| YouTube Channel

सप्तपातालं (saptapAtAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
सप्तपातालं,
क्ली,
(सप्तानां पातालानां समा-हारः ।) सप्तसंख्यकाधोभुवनम् यथा, --“आदित्यरश्मितो देवो रुद्ररूपी जनार्द्दनः ।निःसृत्य प्रथमं यातः पातालतलमन्ततः
सप्तपातालसंस्थांस्तु नागगन्धर्व्वराक्षसान् ।देवानृषींश्च शेषांश्च जघान वरशूलधृक्
”इति कालिकापुराणे २४ अध्यायः
तन्नामानि यथाह भरतः ।“अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।महाख्यं सुतलञ्चाग्रं पातालं सप्तमं विदुः