| YouTube Channel

सन्निपातज्वर (sannipAtajvara)

 
Apte Hindi
Hindi
सन्निपातज्वरः
पुं*
सन्निपात-ज्वरः -
तीनों दोषों के बिगड़ जाने पर उत्पन्न होने वाला भीषण ज्वर
L R Vaidya
English
sannipAta-jvara {% m. %} fever produced by the vitiation of the three humours of the body.
शब्दकल्पद्रुमः
Sanskrit
सन्निपातज्वरः,
पुं,
(सम्यक् निपातो नाशो यस्मात्तादृशो ज्वरः ।) त्रिदोषजज्वरः तु अष्ट-प्रकारज्वरान्तर्गतज्वरविशेषः अष्टत्वं विवृ-णोति वातिकः पैत्तिकः श्लैष्मिकश्चेति त्रयः ।द्वन्द्वजाश्च त्रयः वातपैत्तिकः वातश्लैष्मिकःपित्तश्लैष्मिकश्चेति संघातनः सन्निपातिक एकः“द्व्युल्वणैकोल्वणैः षट् स्युर्हीनमध्यादिकैश्च षट्समैश्चैको विकारास्ते सन्निपातास्त्रयोदश
”इति चरकेण त्रयोदश सन्निपाता उक्ताः
ते यथा वातोल्वणः पित्तोल्वणः कफो-ल्वणः वातपित्तोल्वणः वातश्लेष्मोल्वणः ५पित्तश्लेष्मोल्वणः एवं षट् अधिकवातोमध्यपित्तो हीनकफः अधिकवातो मध्यकफोहीनपित्तः अधिकपित्तो मध्यवातो हीन-कफः अधिकपित्तो मध्यमकफो हीनवातः ४अधिककफो मध्यवातो हीनपित्तः अधिक-कफो मध्यपित्तो हीनवातश्चेति षट् त्र्युल्वणएकः एवं त्रयोदश अत्र तु त्रिदोषज-त्वेन साम्यात् सान्निपातिक एक एव गणितः ।आगन्तुजोऽपि एक एव अत्र आगन्तुज-शब्देन अभिघातादयो हेतव उच्यन्ते कुत्र-चिद्व्याधयः कार्य्यकारणयोरभेदोपचारात् इतिज्वराधिकारे भावप्रकाशः
*
अथ सन्नि-पातज्वराधिकारमाह तत्र सन्निपातज्वरस्यविप्रकृष्टसन्निकृष्टकारणकथनपूर्व्विकां सम्प्राप्ति-माह ।“त्रिदोषजनकैर्व्वातपित्तश्लेष्मामगेहगाः ।बहिर्निरस्य कोष्ठाग्निं रसगा ज्वरकारिणः
”पूर्व्वरूपमाह ।“प्राग्रूपाणि त्रिदोषाणां स्युस्त्रिदोषज्वरेनृणाम् ।”सन्निपातज्वरस्य सामान्यानि लक्षणान्याह ।“क्षणे दाहः क्षणे शीतमस्थि सन्धिशिरोरुजा ।सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः ।तन्द्रा मोहः प्रलापश्च कासश्वासोऽरुचिर्भ्रमः
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा ।ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा ।स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् ।कोठानां श्यावरक्तानां मण्डलानाञ्च दर्शनम्
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य ।चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः
”लोचने सास्रावे साश्रुणी कलुषेऽस्वच्छे ।निर्भुग्ने निर्गते कूटिले कण्ठः शूकैरिवधान्याग्रैरिवावृतः जिह्वा परिदग्धा परि-दग्धेव ज्ञायते अथवा परिदग्धेव कृष्णादृश्यते स्रस्ताङ्गता शिथिलगात्रता पराअतिशयिता ष्ठीवनमित्यादि कफसंयुक्तस्यरक्तस्य पित्तस्य ष्ठीवनम् शिरसो लोठन-मितस्ततः शिरश्चालनम् कृशत्वं नातिगात्राणांगात्राणामतिशयितं कार्य्यं व्याधिप्रभवात् ।प्रततं निरन्तम् कोठः वरटीदष्टसंस्थानःकोठ इत्यभिधीयते श्यावः कपिशो वर्णः ।मूकत्वमवचनत्वमल्पवचनत्वं वा स्रोतसांकर्णनासादीनाम्
*
ननु वातादयः पर-स्परविरुद्धगुणास्तेषां सम्भूयैककार्य्यारम्भकत्वंनोपपद्यते परस्परोपघातात् दहनसलिलयोरिवतत् कथं वातपित्तकफा मिलित्वा विकारोत्-पादकाः अत्र समाधानमुक्तं दृढबलेन ।“विरुद्धैरपि त्वेते गुणैर्घ्नन्ति परस्परम् ।दोषाः सहजसात्म्यत्वाद्विषं घोरमहीनिव
”गदाधरस्तु हेत्वन्तरमुक्तवान् ।“दैवाद्दोषस्वभावाद्वा दोषाणां सान्निपातिके ।विरुद्धैश्च गुणैः कश्चिन्नोपघातः परस्परम्
इतिननु भिन्नचयप्रकोपकालानां वातपित्तकफानांयुगपदुत्थानाभावात् कथं सम्भूय सन्निपात-ज्वरारम्भकत्वमुपपद्यते उच्यते त्रिदोष-जनकनिदानबलेन युगपदेषां प्रकोपादितिसिद्धान्तः
*
अथ सामान्यसन्निपातजवरस्यत्रयोदश विशेषानाह ।“एकोल्वणस्त्रयस्ते स्युर्द्व्युल्वणश्च तथेति षट् ।त्र्युल्वणश्च भवेदेको विज्ञेयः तु सप्तमः
प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट् ।सन्निपातज्वरस्यैवं स्युर्व्विशेषास्त्रयोदश
”तत्र प्रवृद्धवातो मध्यपित्तो हीनकफः मध्य-वातः प्रवृद्धपित्तो हीनकफः हीनवातःप्रवृद्धपित्तो मध्यकफः प्रवृद्धवातो हीनपित्तोमध्यकफः मध्यवातो हीनपित्तः प्रवृद्धकफः ५हीनवातो मध्यपित्तः प्रवृद्धकफश्चेति षट् ।तेषां नामानि क्रमादाह ।“विस्फारकश्चाशुकारी कम्पनो वभ्रु संज्ञकः ।शीघ्रकारी तथा भल्लुः सप्तमः कूटपाकलः
सम्मोहकः पाकलश्च याम्यः क्रकच इत्यपि ।तद्वत् कर्क्कटकः प्रोक्तस्ततो वैदारिकाभिधः
”तन्त्रान्तरे विस्फारक इत्यत्र विस्फुरक इतिपाठः बभ्रुस्थाने विभुरिति पाठः कुत्रापिविद्ध इत्यपि पाठः भल्लुरित्यत्र फल्गुरितिपाठः याम्य इत्यत्र संग्राम इति पाठः ।कर्क्कटक इत्यत्र कर्क्कोटक इति पाठः
*
तत्रवातोल्वणस्य लक्षणमाह ।“श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोह-वेपथुः ।पार्श्वस्य वेदना जृम्भा कषायत्वं मुखस्य
वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।एष विस्फारको नाम्ना सन्निपातः सुदारुणः
१अथ पित्तोल्वणस्य लक्षणमाह ।अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव ।गात्रे बिन्दवो रक्ता दाहोऽतीव प्रजायते ।पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।भिषग्भिः सन्निपातोऽयमाशुकारी प्रकी-र्त्तितः
*
अथ कपोल्वणस्य लक्षणमाह ।“जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि ।प्रस्तब्धे नयने चैव मुखमाधूर्य्यमेव
कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत् ।मुनिभिः सन्निपातोऽयमुक्तः कम्पनसंज्ञकः
अथ वातपित्तोल्वणस्य लक्षणमाह ।“वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति ।तस्य ज्वरो मदस्तृष्णा मुखशोषप्रमीलकाः ।आध्मानारुचितन्द्राश्च कासश्वासभ्रमश्रमाः ।मुनिभिर्बभ्रुनामायं सन्निपात उदाहृतः
*अथ वातश्लेष्मोल्वणस्य लक्षणमाह ।“वातश्ले ष्माधिको यस्य सन्निपातः प्रकुप्यति ।तस्य शीतज्वरो मुर्च्छा क्षुत्तृष्णा पार्श्वनिग्रहः
शूलमस्विद्यमानस्य हिक्का श्वासश्च जायते ।असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते
हि जीवत्यहोरात्रमनेनाविष्टविग्रहः
अथ पित्तश्लेष्मोल्वणस्य लक्षणमाह ।“पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति ।अन्तर्द्दाहो बहिः शीतं तस्य तृष्णा प्रवर्द्धते
तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहाः ।ष्ठीवति श्लेष्मपित्तञ्च कृच्छ्रात् कण्टश्च दूयते
विड्भेदः श्वासहिक्काश्च वर्द्धन्ते सप्रमीलकाः ।ऋषिभिर्भल्लु नामायं सन्निपात उदाहृतः
अथ वातपित्तश्लेष्मोल्वणस्य लक्षणमाह ।“सर्व्वदोषोल्वणे यस्य सन्निपातः प्रकुप्यति ।त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत्
व्याधिभ्यो दारुणश्चैव वज्रशस्त्राग्निसन्निभः ।केवलोच्छासपरमस्तब्धाङ्गस्तब्धलोचनः
त्रिरात्रोपरमे तस्य जन्तोर्हरति जीवितम् ।तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः
धर्षितो राक्षसैर्न्यूनमवेलायां चरन्ति ये ।अम्बया ब्रुवते केचित् यक्षिण्या ब्रह्मराक्षसैः
पिशाचैर्गुह्यकैश्चैव तथान्यैर्म्मस्तके हतम् ।कुलदेवार्च्चनाहीनं धर्षितं कुलदैवतैः
नक्षत्रपीडामपरे गरकर्म्मेति चापरे ।सन्निपातमिमं प्राहुर्भिषजः कूटपाकलम्
अथ प्रवृद्धमध्यहीनवातादिजनितसन्निपातज्व-राणां लक्षणान्याह ।“प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः ।तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः
प्रलापायाससम्मोहकम्पमूर्च्छारतिभ्रमाः ।एकपक्षाभिघातश्च तत्राप्येतद्विशेषतः ।एष सम्मोहको नाम्ना सन्निपातः सुदारुणः
”रोगास्त एवोक्ता उक्ता एव ते रोगाः व्यथा-वेपथुनिद्रानाशविष्टम्भादयो वातजाः दाह-तृष्णोष्णता स्वेदादयः पित्तजाः गौरवाग्नि-मान्द्योत्कासिका मुखप्रसेकादयः कफजाः ।तत्रापि प्रलापादयः पक्षाघातान्ता विशेषाद्-भवन्ति
*
ननु वातः प्रवृद्धः सन् ज्वरंकरिव्यति पित्तन्तु मध्यं सममिति यावत् तत्कथं ज्वरं करिष्यति यत आह ।“धातवस्तन्मला दोषा नाशयन्त्यसमास्तनुम् ।समाः सुखाय विज्ञेया बलायोपचराय
”इति ।उच्यते अत्र पित्तं मध्यमपि अप्रकृतमेव यतो-ऽप्रकृतयोर्वातश्ले ष्मणोरपेक्षया मध्यं तेन मध्यंमध्यकुपितमित्यर्थः
*
ननु कफः क्षीणः कथंज्वरं करिष्यति हीनशक्तिकत्वात् उच्यते ।दोषाः क्षीणा अपि व्याधीन् कुर्व्वन्त्येव यतआह ।“वातक्षयेऽल्पचेष्टत्वं मन्दवाक्त्वं विसंज्ञता ।पित्तक्षयेऽधिकश्लेष्मा वह्निर्मन्दः प्रभाक्षयः
शिथिलाः सन्धयो मूर्च्छा रौक्ष्यं दाहो कफ-क्षयः
”इत्याशङ्का सिद्धान्तश्चापरत्रापि
*
“मध्यप्रवृद्धहीनैस्तु वातपित्तकफैश्च यः ।तेन रोगास्त एबोक्ता यथादोषबलाश्रयाः
मोहप्रलापमूर्च्छाः स्युर्म्मन्यास्तम्भः शिरोग्रहः
कास श्वासो भ्रमस्तन्द्रा संज्ञानाशो हृदिग्रहः
खेभ्यो रक्तं विसृजति तन्द्रा स्यात् स्तब्धनेत्रता ।तत्राप्येते विशेषाः स्युर्म्मृत्युरर्व्वाक् त्रिवासरात्भिषग्भिः सन्निपातोऽयं कथितः पाकला-भिधः
हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः ।तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः
हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुप्फुसाः ।पच्यन्तेऽत्यर्थमूर्द्ध्वाधः पूयशोणितनिगमः
शीर्णदन्तश्च मृत्युश्च तत्राप्येतद्विशेषतः ।भिषग्भिः सन्निपातोऽयं याम्यनामा प्रकी-र्त्तितः
१०
*
अथ प्रवृद्धवातमध्यपित्तहीनकस्य सन्निपातस्यलक्षणमाह ।“प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः ।तेन रोगास्त एवोक्ता यथादोषाबलाश्रयाः
प्रलापायाससंमोहकम्पमूर्च्छारतिभ्रमाः ।मन्यास्तम्भेन मृत्युश्च तत्राप्येतद्विशेषतः ।उक्तः क्रकचनामायं सन्निपातो भिष-ग्वरैः
११
*
मन्यहीनप्रवृद्धैस्तु वातपित्तकफैश्च यः ।तेन रोगास्तथैवोक्ता यथादोषबलाश्रयाः
अन्तर्द्दाहो विशेषोऽत्र वक्तुं शक्यते ।रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम्
यत्नेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते ।इषुणेवाहतं पार्श्वं तुद्यन्ते खन्यते हृदि
प्रमीलकश्वासहिक्का वर्द्धते तु दिनं दिनम् ।जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः
विसर्गं नाभिजानाति कूजेच्चापि कपोतवत् ।अतीवश्ले ष्मणा पूर्णः शुष्कवक्त्रोष्ठतालुकः
तन्द्रानिद्रातियोगार्त्तो हतवाणिर्हतद्युतिः ।न चातिलभते ग्लानिं विपरीतानि चेच्छति
आयम्यते बहुशो रक्तं ष्ठीवति चाल्पशः ।एष कर्क्कटको नाम्ना सन्निपातः सुदा-रुणः
१२
*
हीनमध्यप्रवृद्धैस्तु वातपित्तकफैश्च यः ।तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः
अल्पं शूलं कटीतोदो मध्यो दाहो रुजा भ्रमःभृशं क्लमः शिरो वक्त्रमन्या हृदयवाग्रुजः
प्रमीलकः श्वासहिक्काकाशजाड्यविसंज्ञताः ।प्रथमोत्पन्नमेतन्तु साधयन्ति कदाचन
एतस्मिन् सन्निवृत्ते तु कर्णमूले सुदारुणा ।पिडका जायते जन्तोर्यया कृच्छ्रेण जीवति
वैदारिकसंज्ञोऽयं सन्निपातः सुदारुणः ।त्रिरात्रोपरमे तस्य व्यर्थमौषधकल्पनम्
१३
अथ तन्त्रान्तरे वातोल्वणादीनां सन्निपात-ज्वरविशेषाणां त्रयोदशानां शीताङ्गादीनित्रयोदश नामान्तराणि लक्षणान्तराणि चाह ।“शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततोरक्तष्ठीवयिता तत्र गणितः सम्भुग्ननेत्रस्तथासाभिन्यासकजिह्वकश्च कथितः प्राकसन्धिगो-ऽथान्तकोरुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठ-ग्रहौ
”तन्द्री तन्द्रिकः प्रलापी प्रलापकः रक्तष्ठीव-यिता रक्तष्ठीवी सम्भुग्ननेत्रो भुग्ननेत्रः अभि-न्यासकः अभिन्यासः कर्णकण्ठग्रहौ कर्णग्रहःकर्णकः कण्ठग्रहः कण्ठकुब्जकः
*
अथ तेषां प्रत्येकलक्षणानि ।“हिमशिशिरशरीरः सन्निपातज्वरी यःश्वसनकसनहिक्कामोहकम्पप्रलापैः ।क्लमबहुकफतान्तर्द्दाहवम्यङ्गपीडा-स्वरविकृतिभिरार्त्तः शीतगात्रः उक्तः
तन्द्रातीव ततस्तृषातिसरणं श्वासोऽधिकःकासरुक्सन्तप्तातितनुर्गले श्वयथुना सार्द्धञ्च कण्डूः कफः ।सुश्यामा रसना क्लमः श्रवणयोर्म्माद्यञ्च दाह-स्तथायत्र स्यात् हि तन्द्रिको निगदितो दोष-त्रयोत्थो ज्वरः
