सपिण्डीकरण (sapiNDIkaraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishसपिण्डीकरण (-णं)
1. Offering food to the deceased relatives called
Sapiṇḍas: to be performed at the end of a full year after the
death of a relative
but can be performed on the twelfth day
after death by Brāhmins only, on some special occasions.
2.
Investing a person with the rights of relationship, indicated by
offering the funeral cake.
सपिण्ड, करण making, च्वि
Yates
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte 1890
Englishसपिंडीकरणं 1 The performance of a particular Śrāddha in honour of deceased relatives called सपिंड q. v., to be performed at the end of one full year after the death of a relative, but now usually performed on the 12th day after death as part of the funeral obsequies.
2 Giving a person the rights of a Sapiṇḍa or kinsman.
Monier Williams Cologne
EnglishApte Hindi
Hindiसपिण्डीकरणम्
- सपिण्ड + च्वि + कृ + ल्युट्
समान पित्रों के सम्मान में किया जाने वाला विशेष श्राद्ध का अनुष्ठान
शब्दकल्पद्रुमः
Sanskritसपिण्डीकरणं, (सपिण्ड + कृ + ल्युट् । अभूत-तद्भावे च्विः ।) पूर्णसंवत्सरक्रियमाणपार्व्वणैको-द्दिष्टेतिकर्त्तव्यताकश्राद्धम् । यत्र प्रेतपिण्डस्यपितृपिण्डेन सह मिश्रीकरणम् । यथा, --“सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ।कुर्य्याच्चत्वारि पात्राणि प्रेतादीनांद्विजोत्तमाः ॥
प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ।ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि ॥
सपिण्डीकरणश्राद्धं देवपूर्व्वं विधीयते ।पितॄनावाहयेद्यत्र पृथक् पिण्डञ्च निर्द्दिशेत् ॥
ये सपिण्डीकृताः प्रेता न तेषां स्यात् पृथक्क्रिया ।यस्तु कुर्य्यात् पृथक् पिण्डं पितृहा सोऽपिजायते ॥
”इति कूर्म्मपुराणे उपविभागे २२ अध्यायः ॥
* ॥
अन्यच्च ।“ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ।सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्व्वणभुग्यतः ॥
वृद्धिपूर्त्तेषु योग्यश्च गृहस्थश्च भवेत्ततः ।सपिण्डीकरणं श्राद्धं देवपूर्व्वं निजोजयेत् ॥
पितॄनेवाशयेत्तत्र पृथक् प्रेतं विनिर्द्दिशेत् ।गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् ।अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥
तद्वत् सङ्कल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदाये समाना इति द्वाभ्यामाद्यन्तु विभजेत्त्रिधा ॥
चतुर्थस्य पुनः कार्य्यं न कदाचित् यतो भवेत्ततः पितृत्वमापन्नः स चतुर्थस्तदा पुमान् ॥
अग्निस्वात्तादिमध्यन्तु प्राप्नोत्यमृतमुत्तमम् ।सपिण्डीकरणादूर्द्ध्वं तस्मै तस्मान्न दीयते ॥
”इति मात्स्ये १८ अध्यायः ॥
अपरञ्च । अथ सपिण्डीकरणम् । तत्र गोभिलः ।पूर्णे संवत्सरे षण्मासे त्रिपक्षे यदहर्व्वा वृद्धि-रापद्येत तदहश्चत्वार्य्युदकपात्राणि सतिल-गन्धपुष्पोदकानि पूरयित्वा त्रीणि पितॄणामेकंप्रेतस्य प्रेतपात्रं पितृपात्रेष्वासिञ्चति । येसमानाः समनसः पितरो यमराज्ये तेषां लोकःस्वधा नमो यज्ञो देवेषु कल्पताम् ।“ये समानाः समनसो जीवा जीवेषु मामकाः ।तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाः ॥
”इति ॥
एतेनैव पिण्डो व्याख्यात इति । पूर्णे संवत्सरेइति मुख्यकल्पः । तदशक्तौ नवमो मासः ।संवत्सरान्ते विसर्ज्जनं नवममास्यमित्येके । इतिपैठीनसिवचनात् । तदशक्तौ षष्ठो मासः ।तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-गमे प्रथममासस्य द्वादशभिर्दिनैर्द्वादशमासि-कानि श्राद्धानि निर्व्वर्त्य त्रयोदशाहः सपिण्डी-करणकालः । शूद्रस्य द्वादशाहो न तु त्रयो-दशाह एव मासिकार्थवत् द्वादशाहश्राद्धं कृत्वात्रयोदशेऽह्नि वा तत् कुर्य्यान्मन्त्रवर्ज्ज्यं हिशूद्राणां द्वादशेऽह्नीति विष्णुवचनात् । मासि-कार्थवदिति मासिकार्थो मासि मासि क्रिय-माणश्राद्धप्रयोजनंप्रेताप्यायनादितद्युक्तं द्वाद-शाहक्रियमाणश्राद्धमित्यर्थः ॥
* ॥
यत्र त्वेका-दशमासाभ्यन्तरेऽधिमासपातः तत्र त्रयोदशसुदिनेषु त्रयोदश मासिकानि कृत्वा चतुर्द्दशेऽह्निसपिण्डनं कार्य्यमिति । संवत्सराभ्यन्तरे यद्यधि-मासो भवति तदा मासिकार्थं दिनमेकं वर्द्धयेत् ।इति विष्णुवाक्यात् । शूद्रस्य त्रयोदशदिनेषुत्रयोदशमासिकानि त्रयोदशेऽह्नि सपिण्डनंदृष्टपरिकल्पनान्यायात् । एवञ्च श्राद्धवृद्धिमात्रंन दिनवृद्धिरिति मिश्रोक्तं हेयम् । तद्धृतविष्णु-सूत्रे दिनमेकं वर्द्धयेदिति श्रूतेः । श्राद्धाधिक्य-माह सत्यव्रतः ।“संवत्सरस्य मध्ये तु यदि स्यादधिमासकः ।तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत् ॥
”तत्राप्यशक्तौ प्रथममासस्यैकाह एव द्वादश-मासिकसहितसपिण्डीकरणकालः ।“मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति ।द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथवा ॥
”इति मरीचिवचनात् । अपर्य्याप्तौ अशक्तौऋतुर्म्मासद्वयम् । अत्र कल्पे षष्ठमासिकदिनेपञ्चममासिकं कृत्वा प्रथमषाण्मासिकं कृत्वाषष्ठमासिकं कार्य्यं तदाद्युत्कर्षन्यायात् । न तुतत्पूर्व्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चम-मासिकमपि पूर्व्वदिने मृततिथ्यभावात् एव-मेव वाचस्पतिमिश्रः ॥
* ॥
अपकर्षनिभित्त-माह व्याघ्रः ।“आनन्त्यात् कुलधर्म्माणां पुंसाञ्चैवायुषःक्षयात् ।अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥
