| YouTube Channel

सन्न्यासी (sannyAsI)

 
शब्दकल्पद्रुमः
Sanskrit
सन्न्यासी, [न्]
पुं,
(संन्यासोऽस्यास्तीति इनिः ।सन्न्यासाश्रमविशिष्टः चतुर्थाश्रमी तत्पर्य्यायःपाराशरी मस्करी परिव्राट् कर्म्मन्दी ५श्रमणः भिक्षुः इति जटाधरः
तस्यलक्षणादि यथा सर्व्वं गृहादिकं त्यक्त्वा मुण्डित-मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्चबिभ्रत् भिक्षावृत्तिर्निर्ज्जने तीर्थे वा स्थित्वाकेवलमीश्वराराधनं करोति यः सन्न्यासी ।स तु सतुर्व्विधः कुटीचरः बहूदकः २हंसः परमहंसः तस्य धर्म्मा यथा, --“सदन्ने वा कदन्ने वा लोष्ट्रे वा काञ्चने तथासमबुद्धिर्यस्य शश्वत् सन्न्यासीति कीर्त्तितः
दण्डं कमण्डलुं रक्तवस्त्रमात्रञ्च धारयेत् ।नित्यं प्रवासी नेकत्र सन्न्यासीति कीर्त्तितः
शुद्धाचारद्विजान्नञ्च भुङ्क्ते लोभादिवर्ज्जितः ।किन्तु किञ्चिन्न याचेत सन्न्यासीति कीर्त्तितःन व्यापारी नाश्रमी सर्व्व कर्म्मविवर्ज्जितः ।ध्यायेन्नारायणं शश्वत् सन्न्यासीति कीर्त्तितःशश्वन्मौनी ब्रह्मचारी सम्भाषालापवर्ज्जितः ।सर्व्वं ब्रह्ममयं पश्येत् सन्न्यासीति कीर्त्तितः
सर्व्वत्र समबुद्धिश्च हिंसामायाविवर्ज्जितः ।क्रोधाहङ्काररहितः सन्न्यासीति कीर्त्तितः
अयाचितोपस्थितञ्च मिष्टामिष्टञ्च भुक्तवान् ।न याचेत भक्षणार्थी सन्नासीति कीर्त्तितः
पश्येत् मुखं स्त्रीणां तिष्ठेत्तत्ममीपतःदारवीमपि योषाञ्च स्पृशेद् यः भिक्षुकः ।अयं सन्न्यासिनां धर्म्म इत्याह कमलोद्भवः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः
*
अपि ।“सर्व्वन्यासी हरौ भूप धर्म्मः सन्न्यासिनां ध्रुवम्रक्तैकवासा दण्डी बिभर्त्ति मृत्कमण्डलुम्
सर्व्वत्र समदर्शी स्मरेन्नारायणं सदा ।करोति भ्रमणं नित्यं गेहे गेहे तिष्ठति
विद्यामन्त्रञ्च कस्मैचित् ददाति दैवतम् ।करोति नाश्रमं भिक्षुः करोति नान्यवासनाम्
करोति नान्यसङ्गञ्च निर्म्मोहः सङ्गवर्ज्जितः ।न स्वादु भुङ्क्ते दैवाच्च स्त्रीमुखं हि पश्यति
वाञ्छितं भक्ष्यवस्तु याचते गृहिणं व्रती ।इति सन्न्यासिनां धर्म्ममित्याह कमलोद्भवः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९५ अध्यायः
अन्यच्च ।“तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।सन्न्यासीह विज्ञेयो वानप्रस्थाश्रमे स्थितः
योगाभ्यासरतो नित्यमारुरुक्षुर्ज्जितेन्द्रियः ।ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।सम्यक् दमसम्पन्नः योगी भिक्षुरुच्यते
भैक्ष्यं श्रुतञ्च मौनित्वं तपो ध्यानं विशेषतः ।सम्यक् ज्ञानवैराग्यं धर्म्मोऽयं भिक्षुके मतः
ज्ञानसन्न्यासिनः केचित् वेदसन्न्यासिनोऽपरे ।कर्म्मसन्न्यासिनः केचित् त्रिविधः पारमेष्ठिकः
योगी त्रिविधो ज्ञेयो भौतिको मोक्ष एवच ।तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिसमाश्रितः
प्रथमा भावना पूर्व्वे मोक्षे त्वक्षरभावना ।तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी
यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ।आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः
योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः
”इति गारुडे ४९ अध्यायः
*
अपरञ्च ।“ज्ञानसन्न्यासिनः केचिद्वेदसन्न्यासिनोऽपरे ।कर्म्मसन्न्यासिनस्त्वन्ये त्रिविधाः परिकीर्त्तिताः
यः सर्व्वसङ्गनिर्म्मुक्तो निर्द्वन्द्वश्चापि निर्भयः ।प्रोच्यते ज्ञानसन्न्यासी स्वात्मन्येव व्यवस्थितः
वेदमेवाभ्यसेन्नित्यं निराशीर्निष्परिग्रहः ।प्रोच्यते वेदसन्न्यासी मुमुक्षुर्व्विजितेन्द्रियः
यस्त्वग्नीनात्ससात् कृत्वा ब्रह्मार्पणपरो द्विजः ।ज्ञेयः कर्म्मसन्न्यासी महायज्ञपरायणः
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।न तस्य विद्यते कर्म्म लिङ्गाद्या विपश्चितः
निर्म्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।जीर्णकौपिनवासाः स्यान्नग्नो वा ध्यानतत्परः
ब्रह्मचारी मिताहारो ग्रामान्नान्नं समाहरेत् ।अध्यात्मरतिरासीत निरपेक्षो निरामिषः ।आत्मनैव सहायेन स्वर्गार्थं विचरेदिह
”स्वर्गार्थमित्यत्र सुखार्थमिति पाठः ।“नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।नाध्येतव्यं वक्तव्यं श्रोतव्यं कदाचन
एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।एकवासोऽथवा विद्वान् कौपीनाच्छादनोऽथवामुण्डः शिखी वाथ भवेत् त्रिदण्डी निष्परि-प्रहः ।कषायवासाः सततं ध्यानयोगपरायणः
ग्रामान्ते वृक्षमूले वा वासं देवालयेऽपि वा ।समः शत्रौ तथा मित्रे तथा मानापमानयोः
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।यस्तु मोहेन चान्यस्मादेकान्नादी भवेद्यदि
तस्य निष्कृतिः काचिद्वर्म्मशास्त्रेषु कथ्यते ।रागद्वेषविमुक्तात्मसमलोष्टाश्मकाञ्चनः
प्राणिहिंसानिवृत्तश्च मौनी स्यात् सर्व्वनिष्पहःदृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।सत्यपूतां वदेद्बाणीं मनःपूतं समाचरेत्
नैकत्र निवसेद्देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।स्नानशौचरतो तित्यं कमण्डलुकरः शुचिः
ब्रह्मयज्ञरतो नित्यं वनवासरतो भवेत् ।मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः
दम्भाहङ्कारनिर्म्मुक्तो निन्दापैशुन्यवर्ज्जितः ।आत्मज्ञानगुणोपेतो यतिर्म्मोक्षमवाप्नुयात्
*
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।स्नात्वाचम्य विधानेन शचिर्देवालयादिषु
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।धौतकाषायवसनो भस्मच्छन्नतनूरुहः
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव ।आध्यात्सिकञ्च सततं वेदान्ताभिमतञ्च यत्
पुत्त्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः ।वेदमेवाभ्यसेन्नित्यं याति परमां गतिम्
अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं तपः परम् ।क्षमा दया सन्तोषो व्रतान्यस्य विशेषतः
वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान् समाहितः ।कुर्य्यादहरहः स्नात्वा भैक्षान्नेनैव तेन हि
