सपिण्ड (sapiNDa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishसपिण्ड (-ण्डः) A kinsman, especially one connected by the offering
of the funeral cake to either or all of the manes of the father,
grandfather, and great-grandfather, and their wives respectively,
as sprung from them in directly collateral lines
the relationship
stops with every fourth person, as the fifth cannot perform the offer-
ing of a cake to the father even of the deceased. The following are
enumerated as Sapiṇḍās:--the son, son's son, and son's grandson
widow, daughter and daughter's son
the father, the mother, the
brother, brother's son, and brother's grandson
father's daughter's
son
father's brother's son and grandson
paternal grandfather's
daughter's son
paternal grandfather
paternal grandmother,
paternal grandfather's brother, brother's son and grandson
and
lastly the great grandfather's daughter's son: these all
present oblations in which the deceased is either included,
or may participate: other enumerations, including the oblations
he was bound to offer, &c. extend the connection of Sapiṇḍa to
seven persons both in an ascending or descending line.
स for
ससान common, and पिण्ड ball of meat, &c., offered to the manes
of the deceased ancestors, at the Śrāddhas performed in honour
of them.
Capeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishसपिण्ड
(-ण्डः) A kinsman, especially one connected by the offering
of the funeral cake to either or all of the manes of the father, grandfather,
and great-grandfather, and their wives respectively, as sprung from them in
directly collateral lines
the relationship stops with every fourth person, as
the fifth cannot perform the offering of a cake to the father even of the
deceased. The following are enumerated as Sapiṇḍas
the son, son's son,
and son's grandson
widow, daughter and daughter's son
the father, the mother,
the brother, brother's son, and brother's grandson
father's daughter's son
father's brother's son and grandson
paternal grandfather's daughter's son
paternal grandfather
paternal grandmother, paternal grandfather's brother,
brother's son and grandson
and lastly the great grandfather's daughter's son:
these all present oblations in which the deceased is either included, or may
participate: other enumerations, including the oblations he was bound to offer,
&c. extend the connection of Sapiṇḍa to seven persons both in an ascending
or descending line.
स for समान common, and पिण्ड ball of meat, &c. offered to the
manes of the deceased ancestors, at the Śrāddhas performed in honor of
them.
Apte
Englishसपिण्डः [sapiṇḍḥ], 'Having the same पिण्ड or funeral rice-ball offering', a kinsman connected by the offering of the funeral rice-ball to the Manes of certain relations
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् 2.247
5.59
1.52.
Apte 1890
EnglishMonier Williams Cologne
Englishस-पिण्ड b ‘having the same Piṇḍa’, a kinsman connected by the offering of the Piṇḍa (q.v.) to certain deceased ancestors at the Śrāddha (q.v.
the kinship is through six generations in an ascending and descending line, or through a man's father, father's father, father's grandfather
mother, mother's father, mother's grandfather
son, son's son, son's grandson
daughter, daughter's son
and also includes father's mother, father's grandmother , also father's brothers and sisters, mother's brothers and sisters, and several others),
v, 60
(RTL. 285
286 248
266).
Monier Williams 1872
Englishसपिण्ड स-पिण्ड, अस्, m. ‘having the same
Piṇḍa, ’ a kinsman connected by the offering of the
funeral cake to the Manes of certain relations (viz.
father, grandfather, great-grandfather, &c., including
the direct descendants of four persons, or, according to
others, seven persons in an ascending and descending
line: the following are therefore called Sapiṇḍas —
son, son's son, and son's grandson
widow, daughter,
and daughter's son
father, mother, brother, brother's
son, brother's grandson
father's daughter's son
father's brother's son and grandson
paternal grand-
father's daughter's son
paternal grandfather
paternal
grandmother, paternal grandfather's brother, brother's
son and grandson
great grandfather's daughter's
son).
—सपिण्ड-ता, f. the condition of being a Sa-
piṇḍa.
—सपिण्डी-करण, अम्, n. investing a person
with the rights of a Sapiṇḍa or kinsman (as described
above)
performing the Śrāddha to deceased relatives
called Sapiṇḍas (at the end of a full year after the
death of a relative).
—सपिण्डी-कृत, अस्, आ, अम्,
invested with the relationship of Sapiṇḍa.
