| YouTube Channel

सन्धितः (sandhitaH)

 
शब्दकल्पद्रुमः
Sanskrit
सन्धितः, त्रि, (सन्धा जातास्येति सन्धा +इतच् ।) सन्धियुक्तः मिलितः यथा, --“अस्मद्वराद्दिव्यवपुः सन्धितः सन्धिमानसौ ।आर्य्यत्वादार्य्यराजाख्यः ख्यातो भुवि भवि-ष्यति
”इति राजतरङ्गिण्याम् तरङ्गः
आसवादि यथा, --“कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके शुक्लसन्धि-तम् ।”इति श्रीहरिभक्तिविलासे १६ विलासः
शुक्लं काञ्जिकादिपर्य्युषितद्रव्यं सन्धितञ्च वर्ज्ज-येत् इति तट्टीका