| YouTube Channel

सद्यःशौच (sadyaHzauca)

 
Capeller Eng
English
सद्यःशौच
n.
present or immediate purification ((r. )).
Monier Williams Cologne
English
सद्यः—शौच
n.
present or immediate purity,
Gaut.
Apte Hindi
Hindi
सद्यःशौचम्
नपुं*
सद्यस्-शौचम् -
तत्काल की हुई शुद्धि
L R Vaidya
English
sadyas-SOca {% n. %} immediate purity.
शब्दकल्पद्रुमः
Sanskrit
सद्यःशौचं,
क्ली,
(सद्य एव शौचं शुद्धिः ।) तत्-क्षणाच्छद्धिः यथा, --“शिल्पिनः कारवो वैद्या दासीदासाश्च भृत्यकाःअग्निमान् श्रोत्रियो राजा सद्यःशौचाः प्रकी-र्त्तिताः
”इति गारुडे १०७ अध्यायः
*
अन्यच्च ।“कारवः शिल्पिनो वैद्या दासीदासास्तथैव ।दातारो नियमी चेव ब्रह्मविद्व्रह्मचारिणौ
सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः ।राजा चैवाभिषिक्तश्च प्रातः सत्रिण एव
यज्ञे विवाहकाले देवयागे तथैव ।सद्यःशौचं समाख्यातं दुर्भिक्षे वाप्युपद्रवे
डिम्बाहवहतानाञ्च विद्युता पार्थिवर्द्दिजैः ।सद्यःशौचं समाख्यातं सजातिमरणे तथा
अग्नौ मरुप्रपतने वीराध्वस्याप्यनाशके ।ब्राह्मणार्थे संन्यस्ते सद्यःशौचं विधीयते
”इति कौर्म्मे उपविभागे २२ अध्यायः
*
अपरञ्च अथ सद्यःशौचम् तत्र विष्णुः ।नाशौचं राज्ञां राजकर्म्मणि व्रतिनां व्रते नसत्रिणां सत्रे कारूणां स्वकर्म्मणि नराजाज्ञाकारिणां तदिच्छया देवप्रतिष्ठा-विवाहयोः पूर्व्वसंवृतयोः इति सत्रिणांनित्यप्रवृत्तान्नदानानां सत्रे अन्नदाने कारवःसूपकाराद्याः आदिपुराणे ।“सूपकारेण यत् कर्म्म करणीयं नरेष्विह ।तदन्यो नैव शक्नोति तस्माच्छुद्धः सूपकृत्
”कूर्म्मपुराणे ।“कारवः शिल्पिनो वैद्या दासा दास्यस्तथैव ।दातारो नियमी चैव ब्रह्मविद्व्रह्मचारिणौ ।सत्रिणो व्रतिनस्तावत् सद्यःशौचा उदाहृताः
”आदिपुराणे ।“शिल्पिनश्चित्रकाराद्याः कर्म्म यत् साधयन्त्युत ।तत् कर्म्म नान्यो जानाति तस्मात् शुद्धःस्वकर्म्मणि
दासा दास्यश्च यत् कर्म्म कुर्व्वन्त्यपि लीलया ।तदन्यो क्षमः कर्त्तुं तेन ते शुचयः स्मृताः
”चित्रकराद्यरूपाः शिल्पिनः आद्यशब्दाच्चेल-निर्णेजकाद्याः शातातपः ।“मूल्यकर्म्मकराः शुद्रा दासा दास्यस्तथैव ।स्नाने शरीरसंस्कारे गृहकर्म्मण्यदूषिताः
”स्मृतिः ।“सद्यःस्पृश्यो गर्भदासो भक्तिदासस्त्र्यहा-च्छुचिः
”वैद्या अपि चिकित्सायामेव तथा स्मृतिः ।“चिकित्सको यत् कुरुते तदन्येन शक्यते ।तस्मात् चिकित्सकः स्पर्शे शुद्धो भवतिनित्यशः
