| YouTube Channel

सद्यस्क्री (sadyaskrI)

 
Monier Williams Cologne
English
स-द्यस्—क्री
mfn.
=
सद्यः-क्°.
Aufrecht Catalogus Catalogorum
English
सद्यस्क्री Baudh. by Vāsudeva. SB. 86.
वाचस्पत्यम्
Sanskrit
सद्यस्क्री
पु०
सद्यःक्रीणाति सोमम् यत्र क्री--आधारे किप्कस्का० सद्यःसोमक्रयसाध्ये यागभेदे “एकरात्रोऽति-रात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः” अथर्व० ११ १० नाना-यज्ञोक्तौ भावे क्विप् सद्यस्क्रये स्त्री तया साध्यःअण् साद्यस्क्र सद्यःसोमक्रयेण एकाहसाध्ये यज्ञभेदे ।“साद्यस्क्राश्च षट्” कात्या० श्रौ ०२२ उक्ता यथा “षट्साद्यस्क्रा” सू० “स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः”सू० साद्व्यष्क्र ख्यक्रतुर्भवति “दीर्घव्याधिप्रतिष्ठाकामा-न्नाद्यकामानां द्वितीयः” सू० साद्यष्क्रो भवति एषा-मत्राधिकारः “हीनस्यानुक्रीः” सू० अनुक्रीर्नाम ३साद्यष्क्रः हीनस्य भवति यः कर्मणा हीन तस्यासौभवति “विश्वजिच्छिल्पः” सू० नाम साद्यस्क्रः ।“श्येनोऽभिचरतः” सू० श्येनो नाम साद्यष्क्रः पञ्चमःसोऽभिचरतो भवति “एकत्रिकः” सू० षष्ठः साद्यष्क्रः ।तत्र षट् षष्टिशतं दक्षिणा साद्यःक्रधर्माः व्याख्या-स्यन्त इति सूत्रशेषः दीक्षादि सद्यः सर्वं क्रियते”भाष्यम् ताण्ड्यब्रा० भाष्ये चोक्तं यथाअथ साद्यस्क्रा नाम पञ्च एकाहास्तेषु पथमद्विती-ययोर्दीक्षाप्रभृत्यवभृथान्तं, सर्वमेकस्मिन्नेवाहन्यनु-ष्ठेय तृतीयस्य तु एकस्मिन् दिवसे दीक्षा परस्मिन्दिवसे सोमक्रयाद्यवभृथान्तं, चतुर्थपञ्चमयोरप्येवं यद्वाएका दीक्षा सोमक्रयप्रभृति उपवसथान्तं द्वितीयेऽहनिसुत्येति एवं सूत्र कारमतं पञ्चस्वपि साद्यस्क्रान्वयात्सद्य एव एकस्मिन्नेवाहनि दीक्षाद्यवभृथान्तं कर्त्तव्य-मिति मतात्तरम् एतत्सर्वं साद्यम्क्रेण वक्ष्यमाणे म-हारात्रे प्रातराहुतिं हुत्वेत्यादिना सूत्रकारेण विस्प-ष्टमुक्तम् तत्र प्रथमस्य यदुर्क्त सर्वं सद्योऽनुष्ठेयमितितद्विधित्सुराह “आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गेलोकेऽस्पर्द्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस्त आदित्या एतमपश्यंस्तं सद्यः परिक्रीयायास्यमुद्धा-तारं वृत्वा तेन स्तत्वा स्वर्गं लोकभायन्नहीयन्ताङिरसः” ताण्ड्य० ब्रा० १६ १२ “पुरा आदित्याश्चाङ्गिरसश्च अदीक्षन्त यज्ञाय दीक्षां कृतवन्तः ते उभे स्वर्गेलोके स्वर्गलोकतिमित्तमस्पर्धन्त वयं प्रथमं गमिष्यामोबयं प्रथमं गमिष्याम इति स्पर्द्धां कृतवन्तः एवं स्पर्द्ध-मानास्तेऽङ्गिरस आदित्येभ्यः सुत्यां श्वः परस्मिन्दीक्षा-नन्तरदिने करिष्यमाणं सोमयागं प्राब्रुवन् प्रोक्तवन्तःअथ ते आदित्या एव वक्ष्यमाणयज्ञमपश्यन् तं यज्ञंसद्यः एकस्मिन्नेवाहनि परिक्रीय सोमं क्रीत्वा अयास्यमृषिमुद्गातारं वृत्वा स्तावयित्वा समापयन् दोक्षाद्यवभृ-धन्तं सर्वं कर्म एकस्मिन्नेवाहनि अन्वतिष्ठन्नित्यर्थः ।यज्ञसमाप्त्यनन्तरमेव ते स्वर्गलोकमायन् प्राप्नुवन् आ-ङ्गिरषस्त्वहीयन्त दीक्षानन्तरदिवसे सुत्येति तैरुक्तत्वात्एतस्विन् दिने दीक्षाद्यवभृथान्तस्य सर्वस्याननुष्ठानेनस्वर्गप्राप्ताभावात् दीक्षितैरादित्यैः वद्योऽनुष्ठानेन स्वर्ग-गतेः हीनाः भूमायेव परित्यक्ता आसन्” भा०