| YouTube Channel

सन्निहितं (sannihitaM)

 
शब्दकल्पद्रुमः
Sanskrit
सन्निहितं, त्रि, (सं + नि + धा + क्तः ।) निकट-स्थितम् यथा ब्रह्मपुराणे ।“षष्ठ्यादौ कृष्णपक्षे तु भूमौ सन्निहिता भवेत्यावत् पुण्यममावास्यां दिनानि दश पञ्च
”इति प्रायश्चित्ततत्त्वम्
(अग्निविशेषे,
पुं,
यथा, महाभारते ।२२० १९ ।“प्राणानाश्रित्य यो देहं प्रवर्त्तयति देहिनाम् ।तस्य सन्निहितो नाम शब्दरूपस्य साधनः
”)