| YouTube Channel

सन्निधानं (sannidhAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
सन्निधानं,
क्ली,
(सं + नि + धा + ल्युट् ।) निक-टम् इति हेमचन्द्रः
(यथा, रामायणे ।२ २१ ५३ ।“श्रेयो मुहूर्त्तं तव सन्निधानंममैव कृस्नादपि जीवलोकात्
*
सम्यङ्निधीयतेऽस्मिन्निति ।) आश्रयः यथा, “आरम्भः संशयानामविनयभवनं पत्तनं साह-सानांदोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्यया-नाम् ।दुस्त्याज्यं यन्महद्भिः सुरनरवृषभैः सर्व्वमाया-करण्डंस्त्रीरूपं केन लोके विषममृतमयं धर्म्मनाशायसृष्टम्
”इति शान्तिशतकम्
(अवस्थानम् यथा, मार्कण्डेये ९७ ३५ ।“यस्मिन् गेहे लिखितमेतत् तिष्ठति नित्यदासन्निधानं कृते श्राद्धे तत्रास्माकं भविष्यति
”)