"तस्य प्रतीक्षायां युगं समाप्तम्।"
Synonyms:
प्रतिज्ञा, प्रतिज्ञानम्, समयः, संश्रवः, प्रतिश्रवः, वचनम्, संविद्, संवित्, नियमः, संगरः, सङगरः, सङ्केतः, अभिसंधा, अभिसन्धा, अभ्युपगमः, स्वीकारः, उररीकारः, अंगीकारः, अङ्गीकारः, परिपणनं, समाधिः, आगूः, आश्रवः, सन्धा, श्रवः
noun
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं करिष्यामि अथवा कदापि करिष्यामि इति।
"आधुनिके काले अल्पीयाः जनाः प्रतिज्ञां पूरयन्ति।"
Synonyms:
शपथः, दिव्यम्, सत्यम्, समयः, प्रत्ययः, अभीषङ्गः, अभिषङ्गः, परिग्रहः, क्रिया, शापः, शपः, शपनम्, अभिशापः, परिशापः
noun
दृढनिश्चयात्मकं वचनम्।
"भोः शपथः अस्ति किमपि कथितं मया।"
Synonyms:
कालः, समयः, वेला
noun
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
"कालो तिष्ठति।"
Synonyms:
सङ्केतः, प्रज्ञप्तिः, परिभाषा, शैली, समयः, आकारः
noun
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
"कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।"
Synonyms:
समयः, नियमः, संस्कारः, अङ्गीकारः, उपगमः, अभ्युपगमः, सङ्केतः, संवादः, व्यवस्था, संविद्, प्रतिज्ञानम्
noun
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
"उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं करिष्यन्ति।"
Sanskrit Tibetan
Tibetan
sngags kyi skabs su tshig
समयः
Tamil
Tamil
ஸமய: : காலம், பொழுது, வழக்கம், முறை, நிலைமை, நிபந்தனை, கட்டளை, குறி, குறிப்பு, சபதம், முடிவு, எல்லை.
अमरकोशः
Sanskrit
Word: समयः
Root: समय
Gender: पुं
Number: all
Meaning(s):
law
rule
time
case
sign
hint
limit
order
terms
season
speech
treaty
ordeal
precept
compact
doctrine
practice
juncture
covenant
occasion
boundary
contract
harangue
condition
direction
agreement
observance
indication
engagement
convention
opportunity
declaration
stipulation
arrangement
circumstances
solemn address
coming together
intercourse with
established custom
account [computer]
protocol [computer]
conditions of agreement
demonstrated conclusion
appointed or proper time
conventional rule or usage
end of trouble or distress
meeting or a place of meeting
right moment for doing anything
coming to a mutual understanding
conventional meaning or scope of a word
Vedic passage which is the repetition of another one
Shloka(s):
1|4|1|1 कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। (कालवर्गः)
3|3|199|1 अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। (नानार्थवर्गः)
Synonym(s):
1|4|1|1 कालः (काल) (पुं)
1|4|1|1 दिष्टः (दिष्ट) (पुं) time, fixed, shown, bidden, settled, directed, assigned, appointed, pointed out, sort of turmeric, shown, pointed out
1|4|1|1 (अनेहा) (पुं)