Apte Hindi
Hindiसपिण्डः
- समानः पिंडो मूलपुरुषों निवापो वा यस्य ब* स*
"समान पित्रों को पिंडदान देने वाला, एक समान पित्रों को पिण्डदान देने के कारण संबंधी, बन्धु "
L R Vaidya
EnglishLanman
EnglishSanskrit Tibetan
Tibetangong bu
पिण्डा / मान॥ मूर्ति / सपिण्ड / समज्या
bgo skal
१) दायाद २) दायाद्य ३) प्रत्यंश ४) भाग ५) सपिण्ड
अभिधानचिन्तामणिः
Sanskritभ्राता च भगिनी चापि भ्रातरावथ बान्धवः ।
स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः ॥ ५६१ ॥
आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः ।
भ्रातरौ (पुंद्वि), बान्धव (पुं), स्व (पुं), ज्ञाति (पुं), स्वजन (पुं), बन्धु (पुं), सगोत्र (पुं), निज (पुं), आत्मीय (पुं), स्व (पुं), स्वकीय (पुं), सपिण्ड (पुं), सनाभि (पुं)
अभिधानरत्नमाला
Sanskritआत्मीय
आत्मीय, स्वजन, बन्धु, आप्त, ज्ञाति, बान्धव, सनाभि, सपिण्ड, सगोत्र
आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः ।
सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥
verse 2.1.1.509
page 0058
दायाद
दायाद, तुक्, सपिण्ड
अवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः ।
verse 5.1.1.836
page 0096
शब्दकल्पद्रुमः
Sanskritसपिण्डः, (समानः पिण्डो मूलपुरुषो निवापोवा यस्य । समानस्य सः ।) सप्तपुरुषान्त-र्गतज्ञातिः । तत्पर्य्यायः । सनाभिः २ । इत्य-मरः ॥
स च अशौचविवाहदायभेदात् त्रिविधः ।तत्राशौचसपिण्डस्य लक्षणं यथा । सप्तपुरु-षान्तर्गतत्वे सति गोत्रैक्ये सति दातृत्वभोक्तृ-त्वान्यतरसम्बन्धेन पिण्डलेपान्यतरवत्त्वम् । दत्त-कन्यानान्तु भर्त्तृसापिण्ड्येन सापिण्ड्यम् । अद-त्तानां पित्रवधित्रिपुरुषसापिण्डम् । विवाह-सपिण्डास्तु । पितृपितृबन्ध्वपेक्षया सप्तमपुरुषा-वधयः मातामहमातृबन्ध्वपेक्षया पञ्चमपु-रुषावधयश्च । यथा, --“पञ्चमात् सप्तमादूर्द्ध्वं मातृतः पितृतः क्रमात् ।सपिण्डता निवर्त्तेत सर्व्ववर्णेष्वयं विधिः ॥
”इत्युद्वाहतत्त्वधृतनारदवचनम् ॥
दायसपिण्डास्तु । त्रिपुरुषावधयः । ते च पितृ-पितामहप्रपितामहाः तेषां पुत्त्रपौत्त्रप्रपौत्त्र-दौहित्राः । मातामहप्रमातामहवृद्धप्रमाता-महाः । तत्पुत्त्रपौत्त्रप्रपौत्त्राश्च । इति दाय-भागः ॥
* ॥
अथ सपिण्डादिविचारः । मत्स्य-पुराणम् ।“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनःपिण्डदः सप्तमस्तेषां सापिण्ड्ये साप्तपौरुषम् ॥
”नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपमोक्तृत्वा-सम्भवात् कथं सपिण्डत्वमिति चेदुच्यते । तेषा-मपि पिण्डलेपयोः सम्बन्धोऽस्ति । तथा चबौधायनः । प्रपितामहः यितामहः पितः स्वयंसोदर्य्यभ्रातरः । सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रोवा एतानविभक्तदायादान् सपिण्डानाचक्षतेविभक्तदायादान् सकुल्यानाचक्षते सत्स्वङ्गजेषुतद्गामी ह्यर्थो भवति इति । अस्यार्थः । पित्रा-दिपिण्डबयेषु सपिण्डनेन भोक्तृत्वात् । पुत्त्रा-दिभिस्त्रिभिस्तत्पिण्डदानात् । यश्च जीवन् यस्यपिण्डदाता स मृतः सन् सपिण्डनेन तत्पिण्ड-भोक्ता एवं सति मध्यस्थितः पुरुषः पूर्व्वेषांजीवन् पिण्डदाता मृतः सन् तत्पिण्डभोक्ता-परेषां जीवतांपिण्डसम्प्रदानमूत आसीत् मृतैश्चतैः सह दौहित्रादिदेयपिण्डभोक्ता । अतोयेषामयं पिण्डदाता ये चास्य पिण्डभोक्तारस्ते-ऽविभक्तं पिण्डरूपं दायं अश्नन्तीति अविभक्त-दायादाः सपिण्डा इति । इदञ्च सपिण्डत्वंसकुल्यत्वञ्च दायग्रहणार्थम् । अशौचाद्यर्थन्तुपिण्डलेपभुजामपि । लेपभाजश्चतुर्थाद्याः पि-त्राद्याः पिण्डभागिनः ॥
