| YouTube Channel

सप्तार्च्चिः (saptArcciH)

 
शब्दकल्पद्रुमः
Sanskrit
सप्तार्च्चिः, [स्]
पुं,
(सप्त अर्च्चींसि यस्य ।)अग्निः (यथा, रघुः १० २१ ।“सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।सप्तार्च्चिर्मुखमाचक्षुः सप्तलोकैकसंश्रयम्
”)चित्रकवृक्षः इत्यमरः
शनिग्रहः इतिहेमचन्द्रः
क्रूरचक्षुषि, त्रि इति मेदिनी
अग्नेः सप्तानामर्च्चिषां नामानि सप्तजिह्वशब्देद्रष्टव्यानि