यत्र ज्वरे निखिलदोषनितान्तदोष-जाते प्रलापबहुला सहसोत्थिताश्च ।कम्पव्यथापतनदाहविसंज्ञताः स्यु-र्न्नाम्ना प्रलापक इति प्रथितः पृथिव्याम्
निष्ठीवो रुधिरस्य रक्तसदृशं कृष्णं तनौ मण्डलंलौहित्यं नयने तृषारुचिवमिश्वासातिसारभ्रमाःआध्मानञ्च विसंज्ञता तपनं हिक्वाङ्गपीडा भृशंरक्तष्ठीविनि सन्निपातजनिते लिङ्गं ज्वरेजायते
भृशं नयनरक्तताश्वसनकासतन्द्राभ्रमाःप्रलापमदवेपथुश्रवणहानिमोहास्तथा ।अदो निखिलदोषजे भवति यत्र लिङ्गं ज्वरेपुरातनचिकित्सकैः इह भुग्ननेत्रोमतः
दोषास्तीव्रतरा भवन्ति बलिनः सर्व्वेऽपि यत्रज्वरेमोहोऽतीव विचेष्टता विकलता श्वासो भृशंमूकता ।दाहश्चिक्कणमाननञ्च दहनो मन्दो बलस्यक्षयःसोऽभिन्यास इति प्रकीर्त्तित इह प्राज्ञै-र्भिषग्भिः पुरा
त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशंवृता कठिनकण्टकैस्तदनु मूकता मूढता ।श्रुतिक्षतिबलक्षती श्वसनकाससन्तप्तयःपुरातनभिषग् वरास्तमिह जिह्वकं चक्षते
व्यथातिशयिता भवेच्छ्र्वयथुसंयुता सन्धिषुप्रभूतकफता मुखे विगतनिद्रता कासरुक् ।समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरेत्रिदोषजनिते बुधैः हि निगद्यते सन्धिगः
यस्मिन् लक्षणमेतदस्ति सकलैर्द्दोषैरुदीते ज्वरे-ऽजस्रंमूर्द्धविधूननं सकसनं सर्व्वाङ्गपीडाधिका ।हिक्काश्वाससदाहमोहसहिता देहेऽतिसन्तप्ततावैकल्यञ्च वृथावचांसि मुनिभिः सङ्कीर्त्तितःसोऽन्तकः
दाहोऽधिको भवति यत्र तृषा तीव्राश्वासप्रलापविरुचिभ्रममोहपीडाः ।मन्या हनुव्यथनकण्ठरुजा श्रमाश्चरुग् दाहसंज्ञ उदितस्त्रिभवो ज्वरोऽयम्
१०
गायति नृत्यति हसति प्रलपति विकृतं निरीक्षते मुह्येत् ।दाहव्यथाभयार्त्तो दोषत्रयचित्तविभ्रमो ज्वर-वान्
११
निःशेषदोषजनितज्वरशेषजन्मास्यात् कर्णमूलविषये श्वयथुर्व्यथा ।कण्ठग्रहो वधिरताश्वसनप्रलाप-प्रस्वेदमोहदहनानि कर्णकाख्ये
१२
कण्ठः शूकशताबरुद्धवदति श्वासःप्रलापोऽरुचि-र्दाहो देहरुजा तृषापि हनुस्तम्भः शिरो-ऽर्त्तिस्तथा ।मोहो वेपथुना सहेति सकलं लिङ्गं त्रिदोषज्वरेयत्र स्यात् हि कण्ठकुब्ज उदितः प्राज्ञै-श्चिकित्साबुधैः
१३
*
स्न्धिगस्तेषु साध्यः स्यात्तन्द्रिकश्चित्तविभ्रमः ।कर्णको जिह्वकः कण्ठकुब्जः पञ्चापि कष्टकाः
रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः ।रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः ।अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकी-र्त्तिताः
*
अथ तन्त्रान्तरे वातोल्वणादीनां सन्निपात-ज्वरविशेषाणां त्रयोदशानां कुम्भीपाकादीनित्रयोदश नामान्तराणि लक्षणान्तराणि चाह ।“कुम्भीपाकः प्रोर्णुनावः प्रलापीह्यन्तर्द्दाहो दण्डपातोऽन्तकश्च ।एणीदाहश्चाथ हारिद्रसंज्ञोभेदा एते सन्निपातज्वरस्य
अजघोषभूतहासौ यन्त्रापीडश्च संन्यासः ।संशोषी विशेषास्तस्यैवोक्तास्त्रयोदश
”अथैषां लक्षणानि ।“घोनाविवरझरद्वहुशोणासितनीललोहितंसार्त्ति ।विलुठन् मस्तकमभितः कुम्भीपाकेन पीडितंविद्यात्
उत्क्षिप्य यः स्वमङ्गं क्षिपत्यधस्तान्नितान्त-मुच्छसिति ।तं प्रोर्णुनावजुष्टं विचित्रकष्टं विजानीयात्
स्वेदभ्रमाङ्गपीडा कम्पो दवथुर्वमी व्यथा कण्ठेगात्रञ्च गुर्व्वतीदं प्रलापिजुष्टस्य जायतेलिङ्गम्
अन्तर्द्दाहः शैत्यं बहिंश्च यस्या विशेषतः श्वासःअङ्गमिव दग्धकल्पं सोऽन्तर्द्दाहार्द्दितः कथितः
नक्तं दिवा निद्रामुपैति गृह्णाति मूढधी-र्न्नभसः ।उत्थाय दण्डपाते भ्रमातुरः सर्वतो भ्रमति
”नभसो गृह्णाति आकाशात् किञ्चिद्ग्रहीतुंकरौ प्रसारयति इत्यर्थः ।“संपूर्य्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुताश्वासातुरस्य सततं विचेतनस्यान्तकार्त्तस्य
परिधावतीव गात्रे रुक्पात्रे भुजगपतग-हरिणगणः ।वेपथुमतः सदाहस्यैणीदाहज्वरार्त्तस्य
”रुक्पात्रे पीडाभाजने गात्रस्य विशेषणमेतत्“यस्यातिपीतमङ्गनयने सुतरामलं ततोऽप्यं-धिकम् ।दाहोऽतिशीतता बहिरस्य हारिद्रको ज्ञेयः
छगलकशरीरगन्धः स्कन्धरुजावान्निरुद्धगल-रन्ध्रः ।अजघोषसन्निपातादाताम्राक्षः पुमान् भवति
शब्दादीनधिगच्छति स्वान्विषयान् यदी-न्द्रियग्रामः ।हसति प्रलपति परुषं ज्ञेयो भूतहासार्त्तः
येन मुहुर्ज्वरवेगाद्यन्त्रेणेवावपीड्यते गात्रम् ।रक्तं पीतञ्च वमेत् यन्त्रापीडः विज्ञेयः
अतिसरति वमति कूजति गात्राण्यभितश्चिरंनरः क्षिपति ।स न्याससन्निपाते प्रलपति भुग्नाक्षिमण्डलोभवति
मेचकवपुरतिमेचकलोचनयुगलोऽबलो मलोत्-सर्गात् ।संशोषिणि सितपिडकामण्डलयुक्तो ज्वरे भवतिनारायण एव भिषग्भेषजमेतेषु जाह्नवीनीरम् ।नैरुज्यहेतुरेको नित्यं मृत्युञ्जयोऽध्येयः
*
अथासाध्यसन्निपातज्वरस्य लक्षणमाह ।“सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ।शोथः संजायते तेन कश्चिदेव प्रमुच्यते
”सुदारुणः मारकत्वात् यतस्तेन शोथेन कश्चि-देव प्रमुच्यते कोऽपि जीवितं त्यजति इत्यर्थः ।“सन्निपातज्वरान् कष्टानसाध्यानपरे जगुः ।दोषे विबद्धे नष्टेऽग्नौ सर्व्वसम्पूर्णलक्षणः ।सन्निपातज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा
”दोषे पित्तकफे विबद्धे अपक्वे सर्व्वसम्पूर्ण-लक्षणः सर्व्वाणि दाहशीतादीनि सम्पूर्णानिअन्यूनानि प्रौढानीति यावत् लक्षणानि यस्यसः ततोऽन्यथा दोषे पक्वे अग्नौ दीप्ते स्वल्प-लक्षणकः कष्टसाध्य इत्यर्थः
*
*
अथ सामान्यसन्निपातज्वरस्य चिकित्सा ।“सन्निपातार्णवे मग्नं योऽभ्युद्धरति मानवम् ।कस्तेन कृतो धर्म्मः काञ्च पूजां सोऽर्हति
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता ।यश्च तत्र भवेज्जेता जेतामयसङ्कुले
श्लेष्मनिग्रहमेवादौ कुर्य्याद्ब्याधौ त्रिदोषजे ।निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्द्वाटितेषु ।लाघवं जायते सद्यस्तृष्णा चैवोपशाम्यति
*
भेडोऽप्याह ।“सन्निपातज्वरे पूर्व्वं कुर्य्यादामकफापहम् ।पश्चात् श्लेष्मणि संक्षीणे शमयेत् पित्तमारुतौ
”इति
*
ननु तन्त्रान्तरे प्रथमंपित्तस्य प्रतिक्रिया प्रोक्तायथा, --“शमयेत् पित्तमेवादौ ज्वरेषु समवायिषु ।दुर्न्निवारतरं तद्धि ज्वरार्त्तेषु विशेषतः
