| YouTube Channel

सन्न्यासः (sannyAsaH)

 
Apte Hindi
Hindi
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
"छोड़ना, त्याग करना"
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
"सांसारिक विषयों तथा अनुरागों से पूर्ण वैराग्य, सांसारिक वासनाओं का परित्याग"
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
"धरोहर, निक्षेप"
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
खेल में शर्त लगाना
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
"शरीर त्यागना, मृत्यु"
सन्न्यासः
पुं*
- सम् + नि + अस् + घञ्
"जटामांसी, बालछड़"
सन्न्यासः
पुं*
- सम्+नि+अस्+घञ्
"ठहराव, करार"
Shabdartha Kaustubha
Kannada
सम् + नि + असु = सन्न्यासः
पदविभागः - > नामपदम्
कन्नडार्थः - > ತ್ಯಜಿಸು /ವರ್ಜಿಸು
प्रयोगाः - > "काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।"
उल्लेखाः - > गीता० १८-२
सम् + नि + असु = सन्न्यासः
पदविभागः - > नामपदम्
कन्नडार्थः - > ಇಡು /ಅರ್ಪಿಸು
प्रयोगाः - > "मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा"
उल्लेखाः - > गीता० ३-३०
शब्दकल्पद्रुमः
Sanskrit
सन्न्यासः,
पुं,
(सं + नि + अस् + घञ् ।) जटा-मांसी इति शब्दचन्द्रिका
काम्यकर्म्मणांन्यासः यथा, --“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुःसर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः
”इति श्रीभगवद्गीतायाम् १८ अध्यायः
अपि ।“सन्न्यासः कर्म्मणां न्यासः कृतानामकृतेः सहाकुशलाकुशलाभ्यान्तु प्रहाणं न्यास उच्यते
”इति मात्स्ये १२० अध्यायः
*
चतुर्थाश्रमः तदाश्रमधर्म्मा यथा, --“सर्व्वसङ्गपरित्यागो ब्रह्मचर्य्यसमन्वितः ।जितेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम्
अनारम्भस्तथाहारे भिक्षा विप्रे ह्यनिन्दिते ।आत्मज्ञानविवेकश्च तथा ह्यात्मावबोधनम्
चतुर्थे चाश्रमे धर्म्मो ह्यस्माभिस्ते प्रकीर्त्तितः
”इति वामने १४ अध्यायः
*
तदाश्रमकालादि यथा, --“एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।चतुर्थमायुषो भागं सन्न्यासेन नयेत् क्रमात्
अग्नीनात्मनि संस्थाप्य द्विजः प्रव्रजितो भवेत् ।योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः
यदा मनसि सम्पन्नं वैतृष्णं सर्व्ववस्तुषु ।तदा सन्न्यासमि च्छेत्तु पतितः स्याद्विपर्य्यये
प्राजापत्यान्निरूप्येष्टिमाग्नेयीमथवा पुनः ।दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत्
”इति कौर्म्मे उपविभागे २७ अध्यायः
*
कलौ क्षत्त्रियबैश्ययोः सन्न्यासनिषेधो यथा, --“अश्वमेधं गवालम्भं सन्न्यासं पलपैतृकम् ।देवरेण सुतोत्पत्तिं कलौ पञ्च विवर्ज्जयेत्
”इति कलौ सन्न्यासनिषेधकं क्षत्त्रियवैश्य विष-यकम् इति मलमासतत्त्वम्
सर्न्न्यासप्रति-षेधश्च कलौ क्षत्त्रविशीर्भवेत् इति मलमास-तत्त्वप्रतिज्ञायां श्रीरघुनन्दनभट्टाचार्य्यः
*
चैत्रमासे सन्न्यासकरणप्रमाणं यथा, --“चैत्रे शिवोत्सवं कुर्य्यात् नृत्यगीतमहोत्सवेः ।स्नायात् त्रिसन्ध्यं रात्रौ हविष्याशी जिते-न्द्रियः ।शिवस्वरूपतां याति शिवप्रीतिकरः परः
क्षत्त्रियादिषु यो मर्त्यो देहं संपीड्य भक्तितः ।अश्वमेधफलं तस्य जायते पदे पदे
सर्व्वकर्म्मपरित्यागी शिवोत्सवपरायणः ।भक्तैर्ज्जागरणं कुर्य्याद्रात्रौ नृत्यकुतूहलैः
नानाविधैर्म्महावाद्यैन्नृत्यैश्च विविधैरपि ।नानावेशधरैर्न्नृत्यैः प्रीयते शङ्करप्रभुः
किमलभ्यं भगवति प्रसन्ने नीललोहिते ।तस्मात् सर्व्वप्रयत्नेन तोषणीयो महेश्वरः
शङ्खवाद्यं शङ्खतोयं वर्ज्जयेत शिवसन्निधौ ।ग्रामाद्वहिरिमं शम्भोरुत्सवं कारयेन्मुदा ।उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समापयेत्
”इति बृहद्धर्म्मपुराणे उत्तरखण्डे अध्यायः