| YouTube Channel

सन्ध्याचल (sandhyAcala)

 
शब्दसागरः
English
सन्ध्याचल
m.
(-लः) The name of a mountain.
E.
सन्ध्या twilight, अचल a mountain.
Yates
English
सन्ध्या-चल (लः) 1.
m.
Name of a
mountain.
Wilson
English
सन्ध्याचल
m.
(-लः) The name of a mountain.
E.
सन्ध्या twilight, and अचल a mountain.
Monier Williams Cologne
English
सं-ध्या°चल (°ध्याच्°),
m.
‘tw°-mountain’,
N.
of a m°,
KālP.
शब्दकल्पद्रुमः
Sanskrit
सन्ध्याचलः,
पुं,
(सन्ध्याया अचलः ।) पर्व्वत-विशेषः यथा, --“आराधनोपदेशाय कापोतस्य वचः स्मरन् ।जग्मतुर्द्दक्षिणां काष्ठां यत्र सन्ध्याचलः स्थितः
कान्ता नाम नदी तत्र वशिष्ठे नावतारिता ।तस्यास्तीरे महाशैले स्निग्धच्छाया लता तदा ।सन्ध्यां वशिष्ठः कृतवान् तत्र यस्माद्विधेः सुतः ।अतः सन्ध्याचलं नाम तस्य गायन्ति देवताः
”इति कालिकापुराणे ५० अध्यायः
*
अपि ।“क्षोभकाख्यान्महाशैलादैशान्यां पर्व्वतोत्तमः ।तुङ्गः सन्ध्याचलो नाम वशिष्ठो यत्र शप्तवान्
निमेर्नाम्ना तु राजर्षेः शापाद्ब्रह्मसुतः पुरा ।वशिष्ठो ह्यशरीरोऽभूत्तच्छापाच्च निमिस्तथा
ततो ब्रह्मोपदेशेन निर्जने कामरूपके ।सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा
प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः ।अमृतान्यवतार्य्यर्थे कुण्डं कृत्वा गिरिस्तटे
तत्र स्नात्वा पीत्वा शरीरं प्राप पूरितम् ।तस्मादमृतकुण्डात्तु सन्ध्या नाम नदीवरा ।निःस्मृता तत्र चाप्लुत्य चिरायुरगदो भवेत्
”इति कालिकापुराणे ८१ अध्यायः
वाचस्पत्यम्
Sanskrit
सन्ध्याचल
पु०
“सन्ध्यां वशिष्ठः कृतवान् तत्र तस्माद्वथेःसुतः ततः सन्ध्याचलं नाम तस्य गायन्ति देवताःकालिकाप० ५० अ० निरुक्ते पर्वतभेदे