होममन्त्रान् जपेन्नित्यं काले काले समाहितः ।स्वाध्यायं चान्वहं कुर्य्यात् सावित्रीं सन्ध्ययो-र्ज्जपेत्
ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।एकान्नं वर्ज्जयेन्नित्यं कामं क्रोधं परिग्रहम् ।एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।कमण्डलुकरो विद्वांस्त्रिदण्डी याति तत्पदम्
”इति कौर्मे उपविभागे २७ अध्यायः
*
व्यास उवाच ।“एतत्त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।भैक्षेन वर्त्तनं प्रोक्तं फलमूलैरथापि वा
एककालं चरेद्भैक्षं प्रसज्येत विस्तरे ।भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति
सप्तागारं चरेद्वैक्षमलाभे द्वे पुनश्चरेत् ।प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत्तु तत्
अथवान्यदुपादाय पात्रं भुञ्जीत नित्यशः ।भुक्त्वा सन्त्यजेत् पात्रं यात्रामात्रमलोलुपः
विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने ।वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत्
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।भिक्षेत्युक्त्वा सकृत्तूष्णीमश्नीयाद्वाग्यतः शुचिः
प्रक्षास्थ पाणिपादौ समाचम्य यथाविधि ।आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोऽत्वरः
हुत्वा प्राणाहुतीः पञ्चग्रासानष्टौ समाहितः ।आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम्
अलावुं दारुपात्रञ्च मृण्मयं वैणवं तथा ।चत्वारि यतिपात्राणि ममुराह प्रजापतिः
प्रदोषे पररात्रे मध्यरात्रे तथैत ।सन्ध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम्
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसम्भवम् ।आत्मानं सर्व्वभूतानां परत्वात्तमसः स्थितम्
सर्व्व स्याधारमव्यक्तमानन्दं ज्योतिरव्ययम् ।प्रधानपुरुषातीतमाकाशं दहनं परम्
तदन्तः सर्व्वभावानामीश्वरं ब्रह्मरूपिणम् ।ध्यायेदनादिमद्वैतमानन्दादिगुणालयम्
महान्तं परमं ब्रह्म पुरुषं सत्यमव्ययम् ।सितेतरारुणाकारं महेशं विश्वरूपिणम्
ओङ्कारान्तेऽथवात्मानं संस्थाप्य परमात्मनि ।आकाशे देवमीशानं ध्यायीताकाशमव्ययम्
कारणं सर्व्वभूतानामानन्दैकसमाश्रयम् ।पुराणं पुरुषं शम्भुं ध्यायन्मुच्येत बन्धनात्
यद्वा गुहायां प्रकृतौ जगत्सम्मोहनालये ।विचिन्त्य परमं व्योम सर्व्वभूतैककारणम्
जीवनं सर्व्वभूतानां यत्र लोकः प्रलीयते ।आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः
गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीश्वरम् ।योऽनुतिष्ठेत सततं सोऽश्नुते योगमीश्वरम्
तस्मात् ध्यानरतो नित्यमात्मविद्यापरायणः ।ज्ञानं समभ्यसेद्ब्राह्म्यं मुच्येत भवबन्धनात्
यद्वा पृथक्त्वमात्मानं सर्व्वस्मादेव केवलम् ।आनन्दमक्षरं ज्ञानं ध्यायीत पुनः परम्
यस्माद्भवन्ति भूतानि यद्गत्वा नेह जायते ।स तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति
यदन्तरे तदुगमनं शाश्वतं शिवमव्ययम् ।यमाहुस्तत्परो यस्तु देवः स्यान्महेश्वरः
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि ।एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते
उपेत्य स्त्रियं कामात् प्रायश्चित्तंसमाहितः ।प्राणायामसमायुक्तं कुर्य्यात् सान्तपनं शुचिः
ततश्चरेत नियमान् कृत्स्नान् संयतमानसः ।पुनराश्रममागत्य चरेद्गिक्षरतन्द्रितः
नर्म्मयुक्तमनृतं हिनस्तीति मनीषिणः ।तथापि कर्त्तव्यः प्रसङ्गो ह्येष दारुणः
एकरात्रोपवासश्च प्राणायामशतं तथा ।उक्त्वानृतं प्रकर्त्तव्यं यतिना धर्म्मलिप्सुना
परमापद्गतेनापि कार्य्यं स्तेयमन्यतः ।स्तेयादभ्यधिकः कश्चित् नास्त्यधर्म्म इति स्मृतिः
हिंसा चैषा परा तृष्णाया चात्मज्ञाननाशिका ।यदेतद्द्रविणं नाम प्राणास्ते तु बहिश्चराः
तस्य हरते प्राणान् यो यस्य हरते धनम्
एवं कृत्वा दुष्टात्मा भिन्नवृत्तौ व्रतच्युतः ।भूयो निर्व्वेदमापन्नश्चरेच्चान्द्रायणं व्रतम्
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।भूयो निर्व्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः
अकस्मादपि हिंसान्तु यदि भिक्षुः समाचरेत् ।कुर्य्यात् कृच्छ्रातिकृच्छ्रन्तु चान्द्रायणमथापि वास्कन्देदिन्द्रियदौर्ब्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदितेन धारयितव्या वै प्राणायामास्तु षोडष
दिवा स्वप्ने त्रिरात्रं स्यात् प्राणायामशतं तथाएकान्ने मधुमांसे नवश्राद्धे तथैव
प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।ध्याननिष्ठस्य सततं नश्यते सर्व्वपातकम्
तस्मान्महेश्वरं ध्यात्वा तस्य ध्यानरतो भवेत् ।यद्ब्रह्य परमं ज्योतिः प्रतिष्ठाक्षयमक्षयम् ।योऽन्तरात्मा परं ब्रह्म विज्ञेयो महेश्वरः
एष देवो महादेवः केवल परमेश्वरः ।तदेवाक्षयमद्वैतं तदादित्यान्तरं परम्
यस्मात् महीयते देव स्वधाम्नि ज्ञानसंज्ञिते ।आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः
नान्य देवं महादेवाद्व्यतिरिक्त प्रपश्यति ।तमेवान्मानमन्वेति यः याति परं पटम्
मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।न ते पश्यन्ति तं देवं वृथ तेषां परिश्रमः
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।स देवरतु महादेवो नैतद्विज्ञाय वध्यते
तस्माद्यत्नेन नियतं यतिः संयतमानसः ।ज्ञानयोगरतः शान्तो महादेवपरायणः
एष वः कथितो विप्रा यतीनामाश्रमः शुभः ।पितामहेन प्रभुणा मुनीनां पूर्व्वमीरितः
पुत्त्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।ज्ञानं स्वयम्भुवा प्रोक्तं यतिधर्म्माश्रमं शिवम्
इति यतिनियमानामेतदुक्तं विधानंपशुपतिपरितोषे यद्भवेदेकहेतुः ।न भवति पुनरेषामुद्भवो वा विनाशःप्रणिहितमनसा ये नित्यमेवाचरन्ति
”इति कौर्मे उपविभागे यतिधर्म्मो नाम २८अध्यायः
*