इति प्रागुक्तमत्स्यपुरा-णात् वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्चपिण्डे यथा परस्परं भोक्तृत्वं तथा लेपे तुल्य-न्यायात् । हारलतायां कूर्म्मपुराणम् ।“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु जन्मनाम्नोरवेदने ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम् ॥
”लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्मनाम्नोरवेदनं याव-दमुकनाम्नोऽस्मात् पूर्व्वपुरुषादयं जातः इतिविशेषः । अयमस्मत्कुले जात इति सामा-न्यतो वा स्मर्य्यते तावत् समानोदकत्वमितिहारलता ॥
अत्र परवचनेनैव सापिण्ड्यसिद्धौपूर्व्ववचनपूर्व्वार्द्धं जीवत्पितृकत्वादिना अधिक-पुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्डतानिवृत्ति-ज्ञापनाय । सर्व्वदेशीयाचारोऽपि तथा । यथाश्राद्धविवेकेऽपि पार्व्वणश्राद्धानन्तरं तित्यश्राद्धेविकल्प उक्तः । मार्कण्डेयपुराणम् ।“नित्यक्रियां पितॄणान्तु केचिदिच्छन्ति सत्तमाःन पितॄणां तथैवान्ये शेषं पूर्व्ववदाचरेत् ॥
”अत्र पूर्व्वार्द्धात् पितॄणां प्राप्तौ न पितॄनामित्यत्रपुनः पितॄणां ग्रहणं सनकादीनामन्नोत्सर्गा-भ्यनुज्ञानाथ इति फलान्तरमुक्तम् । हरिशर्म्म-णापि अन्यार्थं पुनर्व्वचनमिति लिखितम् । अथयः खलु पिण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-पितृभावः स कथं सपिण्डः एकपिण्डदातृत्व-भोक्तृत्वलक्षणसम्बन्धाभावादिति चेत् तद्योग्य-तयेति ब्रूमः । योग्यताप्रयोजकञ्च सामान्य-शास्त्रविषयत्वम् । ततश्च अत्यतिवृद्धप्रपिता-महावधिकाधस्तनानां षण्णां पुंसां प्रत्येकापेक्षयासप्तानामेकगोत्राणां स्वावधिपरतनानां सप्ता-नाञ्च सापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्ब-न्धादिति । स्त्रीणान्तु भर्त्तृसापिण्ड्येन सापि-ण्ड्यम् । प्रत्तानां भर्त्तृसापिण्ड्यमिति वचनात् ।नन्वेवं कन्यायाः कथंसपिण्डतेति चेत् आदि-पुराणवचनात् त्रैपुरुषं सापिण्डम् । यथा, --“सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी ।”अत्र कन्यानामनूढानाम् । अप्रत्तानां त्रिपौ-रुषमिति वशिष्ठवचनात् । तेन आत्मपञ्चमेवृद्धप्रपितामहे सापिण्ड्यं निवर्त्तत इति प्रति-पादितम् । अतएव कन्यायाः प्रपितामहभ्रात्रातत्सन्ततिभिश्च सह सापिण्ड्याभावात् कन्या-मरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तुसमानोदकनिमित्तमेवाशौचमिति । एवं तेषा-मपि जननमरणयोः कन्यानामिति शूलपाणि-महामहोपाध्यायाः ॥
यत्तु कूर्म्मपुराणम् ।“अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्त-पौरुषम् ।प्रत्तानां भर्त्तृसापिण्ड्यं प्राह देवः पितामहः ॥
”इति रत्नाकरधृतं तद्विवाहे पितृपक्षविषयम् ।यथा, विष्णुपुराणम् ।“सप्तमीं पितृपक्षाच्च मातृपक्षाच्च पञ्चमीम् ।उद्वहेत द्विजो भार्य्यां न्यायेन विधिना नृप ॥
”सप्तमीं पञ्चमीं हित्वा इति शेषः । भर्त्तृसापिण्ड्य-मित्यत्र साप्तपौरुषमित्यनुषज्यते । तेन भर्त्तृ-समानसापिण्ड्यमित्यर्थः । शङ्खलिखितौ ।“सपिण्डता तु सर्व्वेषां गोत्रतः साप्तपौरुषी ।पिण्डञ्चोदकदानञ्च शौचाशौचं तदानुगम् ॥