”एतञ्च द्वादशाहपदं शावाशौचान्ततृतीयदिन-मात्रपरमिति प्राचीनमैथिलाः अजहत्स्वार्थ-लक्षणया स्वजात्युक्ताशौचान्ततृतीयदिनमात्रो-पलक्षकं इति श्राद्धप्रदीपश्राद्धचिन्तामणी ।तद्धयमप्ययुक्तम् । द्वादशाहेन वा कुर्य्यात् इतिमरीचिवचनद्वादशाहश्राद्धं कृत्वा त्रयोदशेऽह्निवा कुर्य्यात् इति विष्णुवचनाभ्यामेकवाक्यतयाद्वादशाहमित्यस्य द्वादशदिनपरत्वात् । कुल-धर्म्माणामिति कुलधर्म्मज्योतिरागमादिसिद्धा-नन्तरभाविनाशपरचक्रभयोत्पन्नम्लेच्छदेशगम-नादिभिर्निमित्तैः अशौचापगमे द्वादशदिनानिषोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्याय-व्याख्यानात् । मरीचिनैव एकाहे द्वादशाथवेतिसामान्यत एव एकाहविधानाच्च । अतएवएकाहापेक्षया प्राशस्त्याभिधानमपि सङ्गच्छतेअतएव प्रथममासस्य एकाह एव द्वादश-मासिकसहितसपिण्डीकरणकालः इति श्राद्ध-विवेकः । अत्र यानि एकाहकर्त्तव्यतया द्वादश-मासिकश्राद्धान्युक्तानि तानि शूद्रेणापि आद्य-मासिकदिन एव कार्य्याणि । न त्वाद्यमासिकंकृत्वा तत्परदिने एकादशमासिकानीति ज्ञेयम्एवञ्च तेषामपकर्षे तन्मध्यतदन्तकालकर्त्तव्यतयाषाण्माषिकद्वयसपिण्डीकरणापकर्षः सिध्यतीतिसुधीभिर्विभाव्यम् ॥
* ॥
यदहर्व्वा वृद्धिरितिवृद्धिराशास्यमानं पुंसवनादि । आपद्येतआसन्ना भवति तद्दिने सपिण्डीकरणम् । तथाहि प्रागावर्त्तनादह्नः कालं विद्यात् । इतिगोभिलसूत्रेण पुंसवनादिरूपवृद्धेर्यामद्वयाभ्य-न्तरे विधानात् सपिण्डीकरणस्य चापराह्णेविधानात्तयोः कालयोरवाधाय वृद्धिपूर्व्वदिनेअपकर्षः ॥
* ॥
ननु सपिण्डीकरणस्यापराह्णि-कत्वे किं प्रमाणमिति चेत् अपराह्णे तु पैतृक-मित्युत्सर्गवचनम् ।किञ्च “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदाचरुम् ।अग्नीन्द्रेश्वरसामान्यात्तण्डुलोऽत्र विधीयते ।”इति छन्दोगपरिशिष्टवचने यथा बहूनामनु-रोधात्तण्डुलचरुर्नैकानुरोधात् पैष्टचरुः । विरुद्ध-धर्म्मसमवाये भूयसां स्यात् सधर्म्मकत्वम् । इतिजैमिनिसूत्रात् । तद्वदत्रापि बहुदेवताक-पार्व्वणानुरोधादेकोद्दिष्टकालवाध इति । एवञ्चसंवत्सरं अधिकृत्य ।“सपिण्डीकरणं तस्मिन् काले राजेन्द्र तत् शृणुएकोद्दिष्टविधानेन कार्य्यं तदपि पार्थिव ॥
”इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्य-तापरं न तु तत्कालपरम् । तथा च परिशिष्ट-प्रकाशधृतम् ।“श्राद्धद्वयमुपक्रम्य कुर्व्वीत सहपिण्डताम् ।तयोः पार्व्वणवत् पूर्व्वमेकोद्दिष्टमथापरम् ॥
”इति ॥
* ॥
एवञ्च शुद्धितत्त्वलिखित-स्यमन्तकोपाख्यानवत्वृद्धिं निश्चित्य कृतं सपिण्डीकरणं तदानींविघ्नेन वृद्ध्यभावेऽपि वृद्ध्यारम्भकालान्तरं पूर्ण-संवत्सरं वा प्राप्य पितृत्वप्रापकं इति नसपिण्डनान्तरम् । अत्र श्वः कर्त्तास्मीति निश्चित्यदाता विप्रान्निमन्त्रयेत् । इतिवन्निश्चित्येति उत्-कटकोटिकसम्भावनोपलक्षणम् । भविष्यन्निमि-त्तस्य कर्म्मणः प्रत्यूहार्हत्वात् । एवञ्च वृद्धि-श्राद्धं यदर्थं कृतं तत्कर्म्म चेत् विघ्नात्तद्दिने नक्रियते तदा दिनान्तरे तत्कर्म्मणि क्रियमानेतदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव ।“प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः ।तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत् क्रिया ॥
”इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्हेमाद्रिधृतम् ।पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् ।तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते ॥
”अत्र पूर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभय-निर्व्वाहः । तथापकृष्टसपिण्डनादप्युभयनिर्व्वा-हान्न पूर्णसंवत्सरे आब्दिकान्तरं कार्य्यम् ।एवञ्च पञ्चदशश्राद्धे कृतेऽप्युन्नेयम् ॥
* ॥
उदक-पात्राणि इति अर्घ्यार्थमुदकयुक्तपात्राणि । अत्रत्रीणि पितॄणामेकं प्रेतस्येति पाठक्रमदर्श-नात् सर्व्वत्र छन्दोगानां यजुर्वेदिनाञ्च गृह्यानु-रोधात् सपिण्डीकरणे प्रेतकर्म्मकरणं पितृकर्म्म-पूर्व्वकम् । तयोः पार्वणवत् पूर्व्वमेकोद्दिष्टमथा-परम् । इति पूर्वलिखितवचने शाब्दक्रमदर्श-नात् । देवकृत्यपितृकृत्ययोर्म्मध्ये प्रेतकृत्येन व्यव-धानस्यायुक्तत्वाच्च । एतेन अथ सपिण्डीकरणंसंवत्सरमेकं पिण्डमुद्दिश्य संवत्सरान्ते चत्वार्य्यु-दकपात्राणि प्रयुनक्ति तत्रैकं प्रेतस्य त्रीणिइतरेभ्यः । इत्याश्वलायनदर्शनात् सर्व्वशाखिनांसपिण्डीकरणे प्रेतादित्वं मैथिलोक्तं निरस्तम् ।एतद्वचनस्य तच्छाखिमात्रपरत्वात् । किन्त्व-र्घ्यदानमात्रे पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात्ब्रह्मपुराणे प्रेतार्घ्यदानान्तरं ततः पितामहा-दिभ्यः इति शब्दक्रमस्यावाधायार्घ्यपात्रेषुगन्धपुष्पदानपर्य्यन्तं पितृपूर्व्वकता उत्सर्गे तुप्रेतपूर्व्व कतेति । तथा ब्रह्मपुराणम् ।“चतुर्भ्यश्चार्घ्यपात्रेभ्य एकं वामेन पाणिना ।गृहीत्वा दक्षिणेनैव पाणिना च तिलोदकम् ॥
सम्मार्ज्जयित्वा पृथिवीं ये समाना इति स्मरन् ।प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् ॥
ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक् ।ये समाना इति द्वाभ्यां तज्जलन्तु समर्पयेत् ॥
अर्घ्यं तेनैव विधिना प्रेतपात्राच्च पूर्व्ववत् ।तेभ्यश्चार्घ्यं निवेद्येव पश्चाच्च स्वयमाचमेत् ॥
”एकं प्रेतपात्रं वामेन अनन्तरंदक्षिणेन गृहीत्वाइति सम्बन्धः । ये समाना इति मन्त्रद्वयं पठन्प्रेतपात्रस्थं उत्सृष्टजलं कुशरेखात्रयेण चतुर्धाविभज्य भागमेकं प्रेतब्राह्मणहस्ते क्षिपेत्दद्यात् । उत्सृष्टजलपिण्डयोर्व्विभागे मन्त्रस्यकरणत्वं व्यक्तमाह शातातपः ।“निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः ।ये समाना इति द्वाभ्यामाद्यन्तु विभजेत् त्रिधा ।एष एव विधिः पूर्व्वमर्घ्यपात्रचतुष्टये ॥
