| YouTube Channel

सप्तरक्तं (saptaraktaM)

 
शब्दकल्पद्रुमः
Sanskrit
सप्तरक्तं,
क्ली,
(सप्तानां रक्तानां तद्वर्णानां समा-हारः ।) शरीरस्य रक्तवर्णसप्तावयवाः ते चहस्तपादतलनेत्रान्तरतालुकाधरजिह्वानखाः ।यथा, सामुद्रके ।“पाणिपादतलौ रक्तौ नेत्रान्तरनखानि ।तालुकाधरजिह्वाश्च सप्तरक्तं प्रशस्यते