| YouTube Channel

सब्रह्मचारी (sabrahmacArI)

 
शब्दकल्पद्रुमः
Sanskrit
सब्रह्मचारी, [न्]
पुं,
(ब्रह्म वेदस्तदध्ययनार्थंयद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारीसमानो ब्रह्मचारी यद्बा, समाने ब्रह्मणिचरतीति णिनिः “चरणे ब्रह्मचारिणि ।”६ ८६ इति समानस्य सः ।) परस्परैक-ब्रह्मव्रताचारः इत्यमरः
एकस्माद्गुरो-र्ब्रह्मणे वेदाय अर्थात् वेदाध्ययनाय व्रतं अभिब्रह्मचर्य्याख्यं आचरन्ति ये तेऽन्योन्यं सब्रह्म-चारिण उच्यन्ते उपचारात् ब्रह्माध्ययनार्थंव्रतमपि ब्रह्म समानं ब्रह्म चरन्तीति ग्रहादि-त्वाण्णिनि ज्योतिर्ज्जनपदेत्यादिना समानस्यसभावे सब्रह्मचारिणः एकब्रह्मव्रताचाराइत्यत्र एकस्माद्ब्रह्मणे ब्रह्माध्येतुं व्रतमा-चरन्तीति तुमर्थे चतुर्थ्या विगृह्णतीति परे ।सब्रह्मचारी भिन्नगुरुशिष्य इति हारलतेतिनयनानन्दः इति भरतः