1|4|1|1 समयः (समय) (पुं) law, rule, time, case, sign, hint, limit, order, terms, season, speech, treaty, ordeal, precept, compact, doctrine, practice, juncture, covenant, occasion, boundary, contract, harangue, condition, direction, agreement, observance, indication, engagement, convention, opportunity, declaration, stipulation, arrangement, circumstances, solemn address, coming together, intercourse with, established custom, account [computer], protocol [computer], conditions of agreement, demonstrated conclusion, appointed or proper time, conventional rule or usage, end of trouble or distress, meeting or a place of meeting, right moment for doing anything, coming to a mutual understanding, conventional meaning or scope of a word, Vedic passage which is the repetition of another one
3|3|199|1 वेला (वेला) (स्त्री) end, meal, gums, tide, hour, time, flow, shore, limit, period, stream, season, speech, leisure, current, interval, occasion, boundary, distance, last hour, meal-time, time of day, opportunity, hour of death, limit of time, coast [seashore], time (of the day), sickness or passion, easy or painless death, boundary of sea and land
Related word(s):
अवयव_अवयवीसंबन्धः अह्नोऽष्टमभागः
जातिः कालः
परा_अपरासंबन्धः सूक्ष्मसमयः
शब्दकल्पद्रुमः
Sanskrit
समयः,
पुं,
(सम्यगेतीति सम् + इण् गतौ +पचाद्यच् ।) कालः (यथा, उत्तरचरिते अङ्के ।“समयः समवर्त्तत इवैष यत्र मांसमनन्दयत् सुमुखि ! गौतमार्पितः ।अयमागृहीतकमनीयकङ्कण-स्तव मूर्त्तिमानिव महोत्सवः करः
”)शपथः आचारः (यथा, महाभारते ।१३ ९० ५० ।“ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ! ।निश्चिताः सर्व्वधर्म्मज्ञास्तान् देवान् ब्राह्मणान्विदुः
”)सिद्धान्तः संवित् इत्यमरः
क्रियाकारः ।निर्द्देशः भाषा (यथा, महाभारते ।३३ ११६ ।“देशाचारान् समयान् जातिधर्म्मान्बभूषते यः सः परावरज्ञः
”)सङ्केतः इति मेदिनी
(व्यवहारः यथा, मनुः १० ५३ ।“न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन्
”)सम्पत् नियमः (यथा, भागवत २२ १८ ।“अतो भजिष्ये समयेन साध्वींयावत्तेजो विभृयादात्मनो मे
”)अवसरः इति हेमचन्द्रः
*
कालप्रशंसा ।यथा, --परशुराम उवाच ।“राजेन्द्रोत्तिष्ठ समरं कुरु साहसपूर्व्वकम् ।कालभेदे जयो नॄणां कालभेदे पराजयः
काले सिंहः शृगालञ्च शृगालः सिंहमेव ।काले व्याघ्रं नरो हन्ति गजेन्द्रं हरिणस्तथा
महिषं मक्षिका काले गरुडञ्च यथोरगः ।किङ्करः स्तौति राजेन्द्रं काले राजा किङ्क-रम्
इन्द्राश्च मनवः काले काले राजा मरिष्यति ।तिरोहिता प्रकृतिः काले श्रीकृष्णविग्रहे
मरिष्यन्ति सुराः सर्व्वे त्रिलोकस्थाश्चराचराः ।सर्व्वे काले लयं यान्ति कालो हि दुरतिक्रमः
कालस्य कालः श्रीकृष्णः स्रष्टुः स्रष्टा यथेच्छया ।संहर्त्ता चैव संहर्त्तुः पातुः पाता परात्परः
महास्थूलात् स्थूलतमः सूक्ष्मात् सूक्ष्मतमः कृशःपराणुः परमः कालः कालश्च कालभेदकः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४० अध्यायः
*
अपि ।“कालः करोति संसर्गं बन्धूनां बन्धुभिः समम् ।कालः करोति विच्छेदं विरोधं प्रीतिमेव
कालः सृष्टिञ्च कुरुते कालश्च परिपालनम् ।कालः करोति सानन्दं कालः संहरते प्रजाः
सुखं दुःखं भयं शोकं जरां मृत्युञ्च जन्म ।सर्व्वं कर्म्मानुरोधेन काल एव करोति ।सर्व्वं कालकृतं तात विस्मयं व्रज व्रज
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९० अध्यायः
अथ कालनिरूपणम् ।“आनन्दनन्दनस्यैव परिपूर्णतमस्य ।शृणु कालगतिं वत्स मदीयज्ञानगोचराम्
नराणाञ्च पितॄणाञ्च सुराणाञ्चापि ब्रह्मणः ।नागानां राक्षसादीनां तत्परेषाञ्च पुत्त्रक
कथयामि निगूढार्थं सावधानं निशामय ।सर्व्वस्माच्च परः स्थूलः सर्व्वाधारो महान्विराट्
