| YouTube Channel

सन्धिजं (sandhijaM)

 
शब्दकल्पद्रुमः
Sanskrit
सन्धिजं,
क्ली,
(सन्धेर्जायते यदिति जन + डः ।)आसवादि यथा, काशीखण्डे ।“कार्त्तिके वर्ज्जयेत्तैलं कार्त्तिके वर्ज्जयेन्मधु ।कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके मासि सन्धि-जम्
”सन्धिजमासवादि इति तिथ्यादितत्त्वम्
(सन्धिसमुत्पन्ने, त्रि यथा, सुश्रुते ।“पक्वः शोफः सन्धिजः संस्रवेद्यःसान्द्रं पूयं पूति पूयालसः सः
”)