इतिअन्यत्रापि ।“समवाये त्रिदोषाणां पूर्वं पित्तमुपाचरेत् ।ज्वरे चैयातिसारे सर्व्व त्रान्यत्र मारुतः
”इति
तथान्यत्र प्रथमं वायोः प्रतिक्रिया प्रोक्ता ।यथा, --“वातस्यानुजयेत् पित्तं पित्तस्यानुजयेत् कफम् ।”इति
*
तत्र व्यवस्थामाह तन्त्रान्तरे ।“ज्वरे त्रिदोषजे सामे शमयेत् प्रथमं कफम् ।जीर्य्यत्यामे जयेत् पित्तं निरामे त्वनिलं जयेत्
इति प्रथममिति स्थानत्रयेऽपि सम्बध्यते ।अन्ये त्विति समादधते ।“त्रयाणां वा जयेत् पूर्व्वं तं यः स्याद्वलवत्तरः ।”इति ।तथा ।“संसर्गे यो गरीयान् स्यादुपक्रम्यः वै भवेत्शेषदोषाविरोधेन सन्निपाते तथैव
इति
संसर्गे दोषद्वयसंसर्गे गरीयान् बलवत्त्वरः ।“अंशांशं यत्र दोषाणां विवेक्तुं नैव शक्नु यात्
क्रियां साधारणीं तत्र विदधीत् चिकित्सकः
लङ्घनं वालुकास्वेदो नस्यं निष्ठीवनं तथा ।अवलेहोऽञ्जनञ्चैव प्राक् प्रयोज्यं त्रिदोषजे
”ज्वर इति शेषः
*
ननु ।“क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्पूर्व्वस्यां शान्तवेगायां क्रियासङ्करो हितः
”इति वचनेन क्रियासङ्करस्य निषिद्धत्वात् कथ-मत्र नस्यनिष्ठीवनावलेहाञ्जनानि युगपद्विधी-यन्ते इत्याशङ्खायामाह ।“क्रियाभिस्तुल्यरूपाभिः क्रियासाङ्कर्य्यमिष्यते ।भिन्नरूपतयैतास्तु नहि कुर्व्वन्ति दूषणम्
*
तत्र लङ्घनस्य अवधिमाह ।“त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ।लङ्घनं सन्निपातेषु कुर्य्याद्वारोग्यदर्शनात्
”लङ्घने त्रिरात्रादिविकल्प उल्वणवाताद्यपेक्षयादोषाणां शीघ्रमध्यमन्दशक्तिकत्वात् व्याधिस्व-भावाच्च आरोग्यदर्शनात् इति यावदरोगता-दर्शनं स्यात्तावद्वा लङ्घन कुर्य्यात् एतेनत्रिरात्राद्यवधेरनियतत्वं सूचितम् अतएवसुश्रुतः प्राह ।“सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ।पुनर्घोरतरो भूत्वा प्रशमं यान्ति हन्ति वा
”घोरतर इति घोरः स्वभावादेव तदा घोरतरोभूत्वेति
*
हननप्रशमनयोः कारणमाह ।“पित्तकफानिलवृद्ध्या दशदिवसद्वादशाह-सप्ताहात् ।हन्ति विमुञ्चत्यथवा त्रिदोषजो धातुमलपा-कात्
”त्रिदोषजो ज्वर इति शेषः धातुमलपाकात्धातुपाकाद्धन्ति मलपाकाद्विमुञ्चतीत्यर्थः ।धातुमलपाके प्राक्तनकर्म्मैव हेतुः तत्र यदिजीवनसंवर्द्धकं कर्म्मास्ति तदा मलपाकोऽन्यथाधातुपाकः रसादिशुक्रान्तधातूनां पाकोबोद्धव्यः
*
तत्र धातुपाकस्य लक्षणमाह ।“निद्रानाशो हृदि स्तम्भो विष्टम्भो गौरवा-रुची ।अरतिर्बलहानिश्च धातूनां पाकलक्षणम्
”विष्टम्भ उदरस्य गौरवं गात्राणाम् अन्यच्च ।“संवाध्यमानो हृदि नाभिदेशेगात्रेषु वा पाकरुजायुतेषु ।पीडाज्वरार्त्तोऽङ्गुलिभिश्च गच्छेत्स धातुपाकी कथितो भिषग्भिः
”अपरञ्च ।“नाभेरूर्द्धं हृदोऽधस्तात् पीड्यते व्यथया यदिधातोः पाकं विजानीयादन्यथा तु मलस्य
”मलपाकलक्षणमाह ।“दोषप्रकृतिवैकृत्यं लघुता ज्वरदेहयोः ।इन्द्रियाणाञ्च वैमल्यं मलानां पाकलक्षणम्
”दोषप्रकृतिवैकृत्यं दोषा वातादयस्तेषां प्रकृति-र्वेपथुदाहगौरवादिकरणं तस्य वैकृत्यं वैप-रीत्यम् वेमल्यं मलराहित्यम् मलानांदोषाणाम् अन्यच्च ।“शश्वद्धीन्द्रियपञ्चकस्य पटुता वह्नेश्च यत्र क्रमात्तृष्णादिप्रशमो ज्वरस्य मृदुता तं दोषपाकंवदेत् ।हृन्नाभ्योरतिवेदनातिसरणं तीव्रो ज्वरस्तृण्मदश्वासाधिक्यमरोचको रतिरिति स्याद्धातु-पाकाकृतिः
*
आमस्याधिक्येन सप्तमदिवसाद्यवध्यतिक्रमे पर-मावधिमाह हारीतः ।“सप्तमी द्विगुणा यावन्नवम्येकादशी तथा ।एषा त्रिदोषमर्य्यादा मोक्षाय वधाय
”नवम्येकादशी चागमनदिवसं संविहाय बोद्धव्यातेनागमनदिवसं नीत्वा दशमी द्वादशी अत्ररात्रिरित्यध्याह्रियते ।“सन्निपातज्वरी पूर्वं सम्यग्लङ्घनमाचरेत् ।शृतं शीतं पिबेदम्भः समये भेषजं भवेत्
सन्निपातेन तृष्यन्तं पार्श्वरुक् तालुशोषितम् ।यः पाययेज्जलं शीतं मृत्युर्नरविग्रहः
”शीतं अक्वथितम् शृतं तु शीतं विहितमेवइति लङ्घनम्
*
अथ वालुकास्वेदः ।“वातश्ले ष्मकृते स्वेदात् कारयेद्रू क्षनिर्म्मितात्स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान्खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तवालुकास्वेदःशमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्
श्रोतसामार्द्रवं कृत्वा नीत्वा पावकमाशयम् ।हत्वा वातकफस्तम्भं स्वेदो ज्वरमपोहति
”इति वालुकास्वेदः
*
अथ नस्यम् ।“सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव ।वस्तमूत्रेण संपिष्टं नस्यं तन्द्रानिवारणम्
”श्वेतमरिचं शिग्रु बीजम् सैन्धवादिनस्यम्
“मधूकसारसिन्धूत्थवचोषणकणाः समाः ।श्लक्ष्णं पिष्ट्वाम्भसा नस्य दद्यात् संज्ञाप्रबोध-नम्
”इति मधूकसारादिनस्यम्
“मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम् ।अन्यद्वा सिद्धविहितं नस्यं तीक्ष्णं प्रयोजयेत्
तेन प्रभिद्यते श्लेष्मा प्रभिन्नश्च प्रसिव्यते ।शिरोहृदयकण्ठास्यपार्श्वरुक् चोपशाम्यति
मोहामयेन मुग्धं बोधयितुं यादृशः शक्तः ।कल्पतरुनामधेयो रसो तादृक् परंकिञ्चित्
”इति नस्यम्
*
अथ निष्ठीवनम् ।“जिह्वातालुगलक्लोम मरुत्पित्तेन चोच्छ्रितः ।तदा चारयेच्छोषं जिह्वायाः खरतां तथा
स्फुटनञ्च तदा जिह्वां लेपयेन्मधुपिष्टया ।द्राक्षया साज्यपातेन जिह्वा स्यात् सरसामृदुः
आर्द्रकस्य रसोपेतं सैन्धवं कटुकत्रयम् ।आकण्ठाद्धारयेदास्ये निष्ठीवेच्च पुनः पुनः
तेनास्य हृदयक्लोममन्यापार्श्वशिरोगलात् ।नीलोऽप्याकृष्यते श्लेष्मा लाघवं चास्य जायते
पर्व्वभेदो ज्वरो मूर्च्छा निद्राश्वासगलामयाः ।मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति
सकृत् द्विस्त्रिश्चतुः कुर्य्याद्दॄष्ट्वा दोषबलाबलम् ।एतद्धि परमं प्राहुर्भेषजं सन्निपातिनाम्
”इति कवलग्रहः
*
अथावलेहः ।“कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवीश्लक्ष्णचूर्णीकृतं चैतत् मधुना सह लेहयेत्
एषावलेहिका हन्ति सन्निपातं सुदारुणम् ।हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ।एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः
”तन्त्रान्तरे उक्तम् ।“अष्टाङ्गं मधुना लिह्यादार्द्र कस्य रसेन वा ।संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम्