”ततस्तदनन्तरं तन्मन्त्रैः पितामहादिभेदेन त्रिरा-वृत्तैर्या दिव्या इति मन्त्रैश्चकारात् पितामहा-द्युत्सर्गवाक्यैरर्घ्यमुत्सृज्य ये समाना इतिद्वाभ्यां मन्त्राभ्यामर्घ्यं पुष्पोदक तज्जलं प्रेत-पात्रस्थजलं तेनैव विधिना प्रत्येकेन पूर्व्ववत्चतुर्भागरूपं प्रेतपात्रात् समर्पयेत् । तेभ्यःपितामहादिभ्यस्त्रिभ्यस्तन्मिश्रितपुष्पतिलोदक-रूपमर्घ्यं निवेद्य तत्तद्ब्राह्मणहस्ते प्रक्षिप्यपश्चादाचमेदित्यर्थः । तेन प्रेतब्राह्मणहस्तेउत्सृज्य दत्तस्यैवार्घ्यजलस्य तदवशिष्टजलस्यभागत्रयं पितामहाद्युत्सृष्टार्घ्यजलेषु मिश्री-कर्त्तव्यमिति प्रतीयते । अतएव दत्तस्यैव प्रेतपिण्डस्य मिश्रीभाव इति श्राद्धविवेकः ॥
* ॥
यच्च न चात्र देवं भोजयेत् प्रागेव दैवे अर्घ्यंमन्नाद्यञ्च दत्त्वा गन्धमाल्यैः पात्रमर्च्चयित्वाहुतशेषं पितृभ्यः पात्रेषु दद्यात् इत्याश्वलायन-वचने पितृपात्रे दैवं न मिश्रयेदिति कल्पतरु-व्याख्यानुरोधेन मैथिलोक्तं सर्व्वशाखिनान्तथा-चरणम् । तन्नयुक्तम् । आश्वलायनेन काण्डानु-शयस्योक्तत्वात् बह्वृचानामेव तथा युक्तत्वात् ।न सामगयजुर्व्वेदिनोः । तयोः पदार्थानुशय-स्योक्तत्वात । अत्र सामयजुर्व्वेदिनोः श्राद्धसूत्रेसमन्वये मन्त्रदर्शनात्तत्रैव मन्त्रान्वयः पितृ-दयितादावुक्तः । वस्तुतस्तु पौराणिकत्वात् देव-ताभ्य इत्यस्य पाठवत् साधारणस्मृतिकार-शातातपोक्तत्वाच्च विभागेऽपि मन्त्रान्वयो युक्तःअतएव मैथिलैरपि तथा लिखितमिति ॥
* ॥
एवञ्च पार्व्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्ड-दानविधानात् तद्विकृतावपि सपिण्डीकरणेतन्नियमात् यद्यपि शेषाभावे पिण्डनिवृत्ति-रायाति तथापि ।“यथोक्तवस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् ।यवानामिव गोधूमा ब्रीहीणामिव शालयः ॥
”इति छन्दोगपरिशिष्टवचनात् मुख्याभावे प्रति-निधिः शास्त्रार्थ इति न्यायाच्च मध्वाद्यभावेगुडादिग्रहणवत् द्रव्यान्तरेणापि पिण्डदानम्शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय ।अन्यथा तदङ्गाभावे कर्म्मवैगुण्यं स्यात् । सह-पिण्डक्रियायां इति मनूक्तेः प्रेतपिण्डस्य सह-मिश्रीकरणं यत्रेति सपिण्डीकरणसमाख्या-सिद्ध्यर्थं सुतरां तत्र तथाचरणम् । प्रतिपत्ति-रूपकर्म्माङ्ग एव प्रतिपाद्याभावे तन्निवृत्तिः ।पशुयागे लोहितं निरस्यति सकृन्निरस्यतिइत्यादावुक्ता । अतएव यज्ञवास्तुरूपप्रतिपत्ति-यागेऽपि यज्ञो यत्र वसति इति यज्ञवास्तुसमा-ख्यानुरोधेनास्तृतकुशविनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैः गोभिलभाष्ये उक्तः । प्राक्स्विष्टिकृत आवापः इति गोभिलसूत्रस्यव्याख्यानेऽपि आ उच्यते इत्यावापः प्रधानहोमःस तु स्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः ।एवञ्च मुख्यहोमे त्वकृते यदि चरुर्नष्टो दुष्टो वाभवति तदान्यः पाच्यः मुख्ये कृते चेन्नाशदुष्टीस्यातां तदाज्येनैव स्विष्टिकृद्धोम इति शरला ।एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-मिश्रोक्तं हेयम् ॥
* ॥
एतेन पिण्ड इति ।एतेनार्घ्यदानविधानेन । पिण्डः पिण्डमिश्रण-प्रकारो व्याख्यातः । तथा च ब्रह्मपुराणम् ।“अथ तेनैव विधिना दर्भमूलेऽवनेजनम् ।पितुर्द्दत्त्वा तु पिण्डन्तु दद्याद्भक्त्या तु पूर्व्ववत् ॥
दत्त्वापिण्डान् पितृभ्यस्तु पश्चात् प्रेताय पार्श्वतःतन्तु पिण्डं त्रिधा कृत्वा आनुपूर्व्व्या च सन्त-तम् ॥
निदध्यात्त्रिषु पिण्डेषु एवं संसर्ज्जने विधिः ॥
”पितृभ्यः पितृपितामहादिभ्यः पिण्डान् दत्त्वापश्चात् प्रेताय पार्श्वतः पूर्व्वदेशे पिण्डं दद्यादि-त्यर्थः । तं प्रेताय दत्तपिण्डम् । आनुपूर्व्व्यापितामहादिक्रमेण । संसर्ज्जने प्रेतपिण्ड-मिश्रणे । भविष्यपुराणम् ।“गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम् ।अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥
”ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् ।नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥
”नित्येनावश्यकेन ततश्च पार्व्वणांशे पार्व्वणेनएकोद्दिष्टांशे एकोद्दिष्टेन शेषं अङ्गजातंतुल्यम् । एकोद्दिष्टमिति एकोद्दिष्टं तद्धर्म्म-ग्राहित्वात् सपिण्डीकरणञ्चेत्युभयपरम् । एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि । इतियाज्ञवल्क्यवचनैकवाक्यत्वात् । तेन श्राद्धेषुमध्ये एतच्छ्राद्धद्वयं स्त्रियाः कर्त्तव्यं न त्वाभ्यु-दयिकश्राद्धादि । अत्र वा कर्त्तरि कृत्ये इतिकर्त्तरि षष्ठीति कर्त्तृत्वनियमः । वृद्धिश्राद्धादौस्त्रीणां भोजनदर्शनान्न भोक्तृत्वनियमः ॥
* ॥
पितरि पूर्व्वमृते तद्वर्षाभ्यन्तरे पितामहेप्रपितामहे च मृते यथा कर्त्तव्यं तथाह छन्दोग-परिशिष्टे कात्यायनः ।“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम्असंस्कृतौ न संस्कार्य्यौ पूर्व्वौ पौत्त्रप्रपौत्त्रकैः ।पितरं तत्र संस्कुर्य्यादिति कात्यायनोऽब्रवीत् ॥
पापिष्ठमपि शुद्धेन शुद्धं पापकृतापि वा ।पितामहेन पितरं संस्कुर्य्यादिति निश्चयः ॥
”पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपि पिता-महप्रपितामहयोः सतोः प्रतिमासविहितंपार्व्वणं पितृवृद्धप्रपितामहातिवृद्धप्रपिता-महानां कर्त्तव्यं न तु तयोः सपिण्डीकरणापेक्षाकार्य्या ॥
* ॥