यस्य लोमसु विश्वानि चासंख्यानि तानि ।सर्व्वस्माच्च परं सूक्ष्मं परमाणुं निशामय
कालारम्भात्मकं सर्व्वस्यानूहं परमीप्सितम् ।परमः सद्बिशेषाणामनेकोऽयुतशस्तथा
परमाणुः विज्ञेयो नृणामैक्यभ्रमो यथा ।परमाणुद्बयेनाणुस्त्रसरेणुस्तु ते त्रयः
त्रसरेणुत्रिकेणापि त्रुटिरुक्ता मनीषिभिः ।वेधस्त्नुटिशतेनैव त्रिवेधेन लवस्तथा
त्रिलवेन निमेषश्च त्रिनिमेषेण क्षणः ।काष्ठा पञ्चक्षणेनैव लघुश्च दशकाष्ठया
लघुपञ्चदशे दण्डस्तत्प्रमाणं निशामय ।द्बादशार्द्धपलोन्मा चतुर्भिश्चतुरङ्गुलैः
स्वर्णमाषैः कृतच्छिद्रं यावत् प्रच्छजलप्लुतम् ।दण्डद्वये मुहूर्त्तः षष्टिदण्डात्मिका तिथिः
तदष्टभागः प्रहरः प्रमाणञ्च निरूपणम् ।चतुर्भिः प्रहरै रात्रिश्चतुर्भिर्दिनमेव
तिथिपञ्चदशेनैव पक्षमानं प्रकीर्त्तितम् ।पक्षद्बयेन मासः स्यात् शुक्लकृष्णाभिधेन
ऋतुर्म्मासद्वयेनैव तत्षट्केनैव वत्सरः ।वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशीतकम्
वर्षाः पञ्चविधा ज्ञेयाः कालविद्भिर्निरूपिताः ।संवत्सरः प्रवत्सरश्च इलावत्सर एव
अनुवत्सरो वत्सरोऽयमिति कालविदो विदुः ।अब्दो द्बिषट्कमासैश्च तन्नाम शृणु चोद्धव
*
वैशाखो ज्यैष्ठ आषाढः श्रावणो भाद्र एव ।आश्विनः कार्त्तिको मार्गः पौषो माघस्तुफाल्गुनः
चैत्रस्तु चरमो ज्ञेयो वर्षशेषो निरूपितः ।वसन्तश्चैत्रवैशाखौ मासौ युग्मेन कीर्त्तितः
ज्यैष्ठाषाढद्वयेनैव ग्रीष्मस्तु परिकीर्त्तितः ।वर्षा श्रावणभाद्रेण चाश्विने कार्त्तिके शरत्
मार्गे पौषे हेमन्तः शिशिरो माघफाल्गुने ।अब्दस्तु चायने द्वे चैवोत्तरे दक्षिणायने
माघादिषट्कं नियतं उत्तरायणमीप्सितम् ।श्रावणादिमासषट्कं दक्षिणायनमेव
माघादाषाढपर्य्यन्तं दिनवृद्धिं क्रयेण वै ।नक्तं वृद्धं श्रावणाच्च पौषपर्य्यन्तमेव
*
प्रतिपदः पूर्णिमान्तः शुक्लः पक्षः प्रकीर्त्तितः ।पूर्णिमायाः प्रतिपदः अमावास्यान्त एव
कृष्णपक्षस्तु विज्ञेयो वेदविद्भिर्निरूपितः ।द्बितीया तृतीया चतुर्थी पञ्चमी तथा
षष्ठी सप्तमी चैव ह्यष्टमी नवमी तथा ।दशम्येकादशी चापि द्वादशी त्रयोदशी ।चतुर्द्दशी कुहूर्यावद्दिनन्तु गणनं स्मृतम्
*
अश्विनी भरणी चापि कृत्तिका रोहिणी तथा ।मृगशिरास्तथार्द्रा नक्षत्रे द्बे पुनर्व्वसुः
पुष्याश्लेषा मघा चैव पूर्व्वा चोत्तरफल्गुनी ।हस्ता चित्रा तथा स्वाती विशाखा चानुरा-धिका
ज्येष्ठा मूला तथा ज्ञेया पूर्व्वाषाढोत्तरा तथा ।श्रवणाप्यभिजिच्चैव धनिष्ठा प्रकीर्त्तिता
ततः शतभिषा ज्ञेया पूर्व्वभाद्रपदस्तथा ।तथोत्तरस्तु विज्ञेयो रेवती चरमा स्मृता
अष्टाविंशच्च नक्षत्रं कलत्रं शशिनोद्धव ।क्रमेण ताभिः सार्द्धञ्च चन्द्रस्तिष्ठति नित्यशः
सप्तविंशतिनक्षत्रं कलत्रञ्च श्रुतौ श्रुतम् ।अभिजिच्छ्रवणाच्छाया तेनाष्टाविंशतिः स्मृता
एकदा मधौ चन्द्रो रोहिण्या रामया सह ।रेमे दिवानिशं दृष्ट्वा श्रवणा चुकोप सा
छायां दत्त्वा चन्द्राय ययौ तातान्तिकंभिया ।ततः पितरमानीय सा प्रचक्रे विभागकम्
बभूव तेन नक्षत्रमभिजिन्नामकं पुरा ।एतत् श्रुतं कृष्णमुखाच्छतशृङ्गे पर्व्वते ।नक्षत्रं कथितं वत्स तिथ्यां भ्रमति नित्यशः
*
योगञ्च करणञ्चैव मद्वक्त्रेण निशामय ।विष्कम्भः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा
अतिगण्डः सुकर्म्मा धृतिः शूलस्तथैव ।गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा
वज्रश्चासृग्व्यतीपातो वरीयान् परिघः शिवः ।सिद्धः साध्यः शुभः शुक्रो ब्रह्मेन्द्रो वैधृतिस्तथा