”दातार आवश्यकप्रत्यहं गोभूमिहिरण्यादि-दाने प्रवृत्ताः तेषां तद्दान एव प्रत्यहंदानञ्च दातव्यं प्रत्यहं पात्रे इति याज्ञ-वल्क्यात् कादाचित्कदानकारिणान्तु दानेप्रक्रान्ते अशौचं नास्ति तावत् यावत्तत् कर्म्मकुर्व्वन्ति इति हारलताप्येवम् पूर्व्वसङ्कल्पित-द्रव्यदानेऽपि नाशौचम् यथा मिता-क्षरायाम् ।“पूर्व्वसङ्कल्पितं द्रव्यं दीयमानं दुष्यति
”इति
आदिपुराणे ।“निवृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ।गृहीतनियमस्यापि स्यादन्यस्य कस्यचित्
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्म्मणि ।निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य ।देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित्
”प्राजापत्यादिकृच्छ्रे समाप्ते होमयागजपेषुसमाप्तेषु सम्पूर्णार्थमवश्यं मया ब्राह्मणाभोजयितष्या इति गृहीतनियमो यस्तस्या-शौचेऽन्यकुलजातानामपि भुञ्जानानां दोषा-भावः कस्यचिद्दातृभोक्त्वोरित्यर्थः एवं प्रारब्ध-श्राद्धेऽपि क्वचिदित्यनेन दातृभोक्त्रोरशौचाभावः ।तथा विष्णुः ।“व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे ।आरब्धे सूतकं स्यादनारब्धे तु सूतकम्
”इति
पराशरः ।“दीक्षितेष्वभिसिक्तेषु व्रततीर्थपरेषु ।तपोदानप्रसक्तेषु नाशौचं मृतसूतके
”यजमानां सोमयागाङ्गदीक्षणीयेष्टौ कृतायांदीक्षितत्वं भवति तेन दीक्षणीयेष्ट्युत्तरकालंयजमानस्य यत् कर्म्म तत्राशौचं नास्ति ।अभिषिक्तेषु क्षत्त्रियनृपतिषु तीर्थं गङ्गादि ।गुरुरिति कश्चित्
कालमाधवीये कूर्म्मपुरा-णम् ।“काम्योपवासे प्रक्रान्ते अन्तरा मृतसूतके ।तत्र काम्यव्रतं कुर्य्यात् दानार्च्चनविवर्ज्जितम्
”तत्र दानार्च्चनं स्वयं वर्ज्जयेत् अन्यद्वारा तुकारयेत् तथा मत्स्यपुराणम् ।“गर्भिणी सूतिका नक्तं कुमारी रजस्वला ।यदाशुद्धा तदान्येन कारयेत् क्रियते सदा
”उपवासाचरणे गर्भादिपीडासम्भावनायां नक्तंभोजनं कुर्य्यात् ।“उपवासेष्वशक्तस्य तदेव फलमिच्छतः ।अनभ्यासेन रोगाणां किमिष्टं व्रतमुच्यताम्
”इति नारदप्रश्नानन्तरम् ।“उपवासष्वशक्तानां नक्तं भोजनमिष्यते ।”इति मत्स्यपुराण एवेश्वरप्रतिवचनात् ।स्वयमशुद्धा शुद्धद्वारा पूजादिकं कारयेत् ।कायिकमुपवासादि सदा शुद्ध्यशुद्धिकाले स्वयंक्रियते स्मृतिपरिभाषायामप्येवम् विष्णुः ।“बहुकालिकसङ्कल्पो गृहीतश्च पुरा यदि ।सूतके मृतके चैव व्रतं तन्नैव दुष्यति
”एतत्काम्यव्रतपरम् नित्यानान्त्वारब्धानामना-रब्धानामविशेषेण कर्त्तष्यता नाशौचमित्यनु-वृत्तौ ब्रह्मपुराणम् ।“नैष्ठिकस्याथवान्यस्य भिक्षार्थं प्रस्थितस्य
”नैष्ठिकस्य ब्रह्मचारिविशेषