| YouTube Channel

सप्तच्छदः (saptacchadaH)

 
शब्दकल्पद्रुमः
Sanskrit
सप्तच्छदः,
पुं,
(सप्त सप्तच्छदा यस्य ।) वृक्षविशेषः ।छातिम् इति भाषा
(यथा, रघुः ४८ ।“सप्तच्छदक्षीरकटुप्रवाह-मसह्यमाघ्राय मदं तदीयम् ।विलङ्घिताधोरणतीवयत्नाःसेनागजेन्द्रा विमुखा बभूवुः
”)तत्पर्य्यायः गुच्छपुष्पः युग्मपर्णः मणि-च्छदः बृहत्त्वक् बहुपर्णः शाल्मलि-पत्रकः भदगन्धः गन्धिपर्णः अस्यगणाः तिक्तत्वम् उष्णत्वम् त्रिदोषघ्रत्वम् ।दीपनत्वम् मदगन्धित्वम् व्रणरक्तामयकृमिंनाशित्वञ्च इति राजनिर्घण्ढः
अन्यत् सप्त-पर्णशब्दे द्रष्टव्यम्