नन् सपिण्डनेनासंस्कृताभ्यांपितामहप्रपितामहाभ्यां सह पितुः कथंसपिण्डनाख्यसंस्कारस्तस्मात् तदर्थं तयोःसपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्ड-नमुत्कर्षणीयमित्यत आह असंस्कृताविति । उत्-कर्षाप्रकर्षौ न कार्य्यावित्यनेन वचनेनोक्तम् ।कथमसंस्कृतेन सह संस्कार इत्यत्र आह पापि-ष्ठमपीति । पापिष्ठमकृतसपिण्डीकरणं शुद्धेनकृतसपिण्डीकरणेन पितामहेन पापकृता वाअकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादितिशास्त्रनिश्चयः । अतो वचनबलाददोषः इतितात्पर्य्यम् । अत्र तु प्रेतीभूतपितामहेन पितुःसंपिण्डने पितामहस्यैकोद्दिष्टमेव ।“असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् ॥
”इति प्रागुक्तजावालवचनात् । एवमन्यत्रापिबोध्यम् । वृद्धप्रपितामहस्य प्रेतत्वे तेन सह नकार्य्यमिति तात्पर्य्यम् ॥
* ॥
अत्र मातुः सपिण्डनेश्वशुरार्य्यश्वशुरयोः पिण्डौ कुशैराच्छाद्यौ ।तथा च गार्ग्यः ।“पतिनैकेन कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।सा गता हि मृतैकत्वं कुशैरन्तरयन् पितॄन् ॥
श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनक्रिया ।पुत्त्रैर्दर्भेण सा कार्य्या मातुरभ्युदयार्थिभिः ॥
”अन्तरयन्तीत्यर्थे अन्तरयन्निति लिङ्गव्यत्ययेनपुंस्त्यमिति हलायुधः । परवचनं गोभिलश्राद्ध-सूत्रभाष्यकृतापि लिखितम् । अतएव प्रव्रजितेपतिते वा पितरि मृते न पितामहादिभिर्मातुःसपिण्डीकरणं किन्तु पितामह्यादिभिरेव ।“स्वेन भत्रा सहैवास्याः सपिण्डीकरणं स्त्रियाःएकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः ।तस्मिन् सति सुताः कुर्य्युः पितामह्या सहैव तु ॥
”इत्यत तस्मिन् सतीति श्राद्धानर्हभर्त्तुरुपलक्ष-णम् । अतएव ।“तस्याञ्चैव तु जीवन्त्यां तस्याः श्वश्वेतिनिश्चयः ।”इति लषुहारितेन श्वश्रुजीवने तस्या श्वश्रे-त्युक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम् ॥
* ॥
एवंपितामह्यादिभिर्म्मातुः सपिण्डीकरणेऽपि साम-गेन ये चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधाइति मन्त्रो न पाठ्यः मन्त्रलिङ्गविरोधात् । अत-एव आभ्यु दयिके मातृपक्षे श्रीदत्तादिभिर्मन्त्रांन्तरं लिखितं न तु ये चात्र त्वामिति । वस्तु-तस्तु आभ्यु दयिके छन्दोगानां मातृपक्ष एवनास्तीति वक्ष्यते । एवञ्च ।“अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।ये समाना इति द्वाभ्यां शेषं पूर्व्व वदाचरेत् ॥
”एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ।इति यात्तवल्क्येन पार्व्वणैकोद्दिष्टविकृतीभूत-पुंसपिण्डनातिदेशात् तद्विकृतीभूतस्त्रीसपिण्डनेऽपि ये समाना इति मन्त्रद्वयस्य पार्व्व णोक्तस्यये चात्र त्वामिति मन्त्रस्य च लिङ्गार्थासम-वेतत्वेऽपि प्रकृत्यर्थस्य समवेतार्थत्वात् पाठः ।“ततश्च मातामहानामप्येवं श्राद्धं कुर्य्याद्धिच-क्षणः ।मन्त्रोहेन यथान्यायं शेषाणां मन्त्रवर्ज्जितम् ॥
”इत्यनेन यच्छेषाणां मन्त्रवर्ज्जनमित्युक्तं तत्शुन्धञ्चां पितरः शुन्धन्तां पितामहाः इत्यादिप्रकृत्यूहयोग्यमन्त्रवर्ज्जनपरमिति प्रागुक्तम् ।मार्कण्डेयपुराणम् ।“सर्व्वाभावे स्त्रियः कुर्य्युः स्वभर्त्तॄणाममन्त्रकम्तद्भावे च नृपतिः कारयेत् स्वकुटुम्बवत् ॥
स्त्रीणामप्ये वमेवैतदेकोद्दिष्टमुदाहृतम् ।मृताहनि यथान्यायं नॄणां यद्वदिहोदितम् ॥
”स्त्रियोऽत्र असवर्णोढा अपरिणीता वेतिश्राद्धविवेकः । सवर्णोढायाः पुत्त्रपौत्त्रप्रपौत्त्रा-भाव एव विधानात् । तथा शङ्खः ।“पितुः पुत्त्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।तदभावे तु पत्नी स्यात्तदभावे सहोदरः ॥
”स्त्रीणामिति तु सम्प्रदानपरम् । स्त्रीकर्त्तृक-त्वस्य पूर्व्वार्द्ध एवोक्तत्वात् । एकमेवामन्त्रकमि-त्यर्थः । इति श्राद्धविवेकः ॥
अत्र स्त्रिय इत्य-स्यासवर्णोढा अपरिणीतापरत्वव्याख्यानात्स्त्रीणां मन्त्रनिषेधोऽपि तत्सम्प्रदानकश्राद्धएवावगम्यते । न तु स्त्रीसम्प्रदानकमात्रे ।कल्पतरौ तु स्त्रीणामप्येवमिति यादृशेन सम्ब-न्धेन पितृव्यत्वादिना पुरुषाणामेकादशाहादि-श्राद्धं तादृशेन सम्बन्धेनैव स्त्रीणामेतत् कर्त्तव्य-मिति । एतद्व्याख्याने स्त्रीसम्प्रदानकश्राद्धेसुतरां मन्त्राः पाठ्याः । याज्ञवल्क्येनापिसमन्त्रकमेकोद्दिष्टं सपिण्डीकरणञ्चोक्त्वा एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपीत्यनेनस्त्रिया अपि तथैवोक्तम् ।“मातुः सपिण्डीकरणं पितामह्या सहोदितम् ।यथोक्तेनैव कल्पेन पुत्त्रिकाया न चेत् सुतः ॥
”इति छन्दोगपरिशिष्टेनापि यथोक्तेनैव कल्पेनइत्यनेन मन्त्रादिकसर्व्वमतिद्दिष्टं व्यवहारोऽपितथेति । अमन्त्रकं स्त्रीकर्त्तृ कमन्त्रपाठरहितम्अमन्त्रा हि स्त्रियो मताः । इति बौधायनेनसामान्यतोऽभिधानात् । न तु ब्राह्मणकर्त्तृक-मन्त्रपाठरहितम् । तथा च वराहपुराणम् ।“अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्ज्जितः ।अमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते ॥
”अत्रामन्त्रस्येति विशेषणस्य यावदमन्त्रव्याप्त्यर्थत्वेन परिभाषारूपत्वान्न प्रेतश्राद्धमात्रविषयःन वा शूद्रकर्त्तृ कश्राद्धमात्रविषयः । किन्तु स्त्रो-कर्त्तृ कश्राद्धमप्यस्य विषयः । व्यक्तं ब्राह्मे ।“स्त्रीभिश्चावरवर्णैश्च श्राद्धं विप्रानुशासनात् ।मन्त्रवद्विधिपूर्व्वन्तु वह्निपाकविवर्ज्जितम् ॥
”विप्रानुशासनात् विप्रपाठनात् । मन्त्रवन्मन्त्र-युक्तम् । वह्निपाकविवर्ज्जितमित्यसवर्णस्त्रीकर्त्तृकश्राद्धपरम् । पतिकर्त्तृकश्राद्धेऽपि पत्न्याः पाका-धिकारदर्शनात् । तथा च छन्दोगपरिशिष्टम् ।शाकञ्च फाल्गुनाष्टम्यां स्वयं पत्न्यथवा पचेत् ।पत्नीत्वञ्च सवर्णोढायाः । ज्येष्ठा पत्नीति वच-नात् । ज्यैष्ठ्यमाह मनुः ।“यदि स्वाश्च पराश्चैव विन्देरन् योषितो द्विजाःतासां वर्णक्रमेणैव ज्यैष्ठ्यं पूजा च वेश्म च ॥
