| YouTube Channel

सन्ध्यांशः (sandhyAMzaH)

 
शब्दकल्पद्रुमः
Sanskrit
सन्ध्यांशः,
पुं,
(सन्ध्याया अंशः ।) युगसन्धिः ।यथा, --“चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु त्रिषु ।एकापायेन वर्त्तन्ते सहस्राणि शतानि
”इति मानवे ६९-७०
चत्वार्य्याहुरिति चत्वारि वर्षसहस्राणि कृत-युगं कालं मन्वादंयो वदन्ति तस्य तावद्वर्ष-शतानि सन्ध्या सन्ध्यांशश्च भवति युगस्य पूर्व्वासन्ध्या उत्तरश्च सन्ध्यांशः तदुक्तं विष्णुपुराणे ।“तत्प्रमाणैः शतैः सन्ध्यां पूर्व्वां तत्राभिधीयते ।सन्ध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि यः
सन्ध्यासन्ध्यांशयोरन्तर्यः कालो मुनिसत्तम ।युगाख्यः तु विज्ञेयः कृतत्रेतादिसंज्ञकः
”वर्षसंख्या चेयं दिव्यमानेन तस्यैवानन्तरप्रकृत-त्वात ।“दिव्यैर्व्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे
”इति विष्णुपुराणवचनाच्च ।इतरेष्विति अन्येषु त्रेताद्वापरकलियुगेषु सन्ध्यासन्ध्यांशसहितेषु एकहान्या सहस्राणि शतानिच भवन्ति तेनेदं सम्पद्यते त्रीणि वर्षसह-स्राणि त्रेतायुगं तस्य त्रीणि वर्षशतानि सन्ध्यासन्ध्यांशश्च एवं द्वे वर्षसहस्रे द्वापरः तस्य द्बेवर्षशते सन्ध्या सन्ध्यांशश्च एवं वर्षसहस्रंकलिः तस्यैकवर्षशतं सन्ध्या सन्ध्यांशश्च इतिकुल्लूकभट्टः