| YouTube Channel

समचित्तं (samacittaM)

 
शब्दकल्पद्रुमः
Sanskrit
समचित्तं,
क्ली,
(समं तुल्यं चित्तम् ।) एकविष-यकान्तःकरणवृत्तिः यथा, --“मनो बुद्धिश्च चित्तञ्च ते ह्यनीशाः शरीरिणाम् ।एकचित्तं मनः कृत्वा ज्ञानेन पृथुलोचने
समचित्तं प्रपद्यन्ते ते लिम्पन्ति मानवाः ।सर्व्वभक्ष्याणि भक्षन्तः पेयापेयं तथैव ।समं चित्तं मयि यदि तदा तस्य क्रिया
”इति वाराहे गुह्यकर्म्ममाहात्म्यवर्णनं नामा-ध्यायः
(समं सर्व्वेषु पदार्थेषु तुल्यरूपं चित्तंयस्येति विग्रहे सर्व्वत्र तुल्यदर्शके, त्रि यथा, भागवते १३ ।“न यतेराश्रमः प्रायो धर्म्महेतुर्महात्मनः ।शान्तस्य समचित्तस्य विभृयादुत वा त्यजेत्
”)