कीर्त्तितस्तु योगगणः करणं श्रूयतामिति ।ववश्च बालवश्चैव कौलवस्तैतिलस्तथा
गरश्च बणिजश्चापि विष्टिश्च शकुनिस्तथा ।चतुष्पाच्चापि नागश्च किन्तुघ्न इति कीर्त्तनम्
नराणाञ्चापि मासेन पितॄणाञ्च दिवानिशम् ।शुक्ले तेषां दिनञ्चापि कृष्णे नक्तं प्रकीर्त्तितम्
वत्सरेण नराणान्तु सुराणाञ्च दिवानिशम् ।दिनन्तेषामुत्तरेण नक्तञ्च दक्षिणायणे
मन्वन्तरन्तु दिव्यानां युगानामेकसप्ततिः ।मनोरायुःपरिमितं शक्रस्यायुः प्रकीर्त्तितम्
पञ्चविंशत्सहस्रञ्च तथा पञ्चशतं परम् ।तत्र सूर्य्यगतिर्नास्ति शक्रपातानुसारतः
युगानां षष्टिमधिकं नराणाञ्च प्रकीर्त्तितम् ।कालेनैतेन शक्रस्य पतनञ्च मनोस्तथा
*
चतुर्द्दशेन्द्रावच्छिन्नकालेन ब्रह्मणो दिनम् ।एतेनैव तद्युक्तमुक्तं धातुर्द्दिवानिशम्
एवन्तेषां निपतनं बोद्धव्यं तद्दिवानिशम् ।तत्र सूर्य्यगतिर्नास्ति शक्रपातानुसारतः
दिवानिशञ्च जानन्ति ब्रह्मलोकनिवासिनः ।दण्डद्वयं लवपलं शक्रपातेन तत्पलम्
एवं त्रिंशद्दिनेनैव धातुर्म्मासः प्रकीर्त्तितः ।अब्दो द्वादशभिर्म्मासैरेवन्तस्य शतायुषः
ब्रह्मणः पतनेनैव निमेषः श्रीहरेरपि
*
धातुः पातानुसारेण वैकुण्ठेन दिवानिशम् ।तत्र सूर्य्यगतिर्न्नास्ति चैवं गोलोकतः स्मृतम्
वैकुण्ठवासिनः सर्व्वे तेन जानन्त्यहर्निशम्
चन्द्रस्यापि ग्रहाणाञ्च गतिर्नास्तीति तत्र वै ।चक्रं नैव भ्रमत्येव राशीनामिच्छया हरेः
दिनञ्च तेजसा दीप्तं कृष्णस्य परमात्मनः ।नक्तं तेजोविहीनञ्च हरौ मन्दिरं गते
एवं कालगतिस्तत्र विष्णुलोकेऽस्ति सन्ततम् ।कालस्वरूपो भगवान् परमात्मा निराकृतिः
चन्द्रसूर्य्यगतिर्नास्ति पातालेषु सप्तसु ।तद्वासिनश्च जानन्ति सङ्केतेन दिवानिशम्
दिने मूर्द्ध्नि नागानां मणिर्ज्वलति नित्यशः ।सन्ध्यायां दीप्तिहीनश्च रात्रिश्च तमसावृता
कालं तन्द्रीप्रमाणेन जानन्ति तन्निवासिनः ।यथा भुवि तथा तत्र परिमाणं प्रकीर्त्तितम्
*
कृतं त्रेता द्बापरञ्च कलिश्चेति चतुर्युगम् ।दिव्यैर्द्वादशसाहस्रैर्व्वत्सरैश्चापि सम्मितम्
अष्टौ शतान्यप्यधिकं सहस्राणां चतुष्टयम् ।दिव्यैर्व्वर्षैः कृतयुगं कालविद्भिर्निरूपितम्
अष्टाविंशत्सहस्राण्यप्यविकं परिमाणकम् ।लक्षाणाञ्च सप्तदश नृमाणं परिकीर्त्तितम्
अधिकं षट्शतान्येव सहस्राणां त्रयं तथा ।दिव्यैर्वर्षैश्च त्रेतेति वत्स कालविदो विदुः
षण्णवतिसहस्राणि लक्षैर्द्बादशभिः सह ।नृणां वर्षैश्च त्रेतेति कालविद्भिः प्रकीर्त्तितः
चतुष्टयं शतानाञ्चाप्यधिकं द्विसहस्रकम् ।वर्षं दिव्यं द्बापरञ्च कालज्ञैः परिकीर्त्तितम्
चतुःषष्टिसहस्राणि लक्षैरष्टभिरेव ।नृणां वर्षैर्द्वापरञ्च कालज्ञैः परिकीर्त्तितम्
अधिकं द्विशतञ्चैव दिव्यं वर्षसहस्रकम् ।एवं मितं कलियुगं वत्स प्राज्ञैः प्रकीर्त्तितम्
द्बात्रिंशच्च सहस्रञ्च चतुर्लक्षं नृमाणकम् ।वर्षञ्चेति कलियुगं चकार कालकोविदः
लक्षैस्त्रिचत्वारिंशद्भिः सह विंशत्सहस्रकैः ।नृमाणवर्षैः कालज्ञैर्व्व्यक्तमेव चतुर्युगम्
इति ते कथितं वत्स कालसंख्यानिरूपणम् ।यथाश्रुतं यथाज्ञानं गच्छ वत्स हरेः पुरम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डेराधोद्धवसंवादेकालनिरूपणम् ९६ अध्यायः
*
अपि ।मार्कण्डेय उवाच ।“निमेषो नाम कालाङ्गो नेत्रोन्मेषविलक्षितः ।तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला
कलाभिस्तावतीभिस्तु क्षणाख्यः परिकीर्त्तितः ।क्षणैर्द्वादशभिः प्रोक्तो मुहूर्त्तस्तैस्तु त्रिंशता