युगभेदे सन्न्यासिनां नामानिउपाधयश्च यथा आदौ वेदान्ताचार्य्यो ब्रह्मा ।द्वितीयाचार्य्यो विष्णुः तृतीयाचार्य्यो रुद्रः ।चतुर्थाचार्य्यो वशिष्ठः पञ्चमाचार्य्यः शक्त्रिः ।षष्ठाचार्य्यः पराशरः सप्तमाचार्य्यो व्यासः ।अष्टमाचार्य्यः शुकः नवमाचार्य्यो गौडः ।दशमाचार्य्यो गोविन्दः एकादशः श्रीशङ्करा-चार्य्यः सत्ययुगमध्ये आचार्य्यत्रयं ब्रह्मविष्णु-रुदाः त्रेतायुगे आचार्य्यत्रयं वशिष्टशक्त्रि-परशराः द्वापरे आचार्य्यद्वयं व्यासशुकौ ।कलियुगे आचार्य्यत्रय गौडगोविन्दशङ्करा-चार्य्याः शङ्कराचार्य्यस्य चत्वारः शिष्याःस्वरूपाचार्य्यः पद्माचार्य्यः त्रोटकाचार्य्यः पृथ्वी-धराचार्य्यः इति
*
अथ दश नामानि ।स्वरूपाचार्य्यस्य शिष्यः तीर्थ आश्रमश्च पद्मा-चार्य्यस्य शिष्यद्वयं वनः अरण्यश्च त्रोटका-चार्य्यस्य शिष्यत्रयं गिरिपर्व्वतसागरा इति ।पृथ्वीधराचार्य्यस्य शिष्यत्रयम् सरस्वती भारतीपुरी चेति इति श्रीशङ्कराचार्य्यविरचितं सप्तम-सूत्रम्
*
अपि ।“तीर्थाश्रमवनारण्यगिरिपर्व्वतसागराः ।सरस्वती भारती पुरीति दश कीर्त्तिताः
”तेषां लक्षणानि यथा, --“त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे ।स्नायात्तत्त्वार्थभावेन तीर्थनामा उच्यते
आश्रमग्रहणे प्रौढ आशापाशविवर्ज्जितः ।यातायातविनिर्मुक्त एतदाश्रमलक्षणम्
सुरम्ये निर्झरे देशे वने वासं करोति यः ।आशापाशविनिर्मुक्तो वननामा उच्यते
अरण्ये संस्थितो नित्यमानन्दनन्दने वने ।त्यक्त्वा सर्व्वमिदं विश्वमानन्दलक्षणं किल
वासो गिरिवरे नित्यं गीताभ्यासे हि तत्परः ।गम्भीराचलबुद्धिश्च गिरिनामा उच्यते
वसेत् पर्व्वतमूलेषु प्रौढो यो ध्यानधारणात् ।सारात् सारं विजानाति पर्व्वतः परि-कीर्त्तितः
वसेत् सागरगम्भीरो वनरत्नपरिग्रहः ।मर्य्यादाश्च लङ्घेत सागरः परिकीर्त्तितः
स्वरज्ञानवशो नित्यं स्वरवादी कवीश्वरः ।संसारसागरे साराभिज्ञो यो हि सरस्वती
विद्याभारेण सम्पूर्णः सर्व्वभारं प्ररित्यजेत् ।दुःखभारं जानाति भारती परिकीर्त्तितः
ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः ।पदब्रह्मरतो नित्यं पुरीनामा उच्यते
१०
इति बृहच्छङ्करविजये विद्यारण्यस्वामिधृतम्
श्रीसदाशिव उवाच ।“अवधूताश्रमो देवि कलौ सन्न्यास उच्यते ।विधिना येन कर्त्तव्यं तत् सर्व्वं शृणु साम्प्रतम्
ब्रह्मज्ञाने समुत्पन्ने विरते स्वर्गकर्म्मणि ।अध्यात्मविद्यानिपुणः सन्न्यासाश्रममाचरेत्
विहाय वृद्धौ पितरौ शिशुंभार्य्यां पतिव्रताम् ।त्यक्त्रासमर्थान् बन्धूंश्च प्रव्रजन्नारकी भवेत्
सम्पाद्य गृहकर्म्माणि परितोष्यागमानपि ।निर्म्ममो निलयाद्गच्छेन्निष्कामो विजितेन्द्रियः
आहूय स्वजनान् बन्धून ग्रामस्थान् प्रति-वासिनः ।प्रीत्यानुमतिमन्विच्छेद्गृहाज्जिगमिषुर्नरः
तेषामनुज्ञामादाय प्रणम्य परदेवताम् ।ग्रामं प्रदक्षिणीकृत्य निरपेक्षो गृहादियात्
मुक्तः संसारपाशैर्य्यः परमानन्दवृंहितः ।कुलावधूतं ब्रह्मज्ञं गत्वा संप्रार्थयेदिदम्
गृहाश्रमे परं ब्रह्मन् ममैतद्विगतं वयः ।प्रसादं कुरु मेनाथ सन्न्यासग्रहणं प्रति
