| YouTube Channel

सप्तसागर (saptasAgara)

 
Monier Williams Cologne
English
सप्त—सागर
n.
N.
of a Liṅga,
KāśīKh.
Indian Epigraphical Glossary
English
sapta-sāgara (EI 24), name of a mahādāna
same as sapt-
āmbhodhi.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
सप्तसागर n. N. pr. eines Liṅga, Kāśīkh. 33, 136.
शब्दकल्पद्रुमः
Sanskrit
सप्तसागरः,
पुं,
(सप्त सगरा इव कुण्डानि यत्र ।)महादानविशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।सप्तसागरकं नाम सर्व्वपापविनाशनम्
पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् ।तुलापुरुषवत् कुर्य्यात् लोकेशावाहनं बुधः
ऋत्विङ्मण्डपसंभारभूषणाच्छादकादिकम् ।कारयेत् सप्त कुण्डानि कनकानि विचक्षणः
प्रादेशमात्राणि तथारत्निमात्राणि वा पुनः ।कुर्य्यात् सप्तपलादूर्द्ध्वमासहस्राच्च शक्तितः
संस्थाप्यानि सर्व्वाणि कृष्णाजिनतिलोपरि ।प्रथमं पूरयेत् कुण्डं लवणेन विचक्षणः
द्बितीयं पयसा तद्बत् तृतीयं सर्पिषा पुनः ।चतुर्थन्तु गुडेनैव दध्ना पञ्चममेव
षष्ठं शर्करया तद्बत् सप्तमं तीर्थवारिणा ।स्थापयेल्लवणस्थन्तु ब्रह्माणं काञ्चनं शुभम्
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ।भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम्
शर्करायां न्यसेत् लक्ष्मीं जलमध्ये तु पार्व्वतीम् ।सर्व्वेषु सर्व्वरत्नानि धान्यानि समन्ततः
तुलापुरुषवत् शेषमत्रापि परिकल्पयेत् ।ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः ।त्रिः प्रदक्षिणमावृत्य मन्त्रानिमानुदीरयेत्
नमो वः सर्व्वसिन्धूनां आधारेभ्यः सनातनाः ।जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः
क्षीरोदकाज्यदधिमाधवलावणेक्षु-सारामृतेन भुवनत्रयजीवसंघान् ।आनन्दयन्ति वसुभिश्च यतो भवन्त-स्तस्मान्ममाप्यघविघातमलं विदध्वम्
यस्मात् समस्तभुवनेषु भवन्त एवतीर्थामरासुरसुवन्द्यमणिप्रतानम् ।पापक्षयाद्धरविलोपनभूषणायलोकस्य बिभ्रति तदस्तु ममापि लक्ष्मीः
इति ददाति रसाम्बरसंयुतान्शुचिरविस्मयवानिह सागरान् ।अमलकाञ्चननवरत्नमयानसौपदमुपैति हरेरमरावृतः
सकलपापविघातविराजितंपितृपितामहपुत्त्रकलत्रकम् ।नरकलोकसमाकुलमप्यलंझटिति नेतुमसौ शिवमन्दिरम्
”इति मत्स्यपुराणे महादानानुकीर्त्तने सप्तसागर-प्रादानिको नाम २६१ अध्यायः
वाचस्पत्यम्
Sanskrit
सप्तसागर
पु०
ब० व० सप्तसंख्याताः सागरा “नवनीत-सुरासर्पिर्दधिदुग्धजलान्तका” इत्युक्तेषु सप्तसु सागरेषुसप्त घृतादिकल्पिताः सागरा इव देयपदार्थायत्र कप् ।मत्स्यपुराणोक्ते स्वनामख्याते महादानभेदे मत्स्यपु० २८६ अ० तद्विधानं दृश्यम्