”इति ।“सर्वेषु सन्निपातेषु क्षौद्रमवचारयेत् ।शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते
अयमभिप्रायः सन्निपातज्वरेषु श्लेष्मनिग्र-हार्थं सर्व्वदा स्वेदो हित उक्तः अत्राग्नि-सम्बन्धाद्देहस्योष्णता तिष्ठेदेव उष्णेन मधुनाविरोधः उक्तञ्च सुश्रुतेन ।“उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु ।उष्णार्त्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषम्
”इति
शीतोपचारि क्षौद्रमिति शीतेनोपचारोऽस्या-स्तीति शीतोपचारि शीतञ्चात्र सन्निपातेविरुध्यते अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग-हरत्वात् सायमुपयुज्यते यत उक्तं चरकेण ।“ऊर्द्ध्वजत्रु गदघ्नी या सा सायमवलेहिका ।अधोरोगहरी या सा भोजनात् प्राक् प्रयु-ज्यते
”पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयम् ।शृङ्गी कर्क्कटशृङ्गी व्योषं शुण्ठीपिप्पलीमरि-चानि यासो यवासः केचिद्यासस्थानेयवानीं प्रक्षिपन्ति कारवी मगरैला इतिलोके अष्टाङ्गावलेहिका
*
“स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् ।विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ।तेनाशु शाम्यति श्वासः कासो मूर्च्छारुचि-स्तथा
”इत्यवलेहः
*
अथाञ्जनम् ।“शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैः ।अञ्जनं स्यात् प्रबोधाय सरसोनशिलावचैः
”इति शिरीषबीजाद्यञ्जनम्
*
“अयोरजः श्वेतलोध्रमञ्जनं मरिचं तथा ।गोपित्तेन समायुक्तं तन्द्रानाशनमुत्तमम्
”गोपित्तं गोरोचना लौहचूर्णाद्यञ्जनम्
*
“अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैः ।प्रमोहद्रोहि भवति भाषितं भिषजां वरैः
”शिला मनःशिला उषणं मरिचम् इत्य-ञ्जनम्
*
अथ क्वाथः ।“सूतं विषञ्च मरिचं तुत्थकं नवसादरम् ।चूर्णितं स्वरसैर्म्मद्यं धूर्त्तपत्ररसोनयोः
सन्निपातकृते मोहे मूर्द्ध्नि लिम्पेत् पदोपरि ।अस्थिव्यथास्वनेनैव लेपं कुर्य्यात् पदोपरि
”पदं पीछ इति लोके ।“विल्वश्योनाकगम्भारीपाटलागणिकारिकाः ।पाचनं वातकफहृत् पञ्चमूलमिदं महत्
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका ।गोक्षुरो वातपित्तघ्नं कनीयः पञ्चमूलकम्
उभयं दशमूलं तत् पिप्पलीचूर्णसंयुतम् ।सन्निपातज्वरं हन्ति हृत्कण्ठग्रहनाशनम्
तन्द्रावातकफातङ्कश्वासपार्श्वार्त्तिकासनुत् ।महान्ति यानि मूलानि काष्ठगर्भाणि यानिच ।तेषान्तु वल्कलं ग्राह्यं ह्रस्वमूलानि कृत्स्नशः
”अत्र विल्वादीनां पञ्चानां मूलस्य वल्कलंग्राह्यम् दशमूलक्वाथः
*
“दशमूलीकषायस्तु पौष्करकणान्वितः ।सन्निपातज्वरे देयः श्वासकाससमन्विते
”इति द्वादशाङ्गक्वाथः
*
“चिरज्वरे वातकफोल्वणे वात्रिदोषजे वा दशमूलमिश्रः ।किराततिक्तादिगणः प्रयोज्यःशुद्ध्यर्थिने वा त्रिवृता विमिश्रः
”किराततिक्तादिर्यथा, --किराततिक्तको मुस्तं गुडूची विश्वभेषजम् ।किरातादिगणो ह्येष चातुर्भद्रकमित्यपि
”इति चतुर्द्दशाङ्गक्वाथः
*
“दशमूली शठी शृङ्गी पौष्करं सदुरालभम् ।भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।कासहृद्ग्रहपार्श्वार्त्ति श्वासहिक्कावमीहरः
”इत्यष्टादशाङ्गक्वाथः
*
“भूनिम्बदारुदशमूलमहौषधाब्द-तिक्तेन्द्रबीजधनिकेभकणाकषायः ।तन्द्राप्रलापकसनारुचिदाहमोह-श्वासत्रिदोषजनितज्वरनाशनः स्यात्
”इति द्वितीयोऽष्टादशाङ्गक्वाथः
एतस्यैव गुण उक्तो वङ्गसेनेन ।“अष्टादशाङ्गमित्येष मृत्युकल्पं ज्वरं जयेत्
”इति
*
अथ सन्निपातज्वरे रसाः ।“विषं त्रिकटुकं गन्धं टङ्कणं मृतशुल्वकम् ।धुस्तूरस्य बीजानि हिङ्गुलं नवमं स्मृतम्
एतानि समभागानि दिनैकं विजयाद्रवैः ।मर्द्दयेच्चणकाकारा कर्त्तव्या वटिकाथ सा
भक्षणीया तु पातव्योरविमूलकषायकः ।मृतसंजीवती नाम्ना सन्निपातज्वरान्तकृत्
”इति मृतसञ्जीवनी वटिका
*
सन्निपातज्वरे रसप्रदीपे ।“शुद्धसूतसमं गन्धं सूतांशं मृतताम्रकम् ।त्रिभिस्तुल्यैर्गवां क्षीरैर्म्मर्द्दयेदातपे खरे
मर्द्दयेद्दिनमेकन्तु निर्गुण्डीशिग्रजद्रवैः ।विधाय गोलं तं गोलमन्धमूषागतं पचेत्
त्रियामान् वालुकायन्त्रे ततः खल्ले विचूर्णयेत् ।अष्टमांशं विषं तत्र क्षिपेत्तेनापि मर्द्दयेत्
त्रिनेत्राख्यो रसो ह्येष ज्ञेयो गुञ्जाद्वयोन्मितः ।पञ्चकोलकषायेण छागीदुग्धेन वा सह
रसेनानेन भुक्तेन सन्निपातज्वरो महान् ।संक्षयं व्रजति क्षिप्रं कर्त्तव्यो नात्र संशयः
”इति त्रिनेत्रो रसः
*
सन्निपातज्वरे रसप्रदीपे ।“भस्म षोडशनिष्कं स्यादारण्योपलसम्भवम् ।मरिचं निष्कमात्नञ्च विषं निष्कं विचूर्णयेत्
रसो भस्मेश्वरो नाम्ना सन्निपातज्वरान्तकृत् ।एकगुञ्जामितो भक्ष्य आर्द्रकस्य द्रवेण हि
”इति भस्मेश्वरो रसः
*
सन्निपातज्वरे रसेन्द्रचिन्तामणौ ।“द्वौ कर्षौ सूतकाद्ग्राह्यौ गन्धकाद्द्वौ तथैव ।यत्नतस्तूभयं मर्द्यं दिनं हंसपदीरसैः
कल्कस्य वटिकां कृत्वा निःक्षेत् काचभाजने ।कर्षैकममृतं तत्र क्षिप्त्वा वक्त्रं निरोधयेत्
कुपिकायाः परौ भागौ वालुकाभिश्च पूरयेत् ।सार्द्धं यावदहोरात्रं तावत्तत्र पचेद्रसम्
दीपमात्रोऽनलो देयः साङ्गशीतं तमुद्धरेत् ।तोलार्द्धममृतं तत्रक्षिपेत्तावत्तथोषणम्
भक्षितो रक्तिकामात्रो रसस्त्वग्निकुमारकः ।सन्निपातज्वरं हन्याद्वातं मन्दाग्नितामपि
शूलं संग्रहणीं गुल्मं क्षयं पाण्डुगदं तथा ।श्वासकासादिकान् सर्व्वान् गदानेष विना-शयेत्
”इति अग्निकुमारो रसः
*
सन्निपातज्वरादिषु रसेन्दचिन्तामणौ ।“गन्धेशटङ्कमरिचं विषं धर्त्तूरजैर्द्रवैः ।दिनसंमर्द्दितं शुष्कं पञ्चवक्त्रो रसो भवेत्
आर्द्रकस्य द्रवेणैष दातव्यो रक्तिकामतः ।सन्निपातज्वरं घोरं नाशयेन्नात्र संशयः
”ईशः पारदः टङ्कः टङ्कणः षञ्चवक्तो रसः
*
सन्निपातज्वरे रसेन्द्रचिन्तामणौ अथ शीत-ज्वरे रसाः ।“सूतकं गन्धकञ्चैव हरितालं मनःशिलाम् ।एकनिष्कं द्विनिष्कञ्च चतुर्निष्कं तथैव
पञ्चनिष्करसैः कारवेल्ल्याः कल्क प्रकल्पयेत् ।ताम्रपत्राणि तुल्यानि तेन कल्केन लेपयेत्