”गोत्रतः गौत्रैक्ये तेन मातामहकुले कदाचित्षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि न सपिण्डतातान् सप्तपुरुषान् आ समन्तात्कारेण पिण्डा-दिकमनुगच्छतीति तदानुगम् । एतेन सपि-ण्डता एकशरीरावयवान्वयेन भवति । तथा, हि । पितुः शरीरावयवान्वयेन पित्रासह एव पितामहादिभिरपि पितृद्वारेणतच्छरीरावयवान्वयात् । एवं मातृशरीरा-वयवान्वयेन मात्रादिभिरपि । एवं पत्या सहपत्न्या एकशरीरारम्भकतया सापिण्ड्यम् ।तथा च गर्भोपनिषदि । एतत् षाट्कोषिकंशरीरं त्रीणि पितृतः त्रीणि मातृतः अस्थि-स्नायुमज्जानः पितृतः त्वङ्मांसरुधिराणिमातृतश्चेति । तत्र तत्रावयवान्वयप्रतिपादनात्निर्व्वाप्य पिण्डान्वये तु सापिण्ड्ये भ्रातृपितृ-व्यादिसापिण्ड्यं न स्यात् । अतिप्रसङ्गस्तु सप्तान्य-तमत्वेन प्रयोगोपाधिना निरसनीयः । यद्येवंमातामहादीनामपि मरणे सपिण्डत्वेन दशा-हाशौचं प्राप्नोति स्यादेतत् यदि मातामहानांमरणे त्रिरात्रं स्यादशौचकं इत्यादिविशेष-वचनं न स्यात् । यत्र तु विशेषवचनं नास्तितत्र दशाहमिति मिताक्षरारत्नाकरादिमतम-पास्तम् । लेपभाज इत्यादिवाचनिकेऽर्थे सापिण्डेएकशरीरावयवान्वयरूपस्वकपोलरचितार्थान-वकाशात् । निर्व्वाप्यपिण्डसम्बन्धेनभ्रात्रादीनांसापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-त्वात् । कामधेनुहारलताकल्पतरुपारिजात-कारादिभिस्तथैवव्याख्यातत्वाच्च । रेतःशोणित-परिणामरूपत्वादपत्यशरीरस्य भवतु वा तथा ।पत्या सह पत्न्या एकशरीरारम्भकतायाः प्रत्य-क्षवाधितत्वात् कथं सापिण्ड्यं प्रमातामहा-दीनां विशेषवचनाभावात् सपिण्डत्वेन दशा-हाद्यशौचप्रसङ्गात् मातामहादौ सापिण्ड्यस्यलोकविरुद्धत्वाच्च । भवतु वा तथा शरीरद्वारासापिण्ड्यं तथापि वचनात् यथा सप्तान्तर्गतत्वंतन्त्रं तथा गोत्रतः साप्तपौरुषीति वचनात्गोत्रैक्यमपि प्रागुक्तवचनात् । कन्यास्त्रियौ-रुषं सापिण्ड्यं ऊढायाश्च भर्त्तृसापिण्ड्येनसापिण्ड्यमिति चेत् तदेतन्मतेऽपि व्यवस्थायां नक्षतिरिति । अतएव सुमन्तुवचनाभिहितं यद्द-शमपुरुषपर्य्यन्तमशौचंतत्सप्तमपुरुषाभ्यन्तरा-शौचान्न्यूनं त्रिरात्रम् । यथा ब्राह्मणानामेक-पिण्डस्वधानामादशमात् धर्म्मविच्छित्तिर्भवतिआसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात्स्वधाविच्छित्तिर्भवति अन्यथा पिण्डाशौचक्रि-याद्युच्छेदात् ब्रह्मतुल्यो भवतीति । अस्यार्थः ।एका समाना पिण्डस्वधा येषां ते तथा । यथाएकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते इत्य-त्रानुशब्देनानुशब्दयुक्तो मन्त्रो लक्ष्यते अनुयुक्त-मन्त्रस्तु ये चात्र त्वामनु यांश्च त्वमनु तस्मै तेस्वधा इति तथापिण्डस्वधाशब्देन पिण्डसम्बन्धि-स्वधाशब्दयुक्तमन्त्रकरणकदेयजलं लक्षितम् ।तथा च । ऊर्ज्यं वहन्तीरमृतं घृतं पयः कीलालंपरिश्रुतं स्वधास्तर्पयत मे पितॄन् इत्यनेनपिण्डान् सिञ्चेदित्युक्तम् । ततश्च एकपिण्डस्वधानांसमानोदकानामित्यर्थः । अतएत मनुः ।“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते ।”विष्णुपुराणम् ।“मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ।”मातृपक्षस्य मातामहपक्षस्य पिण्डेन सम्बद्धाःसपिण्डाः जलेन सम्बद्धाः समानोदका इतिश्राद्धविवेकेऽपि व्याख्यातम् ।“असम्बन्धा भवेद्यातु पिण्डेनैवोदकेन वा ॥