”कुबेरोपाध्यायधृतम् ।“असंस्कृतप्रमीतानां पिता न श्रार्द्धमाचरेत् ।यदि स्नेहेन कुर्व्वीत सपिण्डीकरणं विना ॥
”असंस्कृतप्रमीतानाम् अनुपनीतमृतानाम् ।लघुहारीतः ।“पुत्त्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्त्रादयोऽपि ये ॥
”आदिशब्दग्राह्यानाह स एव ।“भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एववा ।सहपिण्डक्रियां कृत्वा कुर्य्यादभ्यु दयं ततः ॥
”भ्राता वा इति वा शब्दात् भ्रात्रपेक्षया प्रधान-त्वेन पूर्व्वाधिकारिणां दौहित्रान्तानां समुच्चयःअतएव सपिण्डत्वेनैव भ्रातृतत्पुत्त्रयोरधिकार्-सिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम् ॥
* ॥
“महागुरौ प्रेतीभूते वृद्धिकर्म्म न युज्यते ॥
”इति शूलपाणिलिखितवचनेन ।“प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् ।नापि दैवं न वा पैत्रं यावत् पूर्णो न वत्सरः ॥
”इति देवीपुराणवचनेन च प्रेतीभूतमातापितृ-कस्य पितुः प्रेतीभूतमातापितृकस्य संस्कार्य्यस्यप्रेतीभूतमातापितृकायाः अनूढायः कन्यायाश्चवैदिककर्म्मकर्त्तृत्वकर्म्मत्वानर्हत्वेन तत्परीहा-राय यदहर्व्वा वृद्धिरापद्येत इत्यनेन पूर्व्वदिनेसपिण्डनं कृत्वा पित्रादिः परदिने अभ्यु दयम्नामकरणादिकं कुर्य्यात् । ऊढायास्तु पतिरेकेगुरुः स्त्रीणाम् । इति वचनोक्तैकपदेन पत्युरेवमहागुरुत्वाभिधानात् तत्प्रेतत्वमात्रे तस्याःकर्म्मानधिकारः । एवञ्च पितृमात्रोर्म्महागुरुत्व-व्यावृत्तेस्तयोर्म्मरणे ऊढाया न कर्म्मानधिकारःअत्राभ्युदयसपिण्डनयोरानन्तर्य्यमात्रं क्त्वाप्रत्य-यार्थः न त्वेककर्त्तृत्वमपि । अन्यथा सपिण्ड-ताधिकारिण्याः पत्न्याः सत्त्वे अभुदयाधि-कारिणो भ्रातुः सपिण्डनाधिकारापत्तेः ।यथा, --“नानिष्ट्वा तु पितॄन् श्राद्धैः कर्म्म वैदिक-मारभेत् ॥
”इति शातातपवचने पितृकर्त्तृ कवृद्धिश्राद्धा-नन्तरमेव पुत्त्रेण विवाहः क्रियते । न तु पुत्त्रेणश्राद्धान्तरं क्रियते ॥
* ॥
अत्र पुरुषस्य पुनस्त्वन्येइत्यनेन पुत्त्रवत् शिष्यान्तस्य सपिण्डने सामान्य-तोऽधिकारप्रतिपादनात् अभ्युदयं विनापिपुरुषस्य सपिण्डनं प्रतीयते ।“सह पिण्डक्रियां कृत्वा कुर्य्यादभ्युदयं ततः ।”इति तु सपिण्डीकरणात् पूर्व्वमभ्युदयाभावार्थंन त्वभ्युदयसत्त्व एव सपिण्डीकरणार्थमिति ॥
* ॥
यतु ।“यानि पञ्चदशाद्यानि अपुत्त्रस्येतराण्यपि ।एकस्यैव तु दातव्यमपुत्त्रायाश्च योषितः ॥
”इति छन्दोगपरिशिष्ठीयं सपिण्डीकरणेतरपञ्च-दशश्राद्धविधायकं तच्छिष्यपर्य्यन्ताभावे पुरुषस्यबोध्यम् । इतराणि एकोद्दिष्टविधानेनैव यानिंप्राप्तानि प्रत्याब्दिकश्राद्धानि तान्येव दातव्यंदातव्यानि इत्यर्थः । अपुत्त्रायाश्चेति चकारो-ऽनुक्तसमुच्चायकः पतिरहिताया इति समु-च्चिनोति ।“अपुत्त्रायां मृतायान्तु पतिः कुर्य्यात् सपिण्ड-ताम् ।इति पैठीनसिवचनैकवाक्यत्वात् । अत्र छन्दोग-परिशिष्टे अपुत्त्रायाः पञ्चदशश्राद्धविधानात् ।“सपिण्डीकरणं तासां पुत्त्राभावे न विद्यते ।”इति मार्कण्डेयपुराणाच्च बालकपुत्त्रसत्त्वे सपि-ण्डीकरणं अन्येनापि कर्त्तव्यमिति प्रतीयते ।एवं पतिः कुर्य्यादित्यत्राति पतिसत्त्वमात्रं विव-ज्ञितम् । तेन ऊढया दुहित्रा सपिण्डनंकार्य्यम् । अत्र ।“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत्सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्म्मनुः ॥
”इति मनुवचने सपत्नीपुत्त्रस्य पुत्त्रत्वातिदेशात्तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तम् ।तन्न । प्रागुक्तलघुहारीतवचने पुत्त्रेणैवेत्येव-कारेणातिदिष्टपुत्त्रनिषेधात् । अतएव तदुत्त-रार्द्धे भ्रातृपुत्त्रोपादानं सङ्गच्छते । अन्यथाभ्रातृपुत्त्रसत्त्वे ।“यद्येकजाता बहवो भ्रातरश्च सहोदराः ।एकस्यापि सुते जाते सर्व्वे ते पुत्त्रिणो मताः ॥
”इति बृहस्पतिवचनेन पुत्त्रत्वातिदेशात् भ्रातृ-पुत्त्रस्य पितृव्यश्राद्धाधिकारे प्राप्ते भ्रातृपुत्तो-पादानं व्यर्थं स्यात् । पुत्त्रातिदेशफलन्तु तत्सत्त्वेपुत्त्रान्तराकरणं पुन्नामनरकत्राणञ्च ॥
* ॥
लघु-हारीतः ।“सपिण्डीकरणान्तानि यानि श्राद्धानि षोडशपृथङ्नैव सुताःकुर्य्युः पृथग्द्रव्या अपि क्वचित् ॥
प्रेतसंस्कारकर्म्माणि यानि श्राद्धाणि षोडश ।यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः ॥
”पृथग्द्रव्या अपि विभक्तधना अपि पृथक् नकुर्य्युः सुतरामपृथग्धनाः पृथक् न कुर्य्युः किन्त्व-पृथक् कुर्य्युः । अत्र विशेषयति मरीचिः ।“मृते पितरि पुत्त्रेण क्रिया कार्य्या विधानतः ।बहवः स्युर्यदा पुत्त्राः पितुरेकत्र वासिनः ॥
सर्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।द्रव्येण चाविभक्तेन सर्व्वैरेव कृतं भवेत् ॥
”पुत्त्रेणेत्यविशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्यसाक्षात् कर्त्तव्यतामाह बहव इति । ज्येष्ठेनापिसर्वेषां भ्रातॄणां मत्करणेनैव करणं भवतु इतिमतं ज्ञानं कृत्वाविभक्तत्वेन द्रव्यसंश्लेषेण चकृतं कर्म्म सर्वैरेव कृतमेव भवेत् । तदानींद्रव्यासंश्लेषे च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वाकर्त्तव्यम् । यदि तेन तन्न परिशुध्यते तदा सऋणी भवति प्रत्यवायी च भवति । न तु तेनश्राद्धान्तरं कर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम् ।पृथङ्नैव सुताः कुर्य्युरित्यनेन पृथक्करणस्यपर्य्युदस्तत्वेनानधिकारात् । यथाकालमितिअगौचान्तद्वितीयदिनद्वादशमासमृततिथ्येकाह-न्यूनपण्मासद्वितयसंवत्सरेषु । न च विधानसाम-र्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्तचत्कालानां द्वादशहाद्यपेक्षया प्राधान्यबोध-नार्यत्वात् ॥