सरावसंपुटे तानि कृत्वा तेषामुपर्य्यपि ।दद्यात्तां पिष्टिकां पश्चात् पुटपाकेन पाचयेत्
ततः संचूर्णयेदेव रसः क्षौद्रेण भक्षितः ।यवैकमात्रया हन्ति घोरं शीतज्वरं ध्रुवम्
”पाराटङ्कः गन्धकटङ्कः हरितालटङ्कः ४मनःशिलाटङ्कः ताम्रपत्रटङ्कः १२ इतिशीतज्वरारिरसः
*
रसप्रदीपे ।“पारदं गन्धकं तुत्थं दरदञ्च विषं समम् ।विषादष्टगुणं योज्यं मरिचं विश्वभेषजम्
अश्वगन्धा तु विजया कासमर्दकठिल्लकः ।चतुर्णाञ्च रसैरेतच्चूर्णं यत्नेन मर्दयेत्
तुलस्यास्तु दलैः सार्द्धं भक्षितो रक्तिकामितः ।हन्ति शीतज्वरं घोरं नाम्रायं शीतकेशरी
”इति शीतकेशरीरसः
*
रसप्रदीपे ।“तालकं शूक्तिकाचूर्णं तुल्यं तत्रोभयोपरि ।नवमांशञ्च तुत्थं स्यात् मर्दयेत् कन्यकाद्रवैः
तत्तु संशुष्कमुपलैर्वन्यैर्गजपुटे पचेत् ।शीतं तच्चूर्णयेदर्द्धं गुञ्जामात्रं शितायुतम्
प्रभाते भक्षयेत्तेन याति शीतज्वरक्षयम् ।वान्तिर्भवति कस्यापि कस्यापि भवत्यपि
”इति शीतभञ्जी
*
“रसकं पारदं तुत्थं तालकं गन्धटङ्कणम् ।सर्व्वमेतत् समं चूर्णं कारवेल्लीरसैर्दिनम्
मर्दयेत्तेन शुद्धस्य रसकादिसमस्य तु ।ताम्रस्य भाजनस्यान्तर्लिम्पेदर्द्धाङ्गु लोन्मितम्
तत् पचेद्वालुकायन्त्रे यवा यावत् स्फुटन्ति हि ।शीतलं तद्धि गृह्णीयात्ताम्रपात्रोदराद्भिषक्
शीतभञ्जी रसो माषमात्रो मरिचसंयुतः ।भक्षितः पर्णखण्डेन नाशयेद्विषमज्वरान्
”इति शीतभञ्जी रसः
*
शीतज्वरादिविषमज्वरेषु रसेन्द्रचिन्तामणौ ।“तालको दरदोद्भू तपारदो गन्धकः शिला ।क्रमाद्भागार्द्धरहितं कारवेल्ल्यम्बुमर्दितम्
अनेनास्य प्रमाणेन ताम्रपात्रीं प्रलेपयेत् ।अधोमुखीं दृढे भाण्डे तान्निरुध्याथ पूरयेत्
चुल्ल्यां वालुकया घस्रमग्निं प्रज्वालयेदृढम् ।शीतं संचूर्ण्य माषोऽस्य नागवल्लीदले स्थितः
भक्षितो मरिचैः सार्द्धं समस्तान् विषमज्वरान्शीतदाहादिकान् हन्ति पथ्यं शाल्यौदनंपयः
”इति शीतभञ्जीरसः
*
रसरत्नप्रदीपे ।“रसं गन्धं विषञ्चैव समं शुद्धञ्च टङ्कणम् ।मर्दयेत् खल्लमध्ये तु यावत् कज्जलसन्निभम्
नकुलस्य मुखे क्षिप्त्वा मृदा संवेष्टयेद्दृढम् ।स्थापयेत् मृण्मये पात्रे अधोऽर्द्धलवणं न्यसेत्
मुखे भाण्डं संनिरुध्य चतुर्यामं दृढाग्निना ।साङ्गशीतं समुद्धृत्य कृत्वा खल्लेषु कज्जलीम् ।गुञ्जाद्वयप्रमाणेन नस्यकर्म्मणि योजयेत् ।वामभागे ज्वरं हन्ति तत्क्षणात् कौतुकं महत्योजयेद्दक्षिणे भागे आरोग्यं निश्चितं भवेत्
”इत्यर्द्धनारीनाटेश्वरो रसः
*
शीतज्वरादिविषमज्वरेषु रसरत्नप्रदीपे ।“कट्फलं त्रिफलादारुचन्दनं सपरूषकम् ।कटुकापद्मकोशीरं विपचेत् कर्षकं जले
त्रिदोषदाहतृष्णाघ्नं पानमात्रेयपूजितम् ।दीर्घकालज्वरार्त्तानामेतत् स्यादमृतोमम्
”कर्षं कट्फलाद्युशीरान्तानां समुदितानां जलेप्रस्थमिते विपचेत् अर्द्धशेषम् कट्फलादिपानंतृष्णायां दाहे ।“सन्निपाते तु दाहार्त्तं यः सिञ्चेच्छीतवारिणाआतुरः कथं जीवेद्भिषग्वा कथं भवेत्
”एष सन्निपातिनो दाहे शीताम्बुसेकनिषेधो रुग्-दाहान्यत्र तत्र व्याप्याद्यवगाहनस्योक्तत्वात्
*
अथान्नमाह ।“दुःस्पर्शगोक्षुरक्षुदासिद्धमाहारमर्पयेत् ।दोषशान्तिबलाग्न्यर्थं त्रिदोषज्वरिणे भिषक्
”दुःस्पर्शो यवासः आहारमुचितमन्नम्
“लाजशक्तून् समश्नीयात् सैन्धवेन समन्वितान्ते चेज्जीर्य्यन्त्यविघ्नेन ज्वरी जीवेत्तदा ध्रुवम्
”इति केचित्
रक्तपित्ते हितत्वेन तृष्णादाहज्वरेषु ।लाजानां शक्तवः शीता तेऽत्र हितामताः
पाचनो दीपनः सोष्णो लाजमण्डो यतः स्मृतः ।दशमूलादिसंसिद्धः सन्निपातज्वरे हितः
सन्निपातज्वरी यस्तु कम्पते प्रलपत्यपि ।किञ्चिदेव जानाति चिकित्सा तस्य कथ्यते
अभ्यञ्जयेत् पुराणेन सर्पिषा पूर्व्वमेव तम् ।बलारास्नागुडूच्याद्यैस्तैलैश्च परिषेचयेत्
वर्त्तको वर्त्तका लावो वार्त्ताकस्तित्तिरिः शशः ।कुलिङ्गश्च रसेनैषां तर्पयेत यथानलम्
”वर्त्तकः वटेर इति लोके वर्त्तका बटई इतिलोके वार्त्ताको वातचटक इति निर्घण्टः
वगेरा इति लोके कुलिङ्गो गरगरैया इतिलोके ।“सन्निपाते क्षुधार्त्तं यो भोजयेत् पिशितौदनम्स कथं भिषगाख्यान्तु लभते मनुजाधमः
*
अथ वातोल्वणसन्निपातज्वरस्य चिकित्सा ।“पञ्चमूलीकषायन्तु दद्याद् वातोत्तरे ज्वरे ।भृशोष्णं वा सुखोष्णं वा दृष्ट्वा दोषबलाबलम्
”पञ्चमूली महती प्रथमं प्राप्तायास्त्यागे वचना-भावात्
*
अथ पित्तोल्वणसन्निपातज्वरस्यचिकित्सा ।“परूषकाणि त्रिफला देवदारु कट्फलम् ।चन्दनं प्रद्मकं चैव तथा कटुकरोहिणी
पृश्नीपर्णी शृतं त्वेभिरुषितं शीतलं जलम् ।पित्तोत्तरे नृणामेतत् सन्निपाते चिकित्सितम्
”इति परूषकादिक्वाथः
*
“किराततिक्तकं मुस्तं गुडूची विश्वभेषजम् ।पाठोदीप्यं मृणालञ्च शृतं पित्ताधिके पिबेत्
”इति किरातादिसप्तकम्
*
अथ कफोल्वणसन्निपातज्वरस्य चिकित्सा ।“बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरा-लभा ।वत्सकस्य तु वीजानि पटोलं कटुरोहिणी
बृहत्यादिर्गणः शस्तः सन्निपाते कफोत्तरे ।श्वासादिषु सर्व्वेषु हितः सोपद्रवेष्वपि
”इति बृहत्यादिक्वाथः
*
अथ वातपित्तोल्वणसन्निपातज्वरस्य चिकित्सा“वातपित्तहरं वृष्यं कनीयः पञ्चमूलकम् ।तत्क्वाथो मधुना हन्ति वातपित्तोत्तरं ज्वरम्
”इति लघुपञ्चमूलम्
*
अथ वातश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।किराततिक्तकं मुस्तं गुडूची विश्वभेषजम् ।चातुर्भद्रकमित्याहुर्व्वातश्लेष्मोल्वणे ज्वरे
”इति चातुर्भद्रकक्वाथः
*
अथ पित्तश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।“पर्पटः कट्फलं कुष्ठमुशीरं चन्दनं जलम् ।नागरं मुस्तकं शृङ्गी पिप्पल्येषां शृतं हितम् ।तृष्णादाहाग्निमान्द्येषु पित्तश्लेष्मोल्वणे ज्वरे
”इति पर्पटादिक्वाथः
*
अथ वातपित्तश्लेष्मोल्वणसन्निपातज्वरचिकित्सा ।“नागरं धान्यकं भार्गी पद्मकं रक्तचन्दनम् ।पटोलं पिचुमर्दश्च त्रिफला मधुकं बला
शर्करा कटुका मुस्ता गजाह्वा व्याधिघातकः ।किराततिक्तममृता दशमूली निदिग्धिका
योगराजो निहन्त्येष सन्निपातत्रिकोल्वणम् ।सन्निपातसमुत्थानं मृत्युमप्यागतं जयेत्
”गजाह्वा गजपिप्पली व्याधिघातकः आरम्वधः ।निदिग्धिका द्वैगुण्यार्थं पृथक् पठिता इतियोगराजक्वाथः