”इति विवाहेऽप्युक्तम् । अत्र पुत्त्रिकायाः पार्व्वणेपिण्डोदकयोः सम्बन्धात्कन्यामात्रेऽपि तद्योग्य-तायाः सत्त्वात् कन्या पिण्डोदकसम्बन्धोच्यते ।एतदनुसारादपि तस्याः सपिण्डता बोद्धव्या त-स्मादेकपिण्डस्वधानामित्यनेन समानोदकभावःसमाख्यातः । न तु दशमपुरुषपर्य्यन्तं पित्रादि-जीवनादिना पिण्डसम्बन्धेऽपि सापिण्ड्यं विहितंप्रागुक्तयुक्तेः स्वधेत्यस्य तदनुपयुक्तत्वेन वैयर्य्या-पत्तेः । अपुत्त्रधनाधिकारस्तु सन्निहिततराभावेसप्तमपुरुषपर्य्यन्तम् । मृतपितृकस्य स्वधोप-लक्षितश्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति ।अत्र स्वधाशब्दो मन्त्रपरः पितृभक्षपरोऽपि ।तथा च गुणविष्णुधृता श्रुतिः । स्वधा वै पितॄ-णामन्नमिति । दशमपुरुषानन्तरं समानोदक-त्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि । तथाहि । उदकक्रियामघिकृत्य पारस्करः । सर्व्वेज्ञातयो भावयन्ति । आसप्तमाद्दशमाद्वासमानग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्व्वाइति । भावयन्ति निष्पादयन्ति । अत्र यावत्सम्बन्धमनुस्मरेयुरेककुलजाता वयमिति स्मरणंभवतीत्यननैव सर्व्वेषामुदकदाने प्राप्ते यदासप्त-माद्दशमाद्वेत्युक्तं तत् सन्निकर्षतारतम्येना-शौचभेदेऽप्युदककर्म्मसमानार्थमिति । अशौच-मेदस्तु सप्तमपुरुषपर्य्यन्तं सपिण्डत्वाद्दशाहः ।ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथा च विष्णु-बृहस्पती ।“दशाहेन सपिण्डास्तु शुध्यन्ति मृतसूतके ।त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः ॥
”ततश्चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी । ततश्च जन्म-नामस्मृतिपर्य्यन्तमेकाहः । तथा च मिताक्षरा-विवादचिन्तामण्योर्बृहन्मनुः ।“सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ॥
जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥
”अत्र समानोदकत्वे द्विविधे । पूर्व्वत्र गोतमःपक्षिणीमसपिण्डे इति । परत्र हारीतः ।“मातामहे त्रिरात्रं स्यादेकाहस्त्वसपिण्डके ॥
”अत्रैव गोत्रजानामहः स्मृतमिति जावाल-वचनम् । ततः परं सर्व्वथा समानोदकतानि-वृत्तेः स्नानमात्रमिति । स्नात्वा शुध्यन्ति गोत्रजाइति बृहस्पत्युक्तत्वादिति । इति शुद्धितत्त्वम् ॥
वाचस्पत्यम्
Sanskritसपिण्ड समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धेदेयपिण्डो वा यस्य समानस्य सः । एकदेहारभ्यदेहे ज्ञा-तिभेदे “असपिण्डा च या मातुरिति” स्मृतिः । ज्ञाती-नाञ्च साक्षात् परम्परया अतिपरम्परया वा एकदेहार-भ्यत्वात्तघात्वम् मिता० । २ दातत्वभोक्त त्वेनैकपिण्डयुतेटायभा० । एतच्च दायग्रहणोपयोगिसापिण्ड्यामिति ।सपिण्डता हि विषयभेदेन त्रिविधा अशौचोपयोगिनीविवाहोपयोगिनी दायोपयोगिनी चेति । तत्र समानदेह-सम्बन्धे या सपिण्डता साऽशौचग्रहणार्था विवाहार्थाच । श्राद्धे देयपिण्डसम्बन्धात् सपिण्डता तु दायग्र-हणोपयोगिनीति विवेकः । यथोक्तं शु० त० रघुनन्दनेन“मत्स्यपुराणे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड-भागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरु-षम्” । नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपभोक्तृ-त्वासम्भवात् कथं सपिण्डत्वमिति चेदुच्यते तेषामपिपिण्डलेपयोः सम्बन्धोऽस्ति तथाच