* ॥
अत्र ।“आनन्त्यात् कुलधर्म्माणां पुंसाञ्चैवायुचःक्षयात् ।अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥
”इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचार-ज्योतिःशास्त्रादिज्ञानझटितिमरणराष्ट्रोपप्लवा-दिम्लेच्छदेशादिगमनानुसारादेव सपिण्डीकर-णापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादि-गौणकालपरिग्रहः । अथवा यथाकालमित्या-देर्यदहर्व्वा वृद्धिरापद्येत इत्यनेनावश्यकनाम-करणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यक इष्टापूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् । अतएवलघुहारीतेन । तथैव काम्यं यत् कर्म्म वत्सरात्प्रथमादृते इत्यनेन काम्यस्यापकर्षनिमित्ततानास्तीत्युक्तम् । यदि त्वावश्यकवृद्धिनिमिक्षेनाप-कर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्य-न्तरेऽपि कर्त्तव्यमिति । श्राद्धयिवेकोऽप्येवम् ।यद्यपि गोभिलसूत्रादौ सपिण्डीकरणस्यैवाप-कर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्-पूर्व्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायाद-पकर्षा ।“सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः ।”इति शातातपवचने प्रेतक्रियायाः सपिण्डीकर-णान्तत्व प्रतीयते ॥
* ॥
अत्र कृद्धिनिनित्तं विनःसपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्यप्रेतत्वपरिहारमाह विष्णुधर्म्मोत्तरम् ।“कृते सपिण्डीकरणे नरः सवत्सरात् परम् ।प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥
”वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्-क्षणादेव प्रेतत्वपरीहारः । तदर्थ एवापकर्षात्एवञ्चान्यनिमित्तकापकर्षेवृद्धिकालंप्राप्यप्रेतत्व-परीहारः । तत्कालस्य पूर्णसंवत्सरकालतुल्य-त्वात् ।“अर्व्वाक् संवत्सराद्वृद्धौ पूर्णे संवत्सरेऽपि वाये सपिण्डीकृताः प्रेता न तेषान्तु पृथक्क्रिया ॥
इति शातातपवचनात् । इति श्राद्धतत्त्वम् ॥
वाचस्पत्यम्
Sanskritसपिण्डीकरण सह पिण्डेन सपिण्डः ततः अभूततद्भाकेच्वि + कृ--ल्युट् । प्रेतत्वविमोचनाय प्रेतोद्देशेन अर्त्तव्येपित्रादिपिण्डसमन्वयकरणरूपे श्राद्धभेदेसपिण्डीकरणप्रकारस्तत्कालादिकं श्रा० त० निरूपितं यथा“अथ सपिण्डीकरणम् । तत्र मोभिलः “पूर्णे सं-वत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्येत तदह-श्चत्वार्युदकपात्राणि सतिलगन्धपुष्पोदकानि पूरयित्वात्रीणि पितॄणामेन्नं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासि-ञ्चति । ये समानाः समनसः पितरो यमराज्ये तेषांलोकाः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये समानाःसमनसो जीवाजीवेषु मापकाः । तेषां श्रीमयि कल्प-तामस्विन् लोके शतं समाः” इति एतेनैव पिण्डोव्याख्यातः” इति । पूर्णे संवत्सरे इति मुख्यः कल्पः ।तदशक्तौ नबमो मासः “संवत्सरान्ते विजर्जनं नवम-मास्यमित्येके” इति पैठीनसिवचनात् । तदक्तौ षष्ठोमासः । तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचाप-गमे प्रथममासस्य द्वादशभिर्दिभैर्द्वादशमासिकानि श्रा-द्धानि निर्वर्त्त्य त्रयोदशाहः सपिण्डोकरणकालः शूद्रस्यु-द्वादशाहो न तु त्रयोदशाह एव “मासिकार्थवत् द्वाद-शाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत्कुर्य्यान्मन्त्रवर्जंहि शूद्राणां द्वादशेऽह्नीति” विष्णुवचनात् । मासिका-र्थवदिति मासिकार्थो मासि मासि क्रियमाणश्राद्धप्रयो-जनं प्रेताप्ययनादि तद्युक्तं द्वादशाहक्रियमाणश्राद्धसित्यर्थः । यत्र त्वेजादशमासाभ्यन्तरेऽधिमासपातस्तत्रत्रयोदशसु दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्दशेऽह्निसपिण्डनं कार्य्यमिति “संबत्सराभ्यन्तरे यद्यधिमासोभवति तदा मासिकार्थं दिनमेकं वर्द्धयेत्” इति विष्णु-वाक्यात् शूद्रस्य त्रयोदश दिनेषु त्रयोदशं मासिकानित्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात् । एवञ्चवृद्धिमात्रे न दिनवृद्धिरिति मिश्रोक्तं हेवम् । तद्धृत-विष्णुंसूत्रे दिनमेकं वर्द्धयेदिति श्रुतेः । श्वाद्धाधिक्यमाहसत्यव्रतः “संवत्सरस्य मध्ये तु यदि स्यादधिमासूकःतदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत्” । तत्राप्य-शक्तौ प्रथममासस्यैकाह एव द्वादशमासिकसहितसपि-ण्डीकरणकालः । “मुख्यं श्राद्धं मासिमासि अपर्य्या-प्रावृतुं प्रति । द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा”इति मरीचिवचनात् । अपर्य्याप्तौ अशक्तौ ऋतुर्मास-द्वयम् । अत्र कल्पे षष्ठमासिकदिने पञ्चममासिकं कृत्वाप्रथमषाण्मासिकं कार्य्यं तदाद्युत्कर्षन्यायात् । न तुतत् पूर्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चपमासिकमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पतिमिश्रः । अपककर्षविषित्तमाहं व्याघ्रः “आनन्त्यात् कुल-धर्माणां पुंसाञ्चैवायुषः क्षयात् । अस्थितेश्च शरीरस्यद्वादशाहः प्रशस्यते” । एतच्च द्वादशाहपदं शावाशौचान्त-तृतीयदिनमात्रपरमिति प्राचीनमैथिलाः अजहतस्वार्थ-लक्षया स्वजात्युक्ताशौलान्ततृतीयदिनमात्रीपलक्षकमितिश्राद्धप्रदीपश्राद्धचिन्तामणी । तद्द्वयमप्ययुक्तं “द्वादशाहेनवा कुर्य्यात्” इति मरीचिवचन “द्वादशाहे श्राद्धं कृत्वात्रयोदशेऽह्नि वा कुर्य्यात्” इति विष्णुवचनाभ्यामेडवा-क्यतया द्वादशदिनपरत्वात् । कुलधर्माणामिति कुल-धर्मज्योतिरागमादिसिद्धानन्तरषाविनाशपरचक्रभयोत्पन्न-म्लेच्छदेशगमनादिभिर्निमित्तैरशौचापगमे द्वादश दिनानिषोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्यायव्याख्यानात्मरीचिनेव “एकाहे द्वादशाथ वेति” सामान्यत एव एकाह-विधानाच्च । अतएव एकाहापेक्षया प्राशस्त्यामिधानमपिसङ्गच्छते अतएव प्रथममासस्य एकाह एव द्वादशमासिक-सहितसपिण्डीकरणकाल इति श्राद्धविवेकः । अत्र यानिएकाहकर्त्तव्यतया द्वादशमासिकश्राद्धान्युक्तानि तानि शूद्रेणापि आद्यमासिकदिन एव कार्य्याणि नत्वाद्यमासिकंकृत्वा तत्परदिने एकादश मासिकानीति ज्ञेयम् ।