| YouTube Channel

सप्तनाडीचक्रं (saptanADIcakraM)

 
शब्दकल्पद्रुमः
Sanskrit
सप्तनाडीचक्रं,
क्ली,
(सप्तनाडीनां चक्रम् ।) वृष्टि-ज्ञानार्थं ग्रहनक्षत्राङ्कितसप्तनाडिकसर्पाकार-चक्रम् यथा अथ सप्तनाडीचक्रम् ।“अथातः संप्रवक्ष्यामि यच्चक्रं सप्तनाडिकम् ।येन विज्ञानमात्रेण वृष्टिं जानन्ति प्ताधकाः
कृत्तिकादीनि ऋक्षाणि साभिजिद्वै क्रमेण ।सप्तनाडीव्यधस्तत्र कर्त्तव्यः पन्नगाकृतिः
ताराचतुष्कवेधेन नाडिकैका प्रजायते ।तासां नामान्यहं वक्ष्ये तथा चैव फलानि
कृत्तिका विशाखा १६ मैत्राख्या १७भरणी तथा ।ऊर्द्ध्वाद्या शनिनाडी स्याच्चण्डनाड्यभिधा मता
रोहिणी स्वाती १५ ज्येष्ठा १८ श्वि द्वितीयानाडिका मता ।आदित्यप्रभवा नाडी वायुनाडी तथैव
सौम्यम् चित्रा १४ तथा मूलम् १९ पौष्ण-र्क्षञ्च २७ चतुर्थकम् ।तृतीयाङ्गारका नाडी दहनाख्या सम्मता
रौद्रम् हस्तम् १३ तथा पूर्व्वाषाढा २०भाद्रपदोत्तरा २६ ।चतुर्थी जीवना नाडी सौम्यनाडी प्रकीर्त्तितापुनर्व्वसू-७ त्तरफल्गुन्यु-१२ त्तराषाढ-२१तारकाः ।पूर्व्वभाद्रा २५ शुक्राख्या पञ्चमी नीर-नाडिकाः ।पुष्यर्क्षम् फल्गुनी पूर्व्वा ११ अभिजित् ०शततारकाः २४ ।षष्ठी नाडी विज्ञेया बुधाख्या जलनाडिका
अश्लेषर्क्षम् मघा १० विष्णु २२ र्धनिष्ठाभं २३तथैव ।अमृताख्याहि सा आन्द्री सप्तमी चन्द्रनाडिकामध्यनाडीस्थिता सौम्या नाडी तस्याग्रपृष्ठतः ।सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकं मिकम्
क्रूरा याम्यगता ज्ञेया सौम्या सौम्यदिशिस्थितामध्यनाडी मध्यमा ग्रहरूपफलप्रदाः
एकनाडीगता द्व्याद्या ग्रहाः क्रूराः शुभा यदिततो नाडीफलं वाच्यं शुभं वा यदि वाशुभम्
ग्रहाः कुर्य्युर्म्महावातं गताश्चण्डाख्यनाडिकाम् ।वायुनाडीनता वायुं दहनाश्चामिदाहकाः
सौम्यनाडीगता मध्या नीरस्था मेधवाहकाः ।जलायां वृष्टिदश्चन्द्रश्चन्द्रनाडीगतास्तथा
एकोऽपि तत् फलं दत्ते स्वनाडीसंस्थितो ग्रहःभूसुतः सर्व्व नाडीषु दत्ते नाडीसमं फलम्
प्रावृट्काले तु संप्राप्ते रौद्रऋक्षगते रवौ ।नाडीवेधसमायोगे जलयोगं वदाम्यहम्
यत्र नाडीस्यितश्चन्द्रस्तत्र स्युः णेचरा यदि ।क्रूराः सौम्या विमिश्राश्च तद्दिने वृष्टिरुत्तमा
एकऋक्षसमायोगो जायते यादे खेवरैः ।तत्काले महावृष्टिर्यावदस्यांशके शशी
केवलैः सौम्यैः पापैर्व्या ग्रहैर्व्विद्धो यदा शशी ।तदा तु तुच्छपानीयं दुर्द्दिनञ्च भवेध्रुवम्
यस्य ग्रहस्य नाडीस्थश्चन्द्रगास्तद्ग्रहेण ।दृष्टो युक्तः करोत्यम्भो यदि क्षीणो जायते
स्त्रियौ सितासितौ चैव सौरिसौम्यौ नपुंसकौ ।पुरुषाः पुरुषैर्व्वायुः क्लीवौ तु बुधकारुणौ
स्त्रीपुरुषसमायोगे वृष्टिस्तु प्रबला भवेत्
पीयूषनाडीगश्चन्द्रस्तत्र खेटाः शुभाशुभाः
द्विश्चतुःप्च पानीयं तिनान्येकत्रिसप्तकम् ।एवं जलाख्यनाडीस्थे चन्द्रमिश्रग्रहान्विते
दिनार्द्धं दिवसं पञ्च दिनानि जायते जलम् ।नीरनाडीस्थिते चन्द्रे अत्रस्थैः पूर्व्ववद्ग्रहैः
यामं दिनार्द्धकं त्रीणि दिनानि जायते जलम् ।अमृतादि त्रिनाडीषु यदि स्युः सर्व्वखेचराः
तत्र वृष्टिः क्रमाज्ज्ञेया धृत्यर्करसवासरान् ।सौभ्यनाडीगताः सर्व्वे वृष्टिदास्ते दिनत्रयम्
शेषानाड्यां महाराज दुष्टवृष्टिप्रदा ग्रहाः ।निर्ज्जला जलदा नाडी भवेद्योगी शुभाधिकः
क्रूराधिकसमायोगे जलदाश्चापि निर्ज्जलाः ।याम्यनाडीगताः क्रूरा अनावृष्टिप्रसूचकाः
शुभयुक्ता जलाशस्थाश्चातिवृष्टिः शुभा ग्रहाः ।एकनाडीसमायुक्तौ चन्द्रमोधरणीसुतौ
यदि तत्र भवेज्जीवस्तदा वारिमयी मही ।बुधशुक्रौ यदैकत्र गुरुणा समन्वितौ
चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा ।जलयोगगतौ स्यातां यदा चन्द्रसितौ ग्रहौ
क्रूरदृष्टौ युतौ वापि तदा मेघोऽल्पवृष्टिदः ।उदयास्तगते मार्गे वक्रयुक्ते संक्रमौ
जलनाडीगतास्ते तु महावृष्टिप्रदा ग्रहाः
”इति स्वरोदये सप्तनाडीचक्रम्
तच्चक्ररूपं यथा ।सप्तनाडीचक्रं