*
अथ प्रवृद्धमध्यहीनवा-तादिजनितसन्निपातज्वराणां षण्मां तन्त्रेणचिकित्सामाह ।“प्रवृद्धं कर्षयेद्दोषं क्षीणं संवर्द्धयेद्भिषक् ।चिकित्सेयं विधातव्या दोषयोर्व्वृद्धहीनयोः
”अस्यायमर्थः प्रवृद्धं दोषं कर्षयेत् तत्क्षैण्य-हेतुभिरौषधान्नविहारैः कृशीकृत्य समीकुर्य्यात्क्षोणं दोषं संवर्द्धयेत् तद्वृद्धिहेतुभिरौषधान्न-विहारैर्वर्द्ध यित्वा समीकुर्य्यादित्यर्थः ।“प्रवृद्धे समिते दोषे मध्यमः स्वयमेव हि ।शान्तिं याति समं नीते त्वनुबन्ध्येऽनुबन्धवत्
”अभ्यायमर्थः वर्षासु वायुरनुबन्ध्यः सेव्यः ।प्रधानमिति यावत् पित्तश्लेष्माणावनुबन्धौवायोरनुचरौ शरदि पित्तमनुबन्ध्यं कफोऽनु-बन्धः वसन्ते कफोऽनुबन्ध्यो वातपित्ते अनुबन्धौतत्र यथानुबन्ध्ये प्रशमं नीतेऽनुबन्धः स्वयमेवगान्तिं याति तथा प्रवृद्धे दोषे शमिते ह्रास-यित्वा समीकृते मध्यमो दोषो हि निश्चयेनस्वयमेव गान्तिं याति प्रकृतो भवतीत्यर्थः
*
अथ गोताङ्गादीनां सन्निपातज्वराणां त्रयो-दशानां विशिष्टा चिकित्सा तत्र शीताङ्गस्यचिकित्सामाह ।“भास्वन्मूलं जीरकं व्योषभार्गी-व्याघ्रीशुण्ठीपुष्करं गोजलेन ।सिद्धं सद्यः शीतगात्रादिमोह-श्वासश्लेष्मोद्रेककासान्निहन्ति
”भास्वन्मूलं अर्कमूलम् ।“कर्क्कोटिकाकन्दरजः कुलत्थ-कृष्णावचाकट्फलकृष्णजीरैः ।किराततिक्तानलकट्वलावु-पथ्याभिरुद्वर्त्तनमत्र शस्तम्
”कर्क्कोटिकाकन्दरजः खखसामूलरजः ।“रसविषमरिचमहेशप्रियफलभस्सैकभूचतुर्व-सुभिः ।भागैर्म्मितमुद्धूननमिदममितस्वेदशैत्यहरम्
*अथ तन्त्रिकस्य चिकित्सा ।“क्षुद्रामृतानागरपौष्कराणिशृतानि पीतानि शिवायुतानि ।शुण्ठीकणागस्तिरसोषणानिनस्येन तन्द्राविजयोल्वणानि
मरिचकचपञ्चपचा वचा रुक्कृमिहंरनागरशर्व्वरीगवाक्ष्यः ।छगलकजलकल्किता नितान्तंनसि निहिता ननु तन्त्रिकं जयन्ति
”कचः बालकः पञ्चपचा दारुहरिद्रा रुक्कुष्ठम् कृमिहरो विडङ्गः शर्व्वरी हरिद्रा ।गवाक्षी इद्रवारुणी नसि नासिकायाम् ।“तुरङ्गलालालवणोत्तमेन्द्रःमनःशिलामागधिकामधूनि ।नियोजितान्यक्षिणि निश्चितं द्राक्तन्द्रां सनिद्रां विनिवारयन्ति
”लवणोत्तमं सैन्धवम् इन्द्रः कर्पूरः निद्राअतिनिद्रा
*
अथ प्रलापकस्य चिकित्सा ।“सतगरवरतिक्तो रेवताम्भोदतिक्ता-नलदतुरगगन्धाभारतीहारहूराः ।मलयजदशमूलीशङ्खपुष्पीसुपक्वाःप्रलपनमपहन्युः पानतो नातिदूरात्
”वरतिक्तोऽत्र पर्पटो तु महानिम्बस्तन्त्रा-न्तरानुरोधात् नलदं लामज्जकम् तदलाभा-दुशीरं ग्राह्यम् भारती ब्राह्मी वरम्भीइति लोके हारहूरा द्राक्षा ।“सान्त्वनैरञ्जनैर्नस्यैस्तीक्ष्णैस्तिमितसेवनैः ।सर्व्वतो विकृतं चित्तमस्य प्रकृतिमानयेत्
*
अथ रक्तष्ठीविनश्चिकित्सा ।“रौहिषधन्वयवासकवासा-पर्पटगन्धलताकटुकाभिः ।शर्करया सममेष कषायःक्षतजष्ठीविन उदित उपायः
”रौहिषं सुगन्धतृणविशेषः रोहित इतिलोके गन्धलता प्रियङ्गुः ।पद्मकचन्दनपर्पटमुस्ताजातिवरारुणचन्दनवारि ।क्लीतकनिम्बयुतं परिपक्वंवारि भवेदिह शोणितहारि
”क्लीतकं यष्टीमधुकम् इह रक्तष्ठीविनि ।“मधुकमधूकपरूषकषाय-श्चन्दनपल्लवदारुसनाथः ।श्रीपर्णीफलशीतकषायःसशित इह स्यादस्रजयाय
”पल्लवं पत्रकम् पाथः बालः सनाथः सप्र-धानः श्रीपर्णी गम्भारी
*
अथ भुम्न-नेत्रस्य चिकित्सा ।“तुरङ्गगन्धालवणोग्रगन्धा-मधूकसारोषणमागधीभिः ।वस्ताम्बुशुण्ठीलसुनान्विताभि-र्न्नस्यं त्वसम्भुग्नदृशं करोति
*
अथाभिन्यासस्य चिकित्सा ।“शृङ्गीभार्ग्य भयाजाजीकणाभूनिम्बपर्पटैः ।देवदारुवचाकुष्ठयासकट्फलनागरैः
मुस्तधान्याकतिक्तेन्द्रयवपाठाहरेणुभिः ।हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकैः
विशलारग्वधारिष्टशटीवाकुचिकाफलैः ।विडङ्गरजनीदार्व्वीयवानीद्वयसंयुतैः
समांशैर्व्विहितः क्वाथो हिङ्ग्वार्द्रकरसान्वितः ।अभिन्यासज्वरं घोरं हन्ति तन्द्राञ्च तत्क्षणात्प्रमोहं कर्णशूलञ्च सन्निपातांस्त्रयोदश ।हिक्कां श्वासञ्च कासञ्च तथा सर्व्वानुपद्रवान्
”इति शृङ्ग्यादिक्वाथः
*
अथ जिह्वकस्य चिकित्सा ।“किराततिक्ताकुलकृत्कलिञ्ज-कर्च्चूरकृष्णाकटुतैलयुक्तः ।अम्लद्रवः संशमयेद्रसज्ञादोषांस्तुतो दाशरथिर्यथाब्धिम्
”आकुलकृत् अकरकरहा इति लोके कलिञ्जंकुलिञ्जन इति लोके अम्लद्रवः वीजपुरादि-रसः इति किरातादिकवलः
*
“शालूरपर्णी मालूरमूलामयमधुप्लुता ।शम्बूकपुष्पी सहिता सेव्या वाचां विशुद्धये
”शालूरपर्णी ब्राह्मी मालूरमूलं विल्वमूलम्
आमयः कुष्ठम् शम्बूकपुष्पी शङ्कपुष्पी शालूर-पर्ण्यादिरवलेहः
*
“क्षुद्रा नागरपुष्करामृतलता ब्राह्मी वचा-सुव्रता ।भार्गी वासकया सतोयसुरसा क्वाथो जये-ज्जिह्वकम् ।विश्वावर्म्मविभावरीयुगवरावत्सादनीवारिद-व्याघ्रीनिम्बपटोलपुष्करजटारुग्दारुभिर्व्वाकृतः
”पुष्करं पुष्करमूलम् तथा चामरसिंहः ।“मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ।”सुव्रता गन्धपलाशी काश्मीरे प्रसिद्धा सुरसातुलसी विश्वादिर्योगान्तरम् वर्म्म पर्प्पटः
विभावरीयुगं हरिद्रा दारुहरिद्रा वरात्रिफला वत्सादनी गुडूची व्याघ्री कण्ट-कारिका रुक् कुष्ठम्
*
अथ सन्धिनस्यचिकित्सा ।“शटीसुरतरूत्तमाः स्थविरदारुरास्नाः समाःसनागरसुधान्विताः पिब शतावरीसंयुताः ।मृदुज्वलनपाचिताः सह पुरेण सन्धिग्रह-व्यथापहतये वृथा शिशिरसेवनं मा कृथाः
”उत्तमा त्रिफला स्थविरदारु विघारा इतिलोके सुधा गुडूची पुरो गुग्गुलुः ।“वचाकवचकच्छुरासहचरामृताभङ्गुरा-सुराह्वघननागरातरुणदारुरास्नापुराः ।वृषातरुणभीरुभिः सह भवन्ति सन्धिग्रह-व्यथोरुजडिमक्लमभ्रमणपक्षघातद्रुहः
”कवचः पर्प्पटकः कच्छुरा यवासः भङ्गुराअतिषिषा सुराह्वं देवदारु अतरुणदारुवृद्धदारु पुरो गुग्गुलुः वृषा बृहद्दन्तीएरण्डवत् पत्रविटपा तदलाभे दन्ती ग्राह्यासमानगुणत्वात् तरुण एरण्डः भीरुः शता-वरी ।“सुरदारु शटी सुधालतासुवहा शुण्ठियुता शृता जले ।सपुराः शमयन्ति सेविताःसततं सन्धिगतं सदागतिम्
”सुवहा राम्ना ।“मुस्तैरण्डप्राणदावाणदारु-च्छिन्नारास्नाभीरुकर्च्चूरतिक्ता ।वासा विश्वा पञ्चमूलीयुगाढ्याहन्यान्मन्यास्तम्भसन्धिग्रहार्त्तीः