बौधायनः “प्रपिता-महः पितामहः पिता स्वयं, सोदर्य्यभ्रातरः सवर्णायाःपुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डा-नासक्षते । विभक्तदायादान् सकुल्यानाधक्षते सदस्वङ्गजषु तद्गामी ह्यर्थो भवति” इति अस्यार्थः पित्रा-दिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभि-स्तत्पिण्डदानात् । यश्च जीवन् यस्य पिण्डदाता समृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं सति मध्य-स्थितः पुरुषः पूर्वेषा जीवन् पिण्डदाता मृतः सन् तत्-पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदाता आसीत् ।मृतश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषा०मयं पिण्डदाता ये चास्य पिण्डभोक्तारस्तेऽविभक्तंपिण्डरूपं दायमश्नन्तीति अविभक्तदायादाः सपिण्डाइति । इदञ्च सपिण्डत्वं सकुल्यत्वञ्च दायग्रहणार्थम्अशौचाद्यर्थन्तु पिण्डलेपभुजामपि “लेपभाजश्चतुर्थाद्याःपित्राद्याः पिण्डभागिनः” इति प्रागुक्तमत्स्यपुराणात् ।वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्च । पिण्डे यथा-परस्परं भाक्तृत्वं तथा लेपे तुल्यन्यायात् । हारलतायांकूर्मंपुराणम् “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते ।समानोदकभावस्तु जन्मनाम्नोरवेदने । पिता पिता-महश्चैव तथैव प्रपितामहः । लेपभाजश्चतुर्थाद्याः सा-पिण्ड्यं साप्तपौरुषम्” । लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्म-नाम्नोरवेदनं यावदमुकनाम्नोऽस्मात् पूर्वपुरुषादयं जातइति विशेषः अयमस्मत् कुले जात इति सामान्यतो वास्मर्य्यते तावत् समानोदकत्वमिति हारलता । अत्रपरवचनेनैव सापिण्ड्यसिद्धौ पूर्ववचनपूर्वार्द्धं जीवत्पितृ-कत्वादिना अधिकपुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्ड-तानिवृत्तिज्ञापनाय । सर्वदेशीयाचारोऽपि तथा” ।“अथ यः खलापण्डान् दत्त्वैव मृतः परतश्चाप्राप्त-पितृभावः स कथं सपिण्डः । एकपिण्डदातृत्वभाक्तृत्व-लक्षणसम्बन्धाभावादिति चेत् तद्योग्यतयेति ब्रूमः ।योग्यताप्रयोजकञ्च सामान्यशास्त्रविषयत्वम् । ततश्चात्य-तिवृद्धप्रपितामहावधिकाधस्तनानां षण्णां पुंसां प्रत्येका-पेक्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्चसापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्बन्धादिति ।स्त्रीणान्तु भर्तृसापिण्ड्येन सापिण्ड्यम् “प्रत्तानां भर्तृ-सापिण्ड्यमिति” वचनात् । नन्वेवं कन्यायाः कथं स-पिण्डतेति चेत् आदिपुराणवचनात् त्रैपुरुषं सापिण्ड्यम् ।यथा “सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी” ।अत्र कन्यानामूढानाम् “अपत्तानां त्रिपौरुषमिति” वशि-ष्ठवचनात् । तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्ड्यंनिवर्त्तते इति प्रतिपादितम् । अत एव कन्यायाः प्र-पितामहभ्रात्रा तत्सन्ततिमिः सह सापिण्ड्याभावात्कन्यामरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तुसमानोदकनिमित्तमेवाशौचमिति एवं तेषामपि जनन-मरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायः ।यत्तु कूर्सपुराणम् “अप्रत्ताना तथा स्त्रीणां सापिण्ड्यंसाप्तपौरुषम् । प्रत्तानां भर्तृसापिण्ड्यं प्राह देवःपितामहः” इति रत्नाकरधृतम् । तद्विवाहे पितृपक्ष-विषयम् । यथा विष्णुपुराणम् “सप्तमीं पितृपक्षाच्चमातृपक्षाच्च पञ्चमीम् । उद्वहेत द्विजो भार्य्यां न्यायेनविधिना नृप!” सप्तमीं पञ्चमीं हित्वेति शेषः । भर्तृ-सापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते । तेन भर्तृ-समानसापिण्ड्यमित्यर्थः । शङ्खलिखितौ “सपिण्डतातु सर्वेषां गोत्रतः साप्तपौरुषी । पिण्डञ्चोदकदानञ्चशौचाशौचं तदानुगम्” । गोत्रतः गोत्रैक्ये तेन माता-महकुले कदाचित् षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि नसपिण्डता । तान् सप्तपुरुषान् आ समन्तात् पिण्डा-दिकमनुगच्छतीति तदानुशम् । एतेन “सपिण्डताएकशरीरावयवान्वयेन भवति तथाहि पितुः शरीरावय-वान्वयेन पित्रा सह एवं पितामहादिभिरपि पितृद्वारेणतच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेनभ्रात्रादिभिरिति । एवं पत्या सह पत्न्या एकशरीरा-रम्भकतया सापिण्ड्यम् । तथाच गर्मोपनिषदि “एतत्षाट्कौषिकं शरीरं त्रीणि पितृतः त्रीणि मातृतःअस्थिस्नायुमज्जानः पितृतः, त्वङ्मांसरुधिराणि मातृत-श्चेति” तत्र तत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डा-न्वये तु सापिण्ड्ये भ्रातृपितृव्यादिसापिण्ड्यं न स्यात् ।अतिप्रसङ्गस्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरस-नीयः । यद्येवं मातामहादीनामपि मरणे सपिण्डत्वेनदशाहाशौचं प्राप्नोति, स्यादेतत् यदि मातामहादीनांमरणे “त्रिरात्रं स्यादशौचकम्” इत्यादिविशेषवचनं नस्यात् । यत्र तु विशेषवचनं नास्ति तत्र दशाहमितिमिताक्षरारत्नाकरादिमतमपास्तं लेपभाजैत्यादि वा-चनिकेऽर्थे सापण्ड्ये एकशरीरावयवान्वयरूपस्वकपोल-रचितार्थानवकाशात् निर्वाप्यपिण्डसम्बन्धेन भ्रात्रा-दीनां सापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्त-त्वात् कामधेनुहारलताकल्पतरुपारिजातकारादिभिस्त-थैव व्याख्यातत्वाच्च । रेतःशोणितपरिणामरूपत्वादपत्य-शरीरस्य भवतु वा तथा पत्या सह पत्न्या एकशरीरा-रम्भकतायाः प्रत्यक्षबाधितत्वात् कथं सापिण्ड्यं प्रमाता-महादीनां विशेषवचनाभावात् सपिण्डत्वेन दशाहाद्य-शौचप्रसङ्गाच्च मातामहादौ सापिण्ड्यस्य लोकविरुद्ध-त्वाच्च । भवतु वा तथा शरीरद्वारा सापिण्ड्यं तथापिवचनात् यथासप्तान्तर्गत्रत्वं तन्त्रं तथा “गोत्रतः साप्त-पौरुषीति” वचनात् गोत्रैक्यमपि प्रागुक्तवचनात् कन्याया-स्त्रीपौरुषम् उढायाश्च भर्त्तृसपिण्डनेन सापिण्ड्यमितिचेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएवसुमन्तुवचनाभिहितं यद्दशमपुरुषपर्य्यन्तमशौचं तत् सप्तम-पुरुषाभ्यन्तराशौचान्न्यूनं त्रिरात्रं यथा “ब्राह्मणा-नामेकपिण्डस्वधानामादशमाद्धर्मविच्छित्तिर्भवति आस-प्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधावि-च्छित्तिर्भवति” अन्यथा पिण्डशौचक्रियाद्युच्छेदात् ब्रह्म-हत्यातुल्यो भवति” अस्यार्थः । एका समाना पिण्डस्वधा-येषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो नयुज्यते इत्यत्रानुशब्देनानुशब्दयुक्तमन्त्रो लक्ष्यते अनु-युक्तमन्त्रस्तु “वे चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा”इति तथा पिण्डस्वधाशब्देन पिण्डसम्बन्धिस्वधाशब्द-युक्तमन्त्रकरणकदेयजलं लक्षितम् । तथा च ऊर्ज्जंवहन्तीरमृतं घृतं पयःकीलालं परिस्रुतं स्वधास्थ तर्पयतमे पितॄन्” इत्यनेन पिण्डान् सिञ्चेदित्युक्तम् । ततश्च एक-पिण्डस्वधानां समानोदकानामित्यर्थः । अतएव मनुः ।“जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते” । विष्णुपु-राणं “मातृपक्षस्य पिण्डेन सम्बद्धाः ये जलेन वा” मातृष-क्षस्य मातामहपक्षस्य ये जलेन मम्बद्धाः समानोदका इतिश्राद्धविवेकेऽपि व्याख्यातम् । “असम्बन्धा भवेद् या तुपिण्डेनैवोदकेन वा” इति विवाहेऽप्युक्तम् । अत्र पुत्रिकायाःपार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामात्रेऽपि तद्योग्यतायाः सत्त्वात् । कन्या पिण्डोदकसम्बन्धोच्यते एतदनुसा-रादपि तस्याः सपिण्डता बोद्धव्या तस्मादेकपिण्डखधाना-मित्यनेन समानोदकभावः समाख्यातः न तु दशमपर्य्यन्तं, पित्रादिजीवनादिना सापिण्ड्यसम्बन्धेऽपिसापिण्ड्यं विहितं प्रागुक्तयुक्तेः स्वधेत्यस्य तदनुप्र-युक्तत्वेन वैयर्थ्यापत्तेः । अपुत्रधवाधिकारस्तु सन्निहित-तराभावे सप्तमपुरुषपर्य्यन्तं भूतपितृकस्य स्यधोपलक्षित-श्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति अत्र स्वधाशब्दोमन्त्रपरः पितृभक्षपरोऽपि । तधा च गुणविष्णुधृताश्रुतिः “स्वधा वै पितॄणामन्नमिति ।” दशमपुरुषपर्य्यन्तंसमानोदकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहिउदकक्रियामधिकृत्य पारस्करः “सर्वे ज्ञातयो भाव-यन्ति आसप्तवाद्दशमाद्वा समानग्रामवासेन यावत्सम्बन्धमनुस्मरेयुर्वा” इति भावयन्ति निष्पादयन्ति अत्रयावत्सम्बन्धमनुस्मरेयुरेककुलजातावयमिति स्मरणं भव-तीत्यनेनैव सर्वेषामुदकदाने प्राप्ते यद् आसप्तमाद्दशमा-दित्युक्तं तत्सन्निकर्षतारतम्येनाशौचभेदेऽप्युदककर्मसमा-नार्थमिति । अशौचभेदस्तु सप्तमपर्य्यन्तं सपिण्ड-त्वाद्दशाहः । ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः । तथाचविष्णुवृहस्पती । “दशाहेन सपिण्डास्तु शुध्यन्ति मृत-सृतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्तिगोत्रजाः ।” ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्चजन्मनामस्मृतिपर्य्यन्तमेकाहः । तथाच मिताक्षराविवाद-चिन्तामण्योर्वृहन्ममुः । “सपिण्डता तु पुरुषे सप्तमेविनिवर्त्तते । समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात् ।जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ।” अत्र समा-नोदकत्वे द्विविधे पूर्वत्र गोतमः “पक्षिणीमसपिण्डे”परत्र हारीतः । “मातामहे त्रिरात्रं स्वादेकाहस्त्व-सपिण्डके” इति । अत्रैव गोत्रजानामहः स्मृतमितिजावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः ।स्नानमात्रमिति “स्नात्वा शुद्ध्यन्ति गोत्रजाः” इति वृह-स्पत्युक्तत्वादिति” ।तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्वभोक्तृत्वा-न्यतरवत्त्वम् अशौचसापिण्ड्यम् । साक्षात्परम्परयासप्तमपर्य्यन्तदेहसम्बन्धवत्त्वं विवाहसापिण्ड्यं त्रिपुरुयपर्य्यन्तं देयपिण्डदातृत्वभोक्तृत्वान्यत्वरवत्त्वं दायग्रहणेसापिण्ड्यमिति विवेकः मिता० मातृसपत्न्या अपिसापिण्ड्यं स्वीकृत्य धनाधिकारोऽभिहितः तन्मते समा-नदेहसम्बन्धयोग्यतयैव सापिण्ड्यात् । दायमागमते तुश्राद्धे देयपिण्डदातृत्वभोक्तृत्वाभावात् न तस्याः सापिण्ड्यंतद्योग्यत्वेऽपि स्त्रीमात्रस्य विशेषवचनाभावे धनाधिकार-पर्युदासात् इति विवेकः एवं स्नुषाया अपि ।
Capeller
GermanBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
