| YouTube Channel

सपिण्डः (sapiNDaH)

 
Apte
English
सपिण्डः [sapiṇḍḥ], 'Having the same पिण्ड or funeral rice-ball offering', a kinsman connected by the offering of the funeral rice-ball to the Manes of certain relations
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत्
Ms.*
2.247
5.59
Y.*
1.52.
Apte Hindi
Hindi
सपिण्डः
पुं*
- समानः पिंडो मूलपुरुषों निवापो वा यस्य ब* स*
"समान पित्रों को पिंडदान देने वाला, एक समान पित्रों को पिण्डदान देने के कारण संबंधी, बन्धु "
Wordnet
Sanskrit
Synonyms:
सपिण्डः, सनाभिः
noun
एककुलोत्पन्नाः जनाः ये समानान् पितॄन् तर्पन्ति।
"ज्येष्ठतातस्य गृहे अद्य सपिण्डाः सर्वे एकत्रिताः भवन्ति।"
शब्दकल्पद्रुमः
Sanskrit
सपिण्डः,
पुं,
(समानः पिण्डो मूलपुरुषो निवापोवा यस्य समानस्य सः ।) सप्तपुरुषान्त-र्गतज्ञातिः तत्पर्य्यायः सनाभिः इत्य-मरः
अशौचविवाहदायभेदात् त्रिविधः ।तत्राशौचसपिण्डस्य लक्षणं यथा सप्तपुरु-षान्तर्गतत्वे सति गोत्रैक्ये सति दातृत्वभोक्तृ-त्वान्यतरसम्बन्धेन पिण्डलेपान्यतरवत्त्वम् दत्त-कन्यानान्तु भर्त्तृसापिण्ड्येन सापिण्ड्यम् अद-त्तानां पित्रवधित्रिपुरुषसापिण्डम् विवाह-सपिण्डास्तु पितृपितृबन्ध्वपेक्षया सप्तमपुरुषा-वधयः मातामहमातृबन्ध्वपेक्षया पञ्चमपु-रुषावधयश्च यथा, --“पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतः क्रमात् ।सपिण्डता निवर्त्तेत सर्व्ववर्णेष्वयं विधिः
”इत्युद्वाहतत्त्वधृतनारदवचनम्
दायसपिण्डास्तु त्रिपुरुषावधयः ते पितृ-पितामहप्रपितामहाः तेषां पुत्त्रपौत्त्रप्रपौत्त्र-दौहित्राः मातामहप्रमातामहवृद्धप्रमाता-महाः तत्पुत्त्रपौत्त्रप्रपौत्त्राश्च इति दाय-भागः
*
अथ सपिण्डादिविचारः मत्स्य-पुराणम् ।“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनःपिण्डदः सप्तमस्तेषां सापिण्ड्ये साप्तपौरुषम्
”नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपमोक्तृत्वा-सम्भवात् कथं सपिण्डत्वमिति चेदुच्यते तेषा-मपि पिण्डलेपयोः सम्बन्धोऽस्ति तथा चबौधायनः प्रपितामहः यितामहः पितः स्वयंसोदर्य्यभ्रातरः सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रोवा एतानविभक्तदायादान् सपिण्डानाचक्षतेविभक्तदायादान् सकुल्यानाचक्षते सत्स्वङ्गजेषुतद्गामी ह्यर्थो भवति इति अस्यार्थः पित्रा-दिपिण्डबयेषु सपिण्डनेन भोक्तृत्वात् पुत्त्रा-दिभिस्त्रिभिस्तत्पिण्डदानात् यश्च जीवन् यस्यपिण्डदाता मृतः सन् सपिण्डनेन तत्पिण्ड-भोक्ता एवं सति मध्यस्थितः पुरुषः पूर्व्वेषांजीवन् पिण्डदाता मृतः सन् तत्पिण्डभोक्ता-परेषां जीवतांपिण्डसम्प्रदानमूत आसीत् मृतैश्चतैः सह दौहित्रादिदेयपिण्डभोक्ता अतोयेषामयं पिण्डदाता ये चास्य पिण्डभोक्तारस्ते-ऽविभक्तं पिण्डरूपं दायं अश्नन्तीति अविभक्त-दायादाः सपिण्डा इति इदञ्च सपिण्डत्वंसकुल्यत्वञ्च दायग्रहणार्थम् अशौचाद्यर्थन्तुपिण्डलेपभुजामपि लेपभाजश्चतुर्थाद्याः पि-त्राद्याः पिण्डभागिनः
