| YouTube Channel

सप्तजिह्वः (saptajihvaH)

 
Apte Hindi
Hindi
सप्तजिह्वः
पुं*
सप्तन्-जिह्वः -
आग
शब्दकल्पद्रुमः
Sanskrit
सप्तजिह्वः,
पुं,
सप्तजिह्वा काल्यादयो आहुति-ग्रसनार्था यस्य ।) अग्निः इति त्रिकाण्डशेषः
(यथा, बृहत्संहितायाम् ७४ १६ ।“सुकृतज्ञतयाङ्गना गतासून्अवगूह्य प्रविशन्ति सप्तजिह्वम्
”)तस्य सप्तजिह्वानां नामानि यथा, --“काली कराली मनोजवा चसुलोहिता चैव सुधूम्रवर्णा ।उग्रा प्रदीप्ता कृपीटयोनेःसप्तैव कीलाः कथिताश्च जिह्वाः
”टीकासर्व्वस्वे तु उग्राप्रदीप्तयोः स्थाने स्फुलि-ङ्गिनी विश्वनदाख्येति नामद्वयम् इत्यमर-टीकासारमुन्दरी
कर्म्मविशेषे तासां नामा-न्तराणि यथा हिरण्या कनका रक्ता ३कृष्णा सुप्रभा बहुरूपा अतिरक्ता ७एताः सात्त्विक्यो यागकर्म्मणि काम्यकर्म्मणि तुपद्मरागा सुवर्णा भद्रलोहिता लोहिता४ श्वेता धूमिनी करालिका एताराज्यस्यः क्रूरककर्म्मणि तु विश्वमूर्त्तिः १स्फुलिङ्गिनी धूम्रवर्णा मनोजवा ४लोहिता कराला काली एतास्ता-मस्यः
*
एतासामधिष्ठातृदेवता यथा, --“अमर्त्यपितृगन्धर्वयक्षनागपिशाचकाः ।राक्षसः सप्तजिह्वानामीरिता अधिदेवताः
”एतासां वर्णदिङ्नियमौ यथा गणेशविम-र्षिण्याम् ।“हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता ।वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता
तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता ।कृष्णा नीलाभ्रसङ्काशा नैरृत्यां दिशि संस्थितासुप्रभा पद्मरागाभा वारुण्यां दिशि संस्थिता ।अतिरक्ता जवाभासा वायव्यां दिशि संस्थिता ।तद्दुरूपा यथा ख्याता दक्षिणोत्तरसंस्थिता
”इति तन्त्रसारः