| YouTube Channel

समन्तपञ्चकं (samantapaJcakaM)

 
शब्दकल्पद्रुमः
Sanskrit
समन्तपञ्चकं,
क्ली,
(समन्तात् पञ्चकं ह्रदपञ्चकंयत्र ।) कुरुक्षेत्रम् तच्च कुरुपाण्डवयोर्युद्ध-स्थानम् तत्र पुरा परशुरामः क्षत्त्रियरुधिरेणपञ्च ह्रदान् चकार यथा, --“त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः ।समन्तपञ्चके पञ्च कृतवान् रुधिरैर्ह्रदान्
तेषु तर्पयामास पितॄन् भृगुकुलोद्वहः ।साक्षात् ददर्श पितरं रामं न्यवारयत्
”इति पाद्मे भूमिखण्डे १२४ अध्यायः
*
अन्यच्चे ।“त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः ।समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव
”इति श्रीभागवते स्कन्धे १६ अध्यायः
*
तस्य माहात्म्यं सीमा यथा, --“पृथिव्यां नैमिषं तीर्थमन्तरीक्षे पुष्करम् ।त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते
”इत्यारभ्य, --“तरन्तुकारन्तुकयोर्यदन्तरंरामह्रदानाञ्च मचक्रुकस्य ।एतत् कुरुक्षेत्रसमन्तपञ्चकंपितामहस्योत्तरवेदिरुच्यते
”इति महाभारतीयवनपर्व्वणि ८३ अध्यायः