इति प्रागुक्तमत्स्यपुरा-णात् वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्चपिण्डे यथा परस्परं भोक्तृत्वं तथा लेपे तुल्य-न्यायात् हारलतायां कूर्म्मपुराणम् ।“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु जन्मनाम्नोरवेदने
पिता पितामहश्चैव तथैव प्रपितामहः ।लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम्
”लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्मनाम्नोरवेदनं याव-दमुकनाम्नोऽस्मात् पूर्व्वपुरुषादयं जातः इतिविशेषः अयमस्मत्कुले जात इति सामा-न्यतो वा स्मर्य्यते तावत् समानोदकत्वमितिहारलता
अत्र परवचनेनैव सापिण्ड्यसिद्धौपूर्व्ववचनपूर्व्वार्द्धं जीवत्पितृकत्वादिना अधिक-पुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्डतानिवृत्ति-ज्ञापनाय सर्व्वदेशीयाचारोऽपि तथा यथाश्राद्धविवेकेऽपि पार्व्वणश्राद्धानन्तरं तित्यश्राद्धेविकल्प उक्तः मार्कण्डेयपुराणम् ।“नित्यक्रियां पितॄणान्तु केचिदिच्छन्ति सत्तमाःन पितॄणां तथैवान्ये शेषं पूर्व्ववदाचरेत्
”अत्र पूर्व्वार्द्धात् पितॄणां प्राप्तौ पितॄनामित्यत्रपुनः पितॄणां ग्रहणं सनकादीनामन्नोत्सर्गा-भ्यनुज्ञानाथ इति फलान्तरमुक्तम् हरिशर्म्म-णापि अन्यार्थं पुनर्व्वचनमिति लिखितम् अथयः खलु पिण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-पितृभावः कथं सपिण्डः एकपिण्डदातृत्व-भोक्तृत्वलक्षणसम्बन्धाभावादिति चेत् तद्योग्य-तयेति ब्रूमः योग्यताप्रयोजकञ्च सामान्य-शास्त्रविषयत्वम् ततश्च अत्यतिवृद्धप्रपिता-महावधिकाधस्तनानां षण्णां पुंसां प्रत्येकापेक्षयासप्तानामेकगोत्राणां स्वावधिपरतनानां सप्ता-नाञ्च सापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्ब-न्धादिति स्त्रीणान्तु भर्त्तृसापिण्ड्येन सापि-ण्ड्यम् प्रत्तानां भर्त्तृसापिण्ड्यमिति वचनात् ।नन्वेवं कन्यायाः कथंसपिण्डतेति चेत् आदि-पुराणवचनात् त्रैपुरुषं सापिण्डम् यथा, --“सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी ।”अत्र कन्यानामनूढानाम् अप्रत्तानां त्रिपौ-रुषमिति वशिष्ठवचनात् तेन आत्मपञ्चमेवृद्धप्रपितामहे सापिण्ड्यं निवर्त्तत इति प्रति-पादितम् अतएव कन्यायाः प्रपितामहभ्रात्रातत्सन्ततिभिश्च सह सापिण्ड्याभावात् कन्या-मरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तुसमानोदकनिमित्तमेवाशौचमिति एवं तेषा-मपि जननमरणयोः कन्यानामिति शूलपाणि-महामहोपाध्यायाः
यत्तु कूर्म्मपुराणम् ।“अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्त-पौरुषम् ।प्रत्तानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः
”इति रत्नाकरधृतं तद्विवाहे पितृपक्षविषयम् ।यथा, विष्णुपुराणम् ।“सप्तमीं पितृपक्षाच्च मातृपक्षाच्च पञ्चमीम् ।उद्वहेत द्विजो भार्य्यां न्यायेन विधिना नृप
”सप्तमीं पञ्चमीं हित्वा इति शेषः भर्त्तृसापिण्ड्य-मित्यत्र साप्तपौरुषमित्यनुषज्यते तेन भर्त्तृ-समानसापिण्ड्यमित्यर्थः शङ्खलिखितौ ।“सपिण्डता तु सर्व्वेषां गोत्रतः साप्तपौरुषी ।पिण्डञ्चोदकदानञ्च शौचाशौचं तदानुगम्
”गोत्रतः गौत्रैक्ये तेन मातामहकुले कदाचित्षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि सपिण्डतातान् सप्तपुरुषान् समन्तात्कारेण पिण्डा-दिकमनुगच्छतीति तदानुगम् एतेन सपि-ण्डता एकशरीरावयवान्वयेन भवति तथा, हि पितुः शरीरावयवान्वयेन पित्रासह एव पितामहादिभिरपि पितृद्वारेणतच्छरीरावयवान्वयात् एवं मातृशरीरा-वयवान्वयेन मात्रादिभिरपि एवं पत्या सहपत्न्या एकशरीरारम्भकतया सापिण्ड्यम् ।तथा गर्भोपनिषदि एतत् षाट्कोषिकंशरीरं त्रीणि पितृतः त्रीणि मातृतः अस्थि-स्नायुमज्जानः पितृतः त्वङ्मांसरुधिराणिमातृतश्चेति तत्र तत्रावयवान्वयप्रतिपादनात्निर्व्वाप्य पिण्डान्वये तु सापिण्ड्ये भ्रातृपितृ-व्यादिसापिण्ड्यं स्यात् अतिप्रसङ्गस्तु सप्तान्य-तमत्वेन प्रयोगोपाधिना निरसनीयः यद्येवंमातामहादीनामपि मरणे सपिण्डत्वेन दशा-हाशौचं प्राप्नोति स्यादेतत् यदि मातामहानांमरणे त्रिरात्रं स्यादशौचकं इत्यादिविशेष-वचनं स्यात् यत्र तु विशेषवचनं नास्तितत्र दशाहमिति मिताक्षरारत्नाकरादिमतम-पास्तम् लेपभाज इत्यादिवाचनिकेऽर्थे सापिण्डेएकशरीरावयवान्वयरूपस्वकपोलरचितार्थान-वकाशात् निर्व्वाप्यपिण्डसम्बन्धेनभ्रात्रादीनांसापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-त्वात् कामधेनुहारलताकल्पतरुपारिजात-कारादिभिस्तथैवव्याख्यातत्वाच्च रेतःशोणित-परिणामरूपत्वादपत्यशरीरस्य भवतु वा तथा ।पत्या सह पत्न्या एकशरीरारम्भकतायाः प्रत्य-क्षवाधितत्वात् कथं सापिण्ड्यं प्रमातामहा-दीनां विशेषवचनाभावात् सपिण्डत्वेन दशा-हाद्यशौचप्रसङ्गात् मातामहादौ सापिण्ड्यस्यलोकविरुद्धत्वाच्च भवतु वा तथा शरीरद्वारासापिण्ड्यं तथापि वचनात् यथा सप्तान्तर्गतत्वंतन्त्रं तथा गोत्रतः साप्तपौरुषीति वचनात्गोत्रैक्यमपि प्रागुक्तवचनात् कन्यास्त्रियौ-रुषं सापिण्ड्यं ऊढायाश्च भर्त्तृसापिण्ड्येनसापिण्ड्यमिति चेत् तदेतन्मतेऽपि व्यवस्थायां नक्षतिरिति अतएव सुमन्तुवचनाभिहितं यद्द-शमपुरुषपर्य्यन्तमशौचंतत्सप्तमपुरुषाभ्यन्तरा-शौचान्न्यूनं त्रिरात्रम् यथा ब्राह्मणानामेक-पिण्डस्वधानामादशमात् धर्म्मविच्छित्तिर्भवतिआसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात्स्वधाविच्छित्तिर्भवति अन्यथा पिण्डाशौचक्रि-याद्युच्छेदात् ब्रह्मतुल्यो भवतीति अस्यार्थः ।एका समाना पिण्डस्वधा येषां ते तथा यथाएकोद्दिष्टस्य पिण्डे तु अनुशब्दो युज्यते इत्य-त्रानुशब्देनानुशब्दयुक्तो मन्त्रो लक्ष्यते अनुयुक्त-मन्त्रस्तु ये चात्र त्वामनु यांश्च त्वमनु तस्मै तेस्वधा इति तथापिण्डस्वधाशब्देन पिण्डसम्बन्धि-स्वधाशब्दयुक्तमन्त्रकरणकदेयजलं लक्षितम् ।