मानुष्यः स्यादहोरात्रः पक्षस्ते दश पञ्च ।पक्षाभ्यां मनुषो मासः पितॄणां तदहर्न्निशम्
मासैर्द्वादशभिर्व्वर्षो देवानां तदहर्निशम्
कृष्णपक्षः पितॄणान्तु कर्म्मार्थं दिवसो मतः
स्वप्नार्थं शुक्लपक्षस्तु रजनी परिकीर्त्तिता ।देवानान्तु दिनं प्रोक्तं षण्मासा उत्तरायणम्
रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायनम् ।द्वाभ्यां द्बाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुःस्मृतः
ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् ।ऋतुभिर्व्वत्सरः षड्भिस्तांश्च शृणु पृथक्पृथक्
*
चैत्रादियुगलैः संज्ञा तैस्तैः षड्भिर्द्बिजोत्तमाः ।वसन्तश्चैत्रवैशाखौ ग्रीष्मो ज्यैष्ठः शुचिस्तथा
प्रावृट् नभोनभस्यौ तु शरत् स्यादिशकार्त्तिकौ ।सहःपौषौ हेमन्तः शिशिरो माघफाल्गुनौ
षडिमे ऋतवः प्रोक्ताः यज्ञादौ विहिताः पृथक् ।नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः
साष्टाविंशतिसाहस्रैर्म्मानं कृतयुगस्य ।सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः
सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः ।त्रेता द्बादशभिर्लक्षैर्म्मानुषैर्व्वत्सरैर्भवेत्
षण्णवत्या सहस्रैश्च सन्ध्या स्यात् शतत्रयम् ।शतत्रयन्तु सन्ध्यांशस्तदन्तः परिकीर्त्तितः
चतुःषष्टिसहस्राणि लक्षाण्यष्टौ प्रमाणतः ।भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्बयम्
शतद्वयन्तु सन्ध्यांशस्तदन्तर्गत इष्यते ।द्बात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः ।संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम्
वत्सराणामेकशतं सन्ध्यांशश्च तदन्तरे ।एवं कृतञ्च त्रेता द्बापरश्च तथा कलिः
मानुषेण प्रमाणेन भवेद्युगचतुष्टयम् ।त्रिचत्वारिंशता लक्षैर्मानं चतुर्युगं भवेत्
सहस्रैरपि विंशत्या सन्ध्यासन्ध्यांशसंयुतम् ।दैवं दिनं वत्सरेण मानुषेण सरात्रकम्
एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगम् ।दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्त्तितम्
दैवैर्द्बादशसाहस्रैर्व्वत्सरैर्दैविकं युगम् ।तद्वच्चतुर्युगं नॄणां सन्ध्यासन्ध्यांशसंयुतम्
देवानान्तु कृतं त्रेता द्बापरादिव्यवस्थया ।न युगव्यवहारोऽस्ति धर्म्मादिभिन्नता
किन्तु चातुर्युगं नारं भवेद्देवयुगं सदा ।दैवैरेव सप्तत्या युगैर्म्मन्वन्तरं भवेत्
दैवे युगसहस्रे द्बे ब्रह्मणः स्यादहर्न्निशम् ।चतुर्युगसहस्रे द्बे नृणां मानेन तद्भवेत्
एकस्मिन् ब्राह्म्यदिवसे मनवः स्युश्चतुर्द्दश ।एवं ब्राह्म्येण मानेन दिवसैस्तु त्रिभिः शतैः
सषष्टिभिर्व्वत्सरः स्याद्ब्राह्म्यो वर्षो नृणां यथा ।ब्राह्म्यैः पञ्चशता वर्षैः परार्द्धः परिकीर्त्तितः
तदीश्वरस्य दिवसं तावती रात्रिरिष्यते ।शतन ब्रह्मणो वर्षैः कालः स्यात् द्बिपरार्द्धकः
परार्द्धेद्वितयेऽतीते ब्रह्मणः प्रलयो भवेत् ।प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः
समस्तजगदाधारमव्ययं यत् परात्परम् ।तस्य ब्रह्मस्वरूपस्य दिवारात्रञ्च तद्भवेत् ।तत्परं नाम तस्यार्द्धं परार्द्धमभिधीयते
”इति श्रीकालिकापुराणे २४ अध्यायः
*
किञ्च ।“अक्षिपक्ष्मपरिज्ञेयो निमेषः परिकीर्त्तितः ।द्बौ निमेषौ त्रुटिर्नाम द्वे त्रुटी तु लवः स्मृतः
द्बिलवः क्षण इत्युक्तः काष्ठा प्रोक्ता दशक्षणाः ।दश काष्ठाः किला नाम तत्संख्या स्याच्चघाटिका
घटिके द्वे मुहूर्त्तः स्यात्तैस्त्रिंशत्या दिवानिशम् ।चतुर्व्विंशतिवेलाभिरहोरात्रं प्रचक्षते
