| YouTube Channel

सद्वृत्तं (sadvRttaM)

 
शब्दकल्पद्रुमः
Sanskrit
सद्वृत्तं,
क्ली,
(सत् वृत्तम् ।) साधुस्वभावः सच्च-रित्रम् इति जटाधरः
(यथा, कथा-सरित्सागरे ५१ २२७ ।“सच नरवाहनदत्तः सद्बृत्तमनोरमामुदारगुणाम्प्राप्यालङ्कारवतीं वाणीमिव सुकविरास्ततद्रसिकः
”)तद्युक्ते त्रि यथा, --“नासमञ्जसशीलैस्तु सहासीत कदाचन ।सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते
”इति तिथ्यादितत्त्वम्