| YouTube Channel

सन्धानं (sandhAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
सन्धानं,
क्ली,
(सन्धीयते यदिति सं + धा + ल्युट् ।)मद्यसज्जीकरणम् इति नयनानन्दः
तत्-पर्य्यायः अभिषवः इत्यमरः
सन्धानी ३सन्धिका इति शब्दरत्नावली
सन्धीयतेसन्धानं वंशाङ्कुरफलादीन् बहुकालं सन्धाय, यत् क्रियते इति भरतः
सङ्घट्टनम् इतिमेदिनी
(यथा, कुमारे २७ ।“मुखेन सा पद्मसुगन्धिना निशिप्रवेपमानाधरपत्रशोभिना ।तुषारवृष्टिक्षतपद्मसम्पदांसरोजसन्धानमिवाकरोदपाम्
”)काञ्जिकम् इति हलायुधः
मदिरा अव-दंशः सौराष्ट्रम् इति राजनिर्घण्टः
धनुषि बाणयोजनम् यथा, --“तदाशु कृतसन्धानं प्रतिसंहर शायकम् ।आर्त्तत्राणाय वः शस्त्रं प्रहर्त्तुमनागसि
”इत्यभिज्ञानशकुन्तलायाम् अङ्कः
अन्वेषणम् इति लोकप्रसिद्धम्
(सन्धिः ।यथा महाभारते १० ३३ ।“एवं कृते तु सन्धाने वृत्रः प्रमुदितोऽभवत् ।यत्तः समभवच्चापि शक्रो हर्षसमन्वितः
”)सन्दधातीति सं + धा + ल्युः धारके, त्रि ।यथा, सुश्रुते ४५ ।“मधु तु मधुरं कषायानुरसं * * हृद्यं सन्धानंशोधनं रोपणमिति
”)
कृदन्तरूपमाला
Sanskrit
1 {@“शुच्य अभिषवे”@} 2 ‘अभिषवः-द्रवेणाद्रवणम्, परिवासनम्’ इति स्वामी।
‘--स्नानम्’ इति चान्द्राः।
‘शुच्यी--’ इति क्षीरस्वामी।
‘चुच्यी--’ इति दुर्गसम्मतः पाठः।
‘चुच्य’ इत्यपि पठति मैत्रेयः।
“अवयवानां शिथिलीकरणं, सुरायाः सन्धानं वाऽभिषवः
यथा ‘सोममभिषुणोत्यृजीषमभिषुणोति’ इति।
सुराप्रकरणे ‘सन्धानं स्यादभिषवः’ इति” माधवः।
‘अभिषवः = निष्पीड- नस्नपनसुरासन्धानस्नानादिः’ इति धातुकाव्यव्याख्या 3।
शुच्यकः-च्यिका, शुच्यकः-च्यिका, शुशुच्यिषकः-षिका, शोशुच्यकः-च्यिका
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकचुच्यतिवत् 4 ऊह्यानि।
5 शुक्तिः, 6 प्रशुच्य।
प्रासङ्गिक्यः
01
=>
(१७२६)
02
=>
(१-भ्वादिः-५१३। सक। सेट्। पर।)
03
=>
(१-६६)
04
=>
(५३४)
05
=>
[[१। अत्र ‘लोपो व्योर्वलि’ (६-१-६६) इति वलिलोपे ‘तितुत्र--’ (७-२-९) इत्यादिना इण्निषेधे, कुत्वे रूपम्।]]
06
=>
[[आ। ‘प्रशुच्य सोमं कृतहर्यतैर्नुतं समालितं फुल्लसरोजमालया।।’ धा। का। १-६६।]]