निवृत्तगृहकर्म्माणं विचार्य्य विधिवद्गुरुः ।शान्तं विवेकिनं वीक्ष्य द्वितीयाश्रममादिशेत्
ततः शिष्यः कृतस्नानो यतात्मा विहिताह्रिकः ।ऋणत्रयविमुक्त्यर्थं देवर्षीं श्चार्च्चयेत् पितॄन्
देवा ब्रह्मा विष्णुश्च रुद्रश्च स्वगणैः सह ।ऋषयः सनकाद्याश्चात्राद्या देवर्षयस्तथा
अत्र ये पितरः पूज्या वक्ष्यामि शृणु तानपि ।पिता पितामहश्चैव प्रपितामह एव
माता पितामही देवि तथैव प्रपितामही ।मातामहादयोऽप्येवं मातामह्यादयोऽपि
प्राच्यामृषीन् यजेद्देवान् दक्षिणस्यां पितॄन्यजेत् ।मातामहान् प्रतीच्यान्तु पूजयेन्न्यासकर्म्मणि
पूर्व्वादिक्रमतो दद्यादासनानां द्वयं द्वयम् ।देवादीन् क्रमतस्तत्रावाह्य पूजां समाचरेत्
समर्च्च्य विधिवत्तेभ्यः पिण्डान् दद्यात् पृथक्पृथक् ।पिण्डप्रदानविधिना दत्त्वा पिण्डं यथाक्रमम्
कृताञ्जलीपुटो भूत्वा प्रार्थयेत् पितृदेवताः ।तृप्यध्वं पितरो देवा देवर्षिमातृकागणाः
गुणातीतपदे यूयमनृणीकुरुताचिरात्
आनृण्यमर्थयित्वा तु प्रणण्य पुनः पुनः ।ऋणत्रयविनिर्म्मुक्तमात्मश्राद्धं प्रकल्पयेत्
पिता ह्यात्मैव सर्व्वेषां तत्पिता प्रपितामहः ।आत्मन्यात्मार्पणार्थाय कुर्य्यादात्मक्रियां सुधीः
उत्तराभिमुखो भूत्वा पूर्व्ववत् कल्पितासने ।आवाह्यात्मपितॄन् देवि दद्यात् पिण्डं समर्च्चयन्
प्रागग्रान् दक्षिणाग्रांश्च पश्चिमाग्रान् यथा-क्रमात् ।पिण्डार्थमास्तरेद्दर्भानुदगग्रान् स्वकर्म्मणि
समाप्य श्राद्धकर्म्माणि गुरुदर्शितवर्त्मना ।मुमुक्षुश्चित्तशुद्ध्यर्थमिमं मन्त्रं शतं जपेत्
ह्नीँ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा मृतात्उपासनानुसारेण विद्यामण्डलपूर्व्वकम् ।संस्थाप्य कलसं तत्र मुरुः पूजां समारभेत्
ततस्तु परमब्रह्म ध्यात्वा शाम्भववर्त्मना ।विधाय पूजां ब्रह्मज्ञो ब्रह्मस्थापनमाचरेत्
प्रागुक्तसंस्कृते वह्नौ सङ्कल्पोक्ताहुतिं गुरुः ।दत्त्वा शिष्यं समाहूय साकल्यं हावयेत्तु तम् ।आदौ व्याहृतिभिर्हुत्वा प्राणहोमं प्रकल्पयेत् ।प्राणोऽपानः समानश्चोदानव्यानौ वायवः
तत्र होमं ततः कुर्य्याद्देहामेध्यत्वमुक्तये ।पृथिवी सलिलं वह्निर्वायुराकाशमेव
गन्धो रसश्च रूपश्च सार्शः शब्दो यथाक्रमात् ।ततो वाक्पाणिपादश्च पायूपस्थौ ततः परम्
श्रोत्रं त्वक् नयनं जिह्वाघ्राणबुद्धीन्द्रियाणि चएतानि मे पदान्ते शुध्यन्ति पदमुच्चरेत्
ह्रीं ज्योतिरहं विरजा विपाप्मा भूयासं द्विठइत्यपि ।चतुर्विंशतितत्त्वानि कर्म्माणि वैदिकानि ।हुत्वाग्नौ निष्क्रियो देहं मृतवच्चिन्तयेत्ततः
विभाव्य मृतवत् कायं रहितं सर्व्वकर्म्मणा ।स्मरन् तत् परमं ब्रह्म यज्ञसूत्रं समुद्धरेत्
ऐं क्लीं हुं इति मन्त्रेण स्कन्धादुच्चार्य्यं तत्त्ववित्यज्ञसूत्रं करे धृत्वा पठित्वा व्याहृतित्रयम् ।वह्निजायां समुच्चार्य्य घृताक्तमनले क्षिपेत्
हुत्वैवमुपवीतञ्च कामबीजं समुच्चरन् ।छित्त्वा शिखां करे कृत्वा घृतमध्ये नियोजयेत्
ब्रह्मपुत्त्रि शिखे त्वं हि बाणीरूपा सनातनी ।दीयते पावके स्थानं गच्छ देवि नमोऽस्तु ते
कांमं मायां कूर्च्चमन्त्रं वह्निजायामुदीरयेत् ।शिखामाश्रित्य पितरो देवो देवर्षयस्तथा ।सर्व्वाण्याश्रमकर्म्माणि निवसन्ति शिखोपरि
ततः सन्तर्प्य ताः सर्व्वाः देवर्षिपितृदेवताः ।शिखासूत्रपरित्यागात् देही ब्रह्ममयो भवत्
यज्ञसूत्रशिखात्यागात् सन्न्यासः स्याद्द्विजन्मनाम्शूद्राणामितरेषाञ्च शिखां हुत्वैव संस्क्रिया
ततो मुक्तशिखासूत्रः प्रणमेद्दण्डवद्गुरुम् ।गुरुरुत्थाप्य तं शिष्यं दक्षकर्णे वदेदिमम्
तत्त्वमसि महाप्राज्ञ हंसः सोऽहं विभावय ।निर्म्ममो निरहङ्कारः स्वभावेन सुखं चर
ततो घटञ्च वह्निञ्च विसृज्य ब्रह्मतत्त्ववित् ।आत्मस्वरूपं तं मत्वा प्रणमेच्छिरसा गुरुम्
नमस्तुभ्यं नमो मह्यं तुभ्यं मह्यं नमो नमः ।त्वमेव त्वदहमेव विश्वरूपं नमोऽस्तु ते
ब्रह्ममन्त्रोपासकानां तत्त्वज्ञानां जितात्मनाम् ।स्वमन्त्रेण शिखाच्छेदात् सन्न्यासग्रहणं भवेत्
ब्रह्मज्ञानविशुद्धानां किं यज्ञैः श्राद्धपूजनैः ।स्वेच्छाचारपराणान्तु प्रत्यवायो विद्यते
ततो निर्द्वन्द्वरूपोऽसौ निष्कामः स्थिरमानसः ।निर्म्ममो विहरेत् शिष्यः साक्षाद्ब्रह्ममयो भुवि
मुक्तो विधिनिषेधाभ्यां निर्योगक्षेम आत्मवित् ।सुखदुःखसमो धीरो जितात्मा विगतस्पृहः
स्थिरात्मा प्राप्तदुःखोऽपि सुखे प्राप्तेऽपि निष्पृहःसदानन्दः शुचिः शान्तो निरपेक्षो निराकुलः
नोद्वेजकः स्याज्जीवानां सदा प्राणिहिते रतः ।विगतामर्षभीर्दान्तो निःसङ्कल्पो निरुद्यमः
शोकद्वेषविमुक्तः स्याच्छत्रौ मित्रे समो भवेत् ।शीतवातातपसहः समो मानापमानयोः
समः शुभाशुभे तुष्टो यदृच्छालाभवस्तुना ।निस्त्रैगुण्यो निर्व्विकल्पो निर्लोभः स्यात्त्वसञ्चयीयथासत्यनुपाश्रित्य मृषा विश्वं प्रतिष्ठते ।आत्माश्रितस्तथा देहो जानन्नेवं सुखी भवेत्
इन्द्रियाण्येव कुर्व्वन्ति स्वं स्वं कर्म्म पृथक् पृथक्आत्मा साक्षी विनिर्लिप्तो ज्ञात्वैवं मोक्षभाग्-भवेत्
धातुप्रतिग्रहं निन्दामनृतं क्रीडनं स्त्रिया ।रेतस्त्यागमसूयाञ्च सन्न्यासी परिवर्ज्जयेत्
सर्व्वत्र समदृष्टिः स्यात् कीटे दैवे तथा नरे ।सर्व्वं ब्रह्मेति जानीयात् परिव्राट् सर्व्वकर्म्मसु ।विप्रान्नं श्वपचान्नं वा यस्मात्तस्मात् समागतम्देशं कालं तथा चान्नमश्नीयादविचारयन् ।अध्यात्मशास्त्राध्ययनैः सदा तत्त्वविचारणैः
अवधूतो नयेत् कालं स्वेच्छाचारपरायणः ।सन्न्यासिनां मृतं कायं दाहयेन्न कदाचन
संपूज्य गन्धपुष्पाद्यैर्निखनेद्वाप्सु मज्जयेत् ।अप्राप्तयोगमर्त्यानां सदा कामाभिलाषिणाम्
प्रभावाज्जायते देवि प्रवृत्तिः कर्म्मसंकुले ।अत्रापि ते सानुरक्ता ध्यानार्च्चाजपसाधने
श्रेयस्तदेव जानन्तस्तत्रैव दृढनिश्चयाः ।अतः कर्म्मविधानानि प्रोक्तानि चित्तशुद्धये
नामरूपं बहुविधं तदर्थं कल्पितं मया ।ब्रह्मज्ञानं विना देवि कर्म्मसंन्यसनं विना
कुर्व्वन् कल्पशतं कर्म्म भवेन्मुक्तिभाजनः ।कुलावधूतस्तत्त्वज्ञो जीवन्मुक्तो नराकृतिः