सूर्य्योदयादिविज्ञेयो मुहूर्तानां क्रमः सदा ।पश्चिमादर्द्धरात्रादिहोराणां विद्यते क्रमः
”इति वह्निपुराणे गणभेदनामाध्यायः
*
अपरं नृसिंहपुराणे अध्याये कौर्म्मे अध्यायेच द्रष्टव्यम्
कृदन्तरूपमाला
Sanskrit
1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् अवगामम् गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम्
ईषिषित्वा
प्रासङ्गिक्यः
01
=>
(६८)
02
=>
(२-अदादिः-१०४५-अनिट्। सक-पर-)
03
=>
(१४ श्लो।)
04
=>
[[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05
=>
[[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06
=>
[[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07
=>
[[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08
=>
[[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09
=>
[[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10
=>
[[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11
=>
[[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12
=>
[[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13
=>
[[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14
=>
[[९। + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15
=>
[पृष्ठम्००६९+ २४]
16
=>
[[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17
=>
[[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18
=>
[[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19
=>
[[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20
=>
[[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21
=>
[[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22
=>
[[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23
=>
[[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24
=>
[[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25
=>
[[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26
=>
[[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27
=>
[[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28
=>
[[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29
=>
[पृष्ठम्००७०+ ३०]
30
=>
[[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31
=>
[[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। अभ्रेषः।]]
32
=>
[[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33
=>
[[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34
=>
[[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35
=>
[[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36
=>
[[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37
=>
[[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38
=>
[[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39
=>
[[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40
=>
[[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41
=>
[[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42
=>
(वर्तते)
43
=>
(देशः)
44
=>
[[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45
=>
[पृष्ठम्००७१+ २६]
46
=>
[[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]