”प्राणदा हरितकी बाणः नीलपुष्पसहचरः ।तिक्ता कटुका
*
अथान्तके विधिः ।“इहापहाय व्रतमुष्णवारिज्वरारिपूयादिगदापहारि ।ज्वरच्छिदं जीवितदञ्च नित्यंमृत्युञ्जयं चेतसि चिन्तयस्व
”इह अन्तके व्रतं लङ्घनादिनियमम् ।“कर्पूरप्रकरावदातवपुषं सद्योगमुद्राजुषंशश्वद्भक्तजनेषु भावुकजुषं भालस्फु रच्चक्षुषम् ।संपूर्णामृतकम्भसम्भृतकरं शुभ्राक्षमालाधरंपिङ्गोत्तुङ्गजटाकलापरुचिरं चन्द्रार्द्धमौलिंस्तुहि
भिषग्भिरिति निर्णीतं सन्निपातेऽन्तकाभिधे ।भेषजं जाह्नवीनीरं वैद्यो गोविन्द एव हि
*अथ रुग्दाहस्य चिकित्सा ।“उशीरचन्दनोदीच्यद्राक्षामलकपर्प्पटैः ।शृतं शीतं जलं दद्याद्दाहतृड्ज्वरशान्तये
”इति षडङ्गपानम्
*
“सशितो निशि पर्य्युषितः प्रातर्धान्याक-तण्डुल क्वाथः ।पीतः शमयत्यचिरादन्तर्द्दाहं ज्वरं पत्तम्
”धान्याकतण्डुलाः कण्डितधान्यकानि इतिधान्याकक्वाथः
*
“पथ्यां तैलघृतक्षौद्रैर्लिहन् दाहज्वरापहाम् ।कासासृक्पित्तवीसर्प श्वासान् हन्ति वमीमपि
”तेलघृतक्षौद्रैरित्यत्र समुच्चयः स्नेहेन केवलेनमधुनापि लिह्यात् इति पथ्यावलेहः
*
“प्रशमयति दाहमचिरात् दधियुक्कर्क्कन्धु-पल्लवैर्लेपः ।लेपो हिमकरमलयजनिम्बदलैस्तक्रपिष्टैर्व्वा
”हिमकरः कर्पूरः तथा घनसारश्चन्द्रसंज्ञइत्यमरः
“उत्तानसुप्तस्य गभीरताम्र-कांस्यादिपात्रे निहिते नाभौ ।शीताम्बुधारा बहला पतन्तीनिहन्ति दाहं त्वरितं ज्वरञ्च
शीताम्भसा तु शतशश्च विलोडितेनगव्येन चन्दनयुतेन घृतेन दिग्धा ।दाहज्वरी सकमलोत्पलमाल्यधारीक्षिप्रं विशेत् सलिलकोष्ठमनल्पकालम्
काञ्जिकार्द्रपटेनावगुण्ठनं दाहनाशनम् ।अथ गोतक्रसंस्विन्नशीतलीकृतवाससा
*
अथान्नमाह ।“दाहावमर्द्दितं क्षामं निरन्नं तृष्णयान्वितम् ।शर्करामधुसंयुक्तं पाययेल्लाजतर्पणम्
”लाजतर्पणं लाजशक्तुभिरुपतर्पणम् ।“वाप्यः कमलहासिन्यो जलयन्त्रगृहाः शुभाः ।नार्य्यश्चन्दनदिग्धाङ्ग्यो दाहदैन्यहरा मताः
मुक्तावली चन्दनशीतलानांसुगन्धपुष्पाम्बरभूषितानाम् ।नितम्बिनीनां सुपयोधराणा-मालिङ्गनान्याशु हरन्ति दाहम्
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः ।हितञ्च भोजयेदन्नं येनाप्नोति सुखं महत्
”प्रह्लादकं कामकृतं हर्षम्
*
अथ चित्त-भ्रमस्य चिकित्सा ।“कणोषणोग्रालवणोत्तमानिकरञ्जबीजं क्षणदामलानि ।पथ्याक्षसिद्धार्थकहिङ्गुशुण्ठी-युतानि वस्ताम्बुविमिश्रितानि
पिष्ट्वा गुटीयं नयने विधेयाप्रचेतनेति प्रथितान्वितार्था ।चित्तभ्रमापस्मृतिभूतदोष-शिरोऽक्षिरोगभ्रमनाशहेतुः
”वस्ताम्बु छागमूत्रम् ।“कुम्भोद्भवतरोरम्भोगुडविश्वाकणान्वितम् ।निहितं नसि नूनं स्यात् चित्तभ्रमविनाशनम्
”कुम्भोद्भवतरोरम्भः अगस्तिवृक्षत्वक्कल्करसः ।“मुरामूर्द्ध जमेधाह्वामधूकमलयोद्भवैः ।मरुत्तरुमधून्मिश्रैः पुरपाणिजपांशुभिः
लोहलामज्जकैलाभिर्धूपश्चित्तभ्रमापहः ।ग्रहदोषहरः श्रीदः सौभाग्यकर उत्तमः
”मुरा एकाङ्गी मूर्द्धजो बाला मरुत्तरुःदेवदारुः पुरः गुग्गुलुः पाणिजः नखः ।पांशुः पर्पटकः लोहं अगुरुः लामज्जकंउशीरवत् पीतच्छवितृणविशेषः तदलाभेउशीरं ग्राह्यम् ।“मृद्दीकामरदारुमत्स्यशकलामुस्तामलक्योऽमृतापथ्यारेवतरामसेनकरजोराजीफलैः संयुताः ।हन्युश्चित्तरुजोऽथ दर्द्दु रदला द्राक्षा पटोलीपयःपथ्या पर्पटराजवृक्षकटुकाशम्बूकपुष्पः शृताः
”मृद्दीका द्राक्षा मत्स्यशकला कटुका आरे-वतः आरग्वधः रामसेनकः किराततिक्तकः ।रजः पर्पटकः राजीफलः पटोलः अथयोगान्तरमाह दर्दुलदला मण्डूकपर्णी ।सा त्र्यर्था ब्राह्मी मञ्जिष्ठा शोणकश्च ।तथाप्यत्र ब्राह्मी ग्राह्या यत उक्तं गुणग्रन्थे ।ब्राह्मी मतिप्रदा मेध्या ज्वरहन्त्री रसायनीतिब्राह्मी वरम्भी इति लोके पयः बालकं राज-वृक्ष आरग्वधः शम्बूकपुष्पी शङ्खपुष्पी
*
अथ कर्णकस्य चिकित्सा ।“प्रलेपः समस्तं नयत्यल्पमेकःसमुद्रिक्तशोथञ्च रक्तावसेकः ।विपक्वञ्च शस्त्रक्रिया पूयजित् साव्रणत्वं गतञ्च द्रुतं तच्चिकित्सा
”अयमर्थः अल्पं तं कर्णकं एकः प्रलेपः अस्तंनाशं नयति तच्चिकित्सा व्रणचिकित्सा ।“निशाविशालामयमाणिमन्थ-दार्वीङ्गदीमूलकृतः प्रलेपः ।प्रभाकरक्षीरयुतप्रभावाद्-व्यस्तः समस्तोऽप्यथ कर्णकघ्नः
”कुलत्थः कटफलं शुण्ठी कारवी समांशकैः ।सुखोष्णैर्लेपनं कार्य्यं कर्णमूले मुहुर्न्मुहुः
गैरिकं कठिनीशुण्ठीकट्फलैः सवचैः समैः ।उष्णैः काञ्जिकसंपिष्टैः प्रलेपः कर्णमूलनुत्
शिग्रुराजिकयोः पिष्ट्वा कर्णमूलं प्रलेपयेत् ।कर्णमूलभवः शोथस्तेन लेपेन शाम्यति
अशिशिरजलपरिमृदितं मरिचकणाजीर-सिन्धुजं त्वरितम् ।नस्यविधिसेवितं ननु कर्णकरुक् नाशकृद्-गदितम्
भार्गीजयापौष्करकण्टकारी-कट्त्रिकोग्राघनकुण्डलीभिः ।कुलीरशृङ्गीकटुकारसाभिःकृतः कषायः किल कर्णकघ्नः
”भार्गी वभनेटी इति लोके तदलाभे कण्ट-कारीमूलं ग्राह्यम् जया गणियार इतिलोके पौष्करं पुष्करमूलम् उग्रा वचा ।कुण्डली गुडूची कुलीरशृङ्गी कर्क्कटशृङ्गी ।रसा रास्ना ।“दशमूलमत्स्यशकलाचपला-त्रिफलामहौषधिकिरातयुतम् ।मरिचं परिक्वथितमाशु बला-दपहन्ति कर्णरुजः सकला
”चपला पिप्पली
*
अथ कण्ठकुब्जस्यचिकित्सा ।“फलत्रिकत्र्यूषणमुस्तकद्वि-कलिङ्गसिंहाननशर्व्वरीभिः ।काथः कृतः कृन्तति कण्ठकुब्जंकण्ठीरवः कुञ्जरमाशु यद्वत्
”सिंहाननो वासकः शर्व्वरी हरिद्रा ।“किरातकटुकाकणाकुटजकण्टकारीशटी-कलिद्रुकिलिमाभयाकटुककट्फलाम्भोधरैः ।विषामलकपुष्करानलकुलीरशृङ्गीवृषै-र्म्महौषधसखैरयं जयति कण्ठकुब्जं गणः
”शटी कच्चूरः कलिद्रुः विभीतकः किलिमंदेवदारुः कटुकं मरिचम् विषा अतिविषा ।पुष्करं पुष्करमूलम् वृषः वासकः वृषा-दिभिः किविशिष्टैः महौषधसखैः महौ-षधस्य सखिभिः तेन एतैः सहितेन महौ-षधेन इत्यर्थः
*
अथोल्वणवातादिप्रवृद्ध-मध्यक्षीणवातादिहेतुकानां कुम्भीपाकादिसन्नि-पातज्वराणां त्रयोदशानां चिकित्साभिधीयतेसा तुल्यहेतुकानां विस्फु रकादीनां त्रयो-दशानामिव विधातव्या इति सन्निपातज्वरा-धिकारः इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
सन्निपातज्वर
पु०
सन्निपातजो ज्वरः सन्निपातशब्दोक्तेत्रिदोषजविकारजाते ज्वरे