साक्षान्नारायणं मत्वा गृहस्थस्तं प्रपूजयेत् ।यतेर्द्दर्शनमात्रेण विमुक्तः सर्व्वपातकात् ।तीर्थव्रततपोदानसर्व्वयज्ञफलं लभेत्
”इत्यवधूताश्रमः इति महानिर्व्वाणतन्त्रे अष्ट-मोल्लासः
कृदन्तरूपमाला
Sanskrit
1 {@“असु क्षेपणे”@} 2 ‘असतेऽसति गत्यादौ, भुव्यस्ति, क्षेपणेऽस्यति।’ 3 इति देवः।
आसकः-सिका, आसकः-सिका, असिसिषकः-षिका
असिता-त्री, आसयिता-त्री, असिसिषिता-त्री
4 अस्यन्-न्ती, आसयन्-न्ती, असिसिषन्-न्ती
निरस्यन्, आसयन्-न्ती, असिसिषन्-न्ती
असिष्यन्-न्ती-ती, आसयिष्यन्-न्ती-ती, असिसिषिष्यन्-न्ती-ती
5 निरस्यमानः, निरस्यन्, आसयमानः, आसयिष्यमाणः
अः-असौ-असः
-- -- 6 निरस्तम्- 7 स्तवान्, 8 असितमनेन, आसितः, असिसिषितः-तवान्
असः, सन्न्यासी 9, आसः, असिसिषुः, आसिसयिषुः
10 असितव्यम्, आसयितव्यम्, असिसिषितव्यम्
असनीयम्, आसनीयम्, असिसिषणीयम्
आस्यम्, समस्या 11, आस्यम्, असिसिष्यम्
ईषदसः, दुरसः, स्वसः
-- -- 12 अस्यमानः, आस्यमानः, असिसिष्यमाणः
निरासः, व्यासः, 13 प्रासः 14 इष्वासः 15, आसः, असिसिषः
असितुम्, आसयितुम्, असिसिषितुम्
अस्तिः, उपास्तिः, आसना, असिसिषा, आसिसयिषा
निरसनम्, निरासनम्, असिसिषणम्
16 असित्वा, अस्त्वा, आसयित्वा, असिसिषित्वा
पर्यस्य-न्यस्य 17 -निरस्य, निरास्य, निरसिसिष्य
आसम् असित्वा अस्त्वा २, 18 द्व्यहात्यासं गाःपाययति, आसम् २, आसयित्वा २, असिसिषम्
असिषित्वा
19 असुरः, असिः 20 ः।
प्रासङ्गिक्यः
01
=>
(५३)
02
=>
(४-दिवादिः-१२०९। सक। से। पर।)
03
=>
(१८४)
04
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्।]]
05
=>
[[४। ‘उपसर्गादस्यत्यूह्योर्वावचनम्’ (वा। १-३-२९) इति शानजपि।]]
06
=>
[[५। धातोरुदित्त्वात् ‘यस्य विभाषा’ (७-२-१५) इतीण्ण।]]
07
=>
[[आ। ‘राक्षसान् बटुयज्ञेषु पिण्डीशूरान् निरस्तवान्।’ भ। का। (५-८५।)]]
08
=>
[[B। ‘सौनागा अस्यतेर्भावे निष्ठायां विक- ल्पेन इटमिच्छन्ति’ इति काशिका (७-२-१७।)। तेन इदमपि रूपं साधु।]]
09
=>
[[C। ‘उवाच मारुतिर्वृद्धे सन्न्यासिन्यत्र वानरान्’ भ। का। (७-७६।)]]
10
=>
[पृष्ठम्००५२+ ४१]
11
=>
[[१। बाहुलकात् संज्ञायां क्यपि समस्या इति रूपं साधु।]]
12
=>
[[आ। ‘दीव्यमानं शितान् बाणान् अस्य- मानं महागदाः।’ भ। का। (५-८१।)]]
13
=>
[[B। ‘नाडायनो बादरिकश्च तस्मै व्या- सश्च कानीनमुनिर्गरीयान्।’ वा। वि। १-६४।]]
14
=>
[[२। प्रास्यते इति प्रासः। ‘अकर्तरि कारके संज्ञायाम्’ (३-३-१९) इति भावे घञ्।]]
15
=>
[[२आ। इषवोऽस्यन्ते अनेन इति इष्वासः। ‘हलश्च’ (३-३-१२१।) इति करणे घञ्। ‘इष्वासो धन्वधन्विनोः’ इति हैमः।’ इति अमरसुधा।]]
16
=>
[[३। ‘उदितो वा’ (७-२-५६) इतीड् वा।]]
17
=>
[[C। ‘भ्रातरि न्यस्य यातो मां मृगावित् मृगयामसौ’ भ। का। (५। ८२।)]]
18
=>
[[४। ‘अस्यतितृषोः क्रियान्तरे कालेषु (३-४-५७) इति णमुल्।]]
19
=>
[[५। ‘असेरुरन्’ (द। उ। ८-२४।) इति उरन्।]]
20
=>
[[६। अस्यतीति = असिः। इः प्रत्ययः। (द। उ। १। ६८।)]]