| YouTube Channel

सन्धिपूजा (sandhipUjA)

 
शब्दकल्पद्रुमः
Sanskrit
सन्धिपूजा,
स्त्री,
(सन्धौ अष्टमीनवमीसन्धिक्षणेपूजा ।) शारदीयमहापूजान्तर्गततृतीयापूजा यथा कालिकापुराणवचनान्तरम् ।“अष्टमीनवमीसन्धौ तृतीया खलु कथ्यते ।तत्र पूज्या त्वहं पुत्त्र योगिनीगणसंयुता
”ज्योतिशे ।“अष्टम्यां सन्धियोगे सकलपरिजनैः पूजयेत्सत्त्वभावै, ।”सप्तमीपूजावत्महाष्टम्यादिकृत्यमपि षष्टिद-ण्डात्मिकायाभेव तु परदिवसीयखण्डतिथौकिन्तु पूर्व्वोक्तसन्ध्यनुरोधान्निशादाविव खण्ड-तिथावपि सन्धिपूजा एवञ्च पूर्णाष्टम्यां महा-ष्टमीपूजा तत्परदिने अष्टमीनवम्योः सन्धिपूजातत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर-पुराणाद्युक्तोदयगामितिथ्यनुरोधात् तत्पर-दिने दशम्यां विसर्जनं पूजानुरोधेनाधिकदिन-लाभात् अन्यत् दुर्गाशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
सन्धिपूजा स्त्री सन्धौ अष्टम्याः शेषे नवम्याश्च आद्ये दण्डेपूजा आश्विनशुक्लाष्टमीनवमीसन्धिकाले विहितपूजायाम्“अष्टमी नवभीसन्धौ तृतीया खलु कथ्यते तत्र पूज्यात्वहं पुत्र! योगिनीगणसंयुता” ज्योतिषे “अष्टम्यांसन्धियोगे सकलपरिजनैः पूजयेत् सत्वभावैः” कामरूपीयनिबन्धे स्मृतिसागरे “अष्टम्याः शेषदण्डश्च नवम्याःपूर्व दव अत्र या क्रियते पूजा विज्ञेया सा महा-कला” मत्स्यसूक्तेऽपि “अष्टमीनवमीयोगो रात्रि-भागे विशिष्यते अर्द्धरात्रे दशगुणं सन्ध्यायां त्रिगुणंभवेत्” आश्विनाधिकारे “अष्टमी नवमीयुक्ता नवमीचाष्टमीयुता अर्द्धनारीश्वरप्राया उमामाहेश्वरीतिथिः” इति विष्णुधर्मोत्तरीयमप्ये तद्विषयं तुमहानवमीपूजापरम् तस्या अष्टम्युववासपरदिनबिधा-नेन सप्तमीवद्युग्मानादरात् ततश्च सप्तमीपूजावन्महा-ष्टम्यादिकृत्यमपि षष्टिदण्डात्मिकायामेव तु परदिवसीयखण्डतिथौ किन्तु पूर्वोक्तसन्ध्यनुरोधान्निशादावित खण्ड-तिथावपि सन्धिपूजेति एवञ्च यस्मिन् दिने महाष्टमी-पूजा तस्मिन् दिन एव उपवासः तु सन्धिपूजादिने अष्टमीत्वेनोपवासविधेः पूर्वमुक्तत्वात् एवञ्च पूर्णा-ष्टम्यामष्टमीपूजा ततपरदिने अष्टमीनवम्योः सन्धौ सन्धि-पूजा तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वर-पुराणाद्युक्तोदय्गामितिथ्यनुरोधात् तत्परदिने दशम्यांविसर्जनं पूजानुरोधेनाधिकदिनलाभात्” ति० त०