एवञ्च तेवामपकर्षे तन्मध्ये तदन्तकाले च कर्त्तव्यतया षण्-माषिकद्वयसपिण्डीकरणापकर्षः सिद्ध्यतीति सुधीभि-र्भाव्यम् । यदहर्वा वृद्धिरिति वृद्धिराशास्यमानं पुंस-वनादि । आपद्येत आसन्ना भवति तद्दितेऽपिसपिण्डीश्चरणम् । तथाहि “प्रागावर्त्तनादह्नः कालंविद्यात्” इति गोभिलगृह्यसूत्रेण पुंसवनादिकरूप-वृद्धेर्यामद्वयाभ्यन्तरे विधानात् सपिण्डीकरणस्य चाप-राह्णे विधानात्तयोः कालयोरबाधाय वृद्धिपूर्वदिने अप-कर्षः । ननु सपिण्डीकरणस्यापराह्णिककत्वे किं प्रमाण-मिति चेत् “अपराह्णे तु पैतृकम्” इत्युत्सर्गवचनम् ।किञ्च “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम् । अग्नी-न्द्रेश्वरसाधर्म्यात्तण्डुलोऽत्र विधीयते” इति छन्दोग-परिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुर्नैकानु-रोधात् पैष्टचरुः “विरुद्धधर्मसववाये भूयसां स्यात् सधर्म-कत्वम्” इति जैमिनिसूत्रात् । तद्वदत्रापि बहुदेवताकप्रार्वणानुरोधात् “एकोद्दिष्टविधानेन कार्यन्तदपि पार्थिव!”इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्यतापरंन तु तत्कालपरम् । तथा च परिशिष्टप्रकाशघृतम्“श्राद्धद्वयमुपक्रम्य कुर्वीत सहपिण्डताम् । तवोःपार्वणवत् पूर्वमेकोद्दिष्टमथापरम्” इति । एवञ्च शुद्धि-तत्त्व लखितस्यमन्तकोपाख्यानवत् वृद्धिं निश्चित्य कृतंसपिण्डीकरणं तदानीं विघ्नेन वृद्ध्यभावेऽपि वृद्ध्या-रम्भकालान्तरं पूर्णसंवत्सरं वा प्राप्य पितृत्वप्रापकमितिन सपिण्डनान्तरम् । अत्र “श्वःकर्त्तास्मीति निश्चित्यदाता विपास्निमन्त्रयेत् ।” इतिवन्निश्चित्येति उत्कटं-कोटिकसम्भावनोपलक्षणं भविंष्यन्निमित्तस्य कर्मणः प्रत्यू-हार्हत्वात् एवञ्च वृद्धिश्राद्धं यदर्थं कृतं तत् कर्मचेत् विघ्नात्तद्दिने न क्रियते तदा दिनान्तरे तत् कर्मणिक्रियमाणे तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव ।“प्रधानस्याक्रिया यत्र साङ्ग्रं तत्क्रियते पुनः । तदड्ग-स्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया” । इति छन्दोग-परिशिष्टेन साङ्गकरणाभिधानात् । हेमाद्रिधृतं “पूर्णे-संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् । तेनैव चसपिण्डत्वं तेनैवाव्दिकमिष्यते ।” अत्र पूर्णसंवत्सर-क्रियमाणश्राद्धाद् यथोभयनिर्वाहः तथापकृष्ट-सपिण्डनादप्युभयनिर्वाहान्न पूर्णसंवत्सरे आव्दिका-न्तरं कार्य्यम्” । तत्रायं विशेषः तत्रोक्तो यथा“एवञ्च पार्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्डविधा-नात् तद्विकृतावपि सपिण्डीकरणे तन्नियमात् यद्यपिशेषाभावेऽपि पिण्डनिवृत्तिरायाति तथापि “यथोक्त-वस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत् । यवानामिव गो-धूमा व्रीहीणामिव शालयः” इति छन्दोगपरिशिष्ट-वचनात् “मुख्याभावेऽपि प्रतिनिधिः शास्त्रार्थः” इतिन्यायाच्च मध्वाद्यमावे गुडादिग्रहणवत् द्रव्यान्तरेणापिपिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय ।अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात् “सहपिण्डक्रिया-याम्” इति मनूक्तेः पिण्डस्य पेतपिण्डेन सह मिश्री-करणं यत्रेति सपिण्डीकरणसमाख्यासिद्धर्थं सुतां तत्रतथाचरणं प्रतिपत्तिरूपकर्माङ्ग एव प्रतिपाद्याभावे तन्नि-वृत्तिः पशुयागे “लाहित निरस्यति सकृन्निरस्यति” इत्या-दावुक्ता । अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञोयत्र वसति इति यज्ञवास्तुसमाख्यानुरोधेनास्तृतकुश-विनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाष्येउक्तः “प्राक् स्विष्टिकृत आवापः” इति गोभिलसूत्रस्यव्याख्यानेऽपि आउप्यते इत्यावापः प्रधानहोमः स तुस्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः । एवञ्च मुख्यहोमेत्वकृते यदि चरुर्नष्टो दुष्टो वा भवति तदान्यः पाच्यःमुख्ये कृते चेन्नाशदुष्टी तदाज्यैनैव स्विष्टिकृद्धोम इतिसरला । एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पति-मिश्रोक्तं हेयम् । एतेनार्घ्यदानविधानेन पिण्डमिश्रण-प्रकारो व्याख्यात उक्तः” ।“पितरि पूर्वं मृते तद्वषाभ्यन्तरे पितामहे प्रपिरामहंमृते यथा कर्त्तव्यं तथाह छन्दोगपरिशिष्टे कात्यायनः“पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम् । असं-स्कृतेन संस्कार्य्यौ पूर्व्वौ पात्रप्रपौत्रकैः । पितरं तत्रसंस्कुर्य्यादिति कात्यायनीऽव्रवीत् । पापिष्ठमपि पुद्धेनशुद्धं पापकृतापि वा । पितामहेन पितरं कुर्य्यादितिविनिश्चयः” । पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपिपितामहप्रपितामहयोः सत्त्वे प्रतिमासविहितं पार्बणंपितृवृद्धप्रपितामहातिवृद्धप्रपितामहानां कर्त्तव्यं न तुतयोः सपिण्डीकरणापेक्षा कार्य्या मनु सपिण्डनेनासंस्कृ-ताभ्यां सह पिण्डैः कथं सपिण्डनाख्यसंस्कारस्तस्मात्तदर्थंतयोः सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्डनमुत्कर्मणीयमित्यत आह असंस्कृतेनेति । उत्कषी-पकर्षौ न कार्य्यावित्यनेन वचनेनोक्तं कथमसंस्कृतेन सहसंस्कार इत्यत्राह पापिष्ठमपीति पापिष्ठमकृतसपिण्डी-करण शुद्धेन कृतसपिण्डीकरणेन पितामहेन पापकृताअकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति शास्त्रनिश्चयः ।अतो वचनबधाददोष इति तात्पर्य्यम् । अत्र तु प्रेतीभूतपितामहेन पितुः सपिण्डने पितामहैकोद्दिष्ठमेव । “अस-पिणडकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्” इति प्रागुक्तजाबालवचनात् । एवमन्यत्रापि बोध्यं वृद्धप्रपितामहस्य प्रेतत्वेतेन मह न कार्य्यमिति तात्पर्य्यम् । अत्र मातुः स-पिण्डने श्वशुरार्य्यश्वशुरयोः पिण्डो कुशैराच्छाद्यौ । तथाच गार्ग्यः “प्रतिनैकेन कर्त्तव्यं सपिण्डोकरणं स्त्रियाः ।सा गता हि मृतैकत्वं कुशैरन्तयन् पितृन् । श्वशुर-स्याग्रतो यस्माच्छिरःपच्छादनक्रिया । पुत्रैर्दर्भेण साकार्य्या मातुरभ्युदयार्थिभिः” । अन्तरयन्तीत्यर्थे अन्तरय-न्निति लिङ्गव्यत्ययेन पुंस्त्वमिति हलायुधः । पराचनंगोभिलश्राद्धसूत्रभाष्यकृतापि लिखितम् । अतएव प्रव्र-जिते पतिते वा पितरि मृतेऽपि न पितामहादिभि-र्मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव । “स्वेनभर्त्रा सहैवास्याः सपिण्डोकरणं स्त्रियाः । एकत्वं सागता यस्माच्चरुमन्त्राहुतिव्रतैः । तस्मिन् सति सुताःकुर्य्युः पिताभह्या सहैव तु” । इत्यत्र तस्मिन् सतीतिश्राद्धानर्हभर्त्रुपलक्षणम् । अतएव “तस्याञ्चैव तु जीवन्त्यांतस्याः श्वश्रेति निश्चयः” इति लघुहारीतन श्वश्रूजी-वने तस्याः श्वश्र्वोक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम् ।एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन“ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा” इति मन्त्रोक पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्य दयिके मातृ-पक्षे श्रीदत्तादिभिमन्त्रान्तरं लिखितं न तु ये चात्रत्वा-मिति वस्तुतस्तु आभ्युदयिके छन्दोगानां मातृपक्ष एवनास्तीति वक्ष्यते” ।लघुहारीतः “सपिण्डीकरणान्तानि यानि श्राद्धानिषोडश । पृथङ्नैव सुताः कुर्य्युः” पृथभ्द्रव्या अपिक्वचित् । प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश ।यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः” । पृथग्-द्रव्या अपि विभक्तधना अपि पृथक् न कुर्य्युः सुतरा-मपृथग्धनाः पृथक् न कुर्य्यु किन्त्वपृथक् कुर्युः अत्रविशेषयति मरीचिः । “मृते पितरि पुत्रेण क्रियाकार्य्या विधानतः बहवः स्युर्यदा पुत्राः पितुरेकत्र-वासिनः । सर्वेषान्तु प्रतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्” । पुत्रेणत्य-विशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य सालात् कर्त्त-व्यतामाह वहव इति । ज्येष्ठेनापि सर्वेषां भ्रातॄणांमत्करणेनैव करणं भवतु इति मतं ज्ञानं कृत्वा विभक्त-त्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वेरेव कृतमेव भवेत् ।तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वाकर्त्तव्यम् । यदि तेन तन्न परिशुध्यते तदा स ऋणीभवति प्रत्यवायी च भवतीति । न तु तेन श्राद्धान्तरंकर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम् । “पृथङ्नैव सुताःकर्यरित्यनेन पृथक्करणस्य पर्य्युदस्त नधिकारात् ।यथाकालमिति अशौचान्तद्वितीयदिनद्वादसमासमृतति-थ्येकाहन्यूनषण्मासद्वितीयसंवत्सरेषु । न च विधान-सामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम्तत्तत्कालानां द्वादशाहाद्यपेक्षया प्राधान्यबोधनार्थत्वात्अत्र “आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ।अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते” इति व्याघ्र-वचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादिज्ञात-झटितिमरणराष्ट्रोपप्लवादिम्लेच्छदेशादिगममानुसारादेवशपिण्डीकरणापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासा-दिनौणकालपरिग्रहः । अथ वा यथाकालमित्यादेर्यदहर्वावृद्धिरापद्येतेत्यनेभावश्यकनापकरणादिवृद्ध्यर्थमेवापकर्षोन त्वनावश्यकेष्टपूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम् ।अतएव लघुहारीतेन “तथैव काम्यं यत् कर्म वत्सरात्प्रथमावृते” इत्यनेन कास्यस्यापकर्षनिमित्तता नास्तीत्युक्तम्पदि त्वाधश्यकवृद्धिनिमित्तेनापकर्षः कृतस्तदा इष्टापूर्त्तादिकाम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवंयद्यपि गोमिलसूत्रादौ सपिण्डीकरणस्यैवापकर्षः प्रागुक्त-स्तथापि सपिण्डीकरणापकर्षे तत्पूर्वकर्त्तव्यश्राद्धानामपितदादितदन्तन्यायादपकर्षः । “सपिण्डीकरणान्ता तु ज्ञेयाप्रेतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाःसपिण्डीकरणान्तत्वं प्रतीयते । अत्र वृद्धिनिमित्तं विनासपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरी-हारमाह विष्णुधर्मोत्तरम् “कृते सपिण्डोकरणे नरःसंवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते”वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षणादेवप्रेतत्वपरीहारः तदर्थएवापकर्षात् एवञ्चान्यनिमित्ताप-कर्षे वृद्धिकालं प्राप्य प्रेतत्वपरीहारः तत्कालस्य पूर्ण-संवत्सरकालतुल्यत्वात् । “अर्वाक् संवत्सरात् वृद्धौपूर्णे संवत्सरेऽपि वा । ये सपिण्डीकृताः प्रेता नतेषान्तु पृथकक्रिया” इति शातातपवचनाति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
