| YouTube Channel

सन्ध्याभ्रं (sandhyAbhraM)

 
शब्दकल्पद्रुमः
Sanskrit
सन्ध्याभ्रं
क्ली,
(सन्ध्याया अभ्रमिव तद्वर्णत्वात् ।)सुवर्णगैरिकम् इति राजनिर्घण्टः
(सन्ध्या-कालीनमेघः यथा, रघुः १२ २८ ।“सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः
”)