| YouTube Channel

समग्रः (samagraH)

 
शब्दकल्पद्रुमः
Sanskrit
समग्रः, त्रि, (समं समकालमेव गृह्णातीति ग्रह +डः ।) सकलम् (यथा, रामायणे ।५२ ८४ ।“चतुर्द्दश हि वर्षाणि समग्राण्युष्य कानने ।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति
”)पूर्णम् इत्यमरः
(यथा, महाभारते ।१ १५४ १३ ।“अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।सग्दामपूरितशिखं समग्रेन्दुनिभाननम्
”)