| YouTube Channel

सनिता-त्री (sanitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“षण सम्भक्तौ”@} 2 ‘दाने सनोति सनुते, सम्भक्तौ तु सनेदिति।।’ 3 इति देवः।
सानकः-निका, सानकः-निका, 4 सिसनिषकः-सिषासकः-सिका, 5 सासायकः-संसनकः-निका
सनिता-त्री, सानयिता-त्री, सिसनिषिता-सिषासिता-त्री, सासायिता-संसनिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि ‘जनी प्रादुर्भावे’ 6 इतिवत् बोध्यानि।
7 सातः-सातवान्, 8 सातिः, सन्तिः-सतिः, 9 सेनिवान्-सनिंससनिवांसम्, सायमानः-सन्यमानः, 10 सानुः, इति विशेषरूपाणि।
प्रासङ्गिक्यः
01
=>
(१८१२)
02
=>
(१-भ्वादिः-४६४। सक। सेट्। पर।)
03
=>
(श्लो। १२८)
04
=>
[[१। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयुर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यनेन सन्नन्ते इड्वि- कल्पः। इट्पक्षे एवं रूपम्। इडभावपक्षे ‘जनसनखनां सन्(ञ)झलोः’ (६-४-४२) इत्यात्वम्। ‘आदेशप्रत्यययोः’ (८-३-५९) इति उत्तरखण्डे षत्वम्।]]
05
=>
[[२। यङन्ते ‘ये विभाषा’ (६-४-४३) इति आकारविकल्पः। इदं आत्वं यकारादौ क्ङिति प्रत्यय एवेत्यतः ण्यति भवति। तेनास्माण्ण्यति सान्यम् इत्येव रूपम्।]]
06
=>
(५८३)
07
=>
[[३। यतः सन्नन्ते इड्विकल्पः
\n\n तेन निष्ठायामिण्न। ‘जनसनखनां--’ (६-४-४२) इत्याकारः। एवं क्तिन्प्रभृतिष्वपि प्रक्रिया ज्ञेया।]]
08
=>
[[४। स्त्रियां क्तिनि रूपमेवम्। ‘सनः क्तिचि लोपश्चास्यान्यतरस्याम्’ (६-४-४५) इति आकारादेश-नकारलोपौ तु तानादिकसनोतेरेवेति काशिका। क्षीरस्वामी तु अस्यापि भौवादिकधातोस्तदभिप्रैति। केचित्तु ‘ऊतियूतिजूतिसाति--’ (३-३-९७) इति निपातनात् सातिरित्येकमेव क्तिनि रूपमभ्युपगच्छन्ति। परे तु सनोतेस्ताना- दिकस्य सातिरिति निपातनमिति वदन्ति। अत्र निष्कर्षे विद्वांसः प्रमाणम्।]]
09
=>
[[५। छन्दसि धातोरस्मात् लिटः क्वसौ सनिङ्पूर्वात् इडागमः, एत्वाभ्यासलोपाभावश्च निपात्यते। लोके तु सेनिवांसम् इत्येव
\n\n अत्र एत्वाभ्यासलोपादयः। क्वस्वन्तस्य द्वितीयान्तमिदम्। ‘अञ्जित्वाऽग्ने! सनिंससनिवांसम्’ इति श्रुतिः।]]
10
=>
[[६। औणादिके (द। उ। १-८८) ञुण्प्रत्यये रूपमेवम्। सानुः = शिखरकूटः।]]