तथा ऊर्ज्यं वहन्तीरमृतं घृतं पयः कीलालंपरिश्रुतं स्वधास्तर्पयत मे पितॄन् इत्यनेनपिण्डान् सिञ्चेदित्युक्तम् ततश्च एकपिण्डस्वधानांसमानोदकानामित्यर्थः अतएत मनुः ।“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते ।”विष्णुपुराणम् ।“मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ।”मातृपक्षस्य मातामहपक्षस्य पिण्डेन सम्बद्धाःसपिण्डाः जलेन सम्बद्धाः समानोदका इतिश्राद्धविवेकेऽपि व्याख्यातम् ।“असम्बन्धा भवेद्यातु पिण्डेनैवोदकेन वा
”इति विवाहेऽप्युक्तम् अत्र पुत्त्रिकायाः पार्व्वणेपिण्डोदकयोः सम्बन्धात्कन्यामात्रेऽपि तद्योग्य-तायाः सत्त्वात् कन्या पिण्डोदकसम्बन्धोच्यते ।एतदनुसारादपि तस्याः सपिण्डता बोद्धव्या त-स्मादेकपिण्डस्वधानामित्यनेन समानोदकभावःसमाख्यातः तु दशमपुरुषपर्य्यन्तं पित्रादि-जीवनादिना पिण्डसम्बन्धेऽपि सापिण्ड्यं विहितंप्रागुक्तयुक्तेः स्वधेत्यस्य तदनुपयुक्तत्वेन वैयर्य्या-पत्तेः अपुत्त्रधनाधिकारस्तु सन्निहिततराभावेसप्तमपुरुषपर्य्यन्तम् मृतपितृकस्य स्वधोप-लक्षितश्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति ।अत्र स्वधाशब्दो मन्त्रपरः पितृभक्षपरोऽपि ।तथा गुणविष्णुधृता श्रुतिः स्वधा वै पितॄ-णामन्नमिति दशमपुरुषानन्तरं समानोदक-त्वेऽपि त्रिरात्रं किन्तु पक्षिण्यादि तथाहि उदकक्रियामघिकृत्य पारस्करः सर्व्वेज्ञातयो भावयन्ति आसप्तमाद्दशमाद्वासमानग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्व्वाइति भावयन्ति निष्पादयन्ति अत्र यावत्सम्बन्धमनुस्मरेयुरेककुलजाता वयमिति स्मरणंभवतीत्यननैव सर्व्वेषामुदकदाने प्राप्ते यदासप्त-माद्दशमाद्वेत्युक्तं तत् सन्निकर्षतारतम्येना-शौचभेदेऽप्युदककर्म्मसमानार्थमिति अशौच-मेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्दशाहः ।ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः तथा विष्णु-बृहस्पती ।“दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके ।त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः
”ततश्चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च जन्म-नामस्मृतिपर्य्यन्तमेकाहः तथा मिताक्षरा-विवादचिन्तामण्योर्बृहन्मनुः ।“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात्
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते
”अत्र समानोदकत्वे द्विविधे पूर्व्वत्र गोतमःपक्षिणीमसपिण्डे इति परत्र हारीतः ।“मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके
”अत्रैव गोत्रजानामहः स्मृतमिति जावाल-वचनम् ततः परं सर्व्वथा समानोदकतानि-वृत्तेः स्नानमात्रमिति स्नात्वा शुध्यन्ति गोत्रजाइति बृहस्पत्युक्तत्वादिति इति शुद्धितत्त्वम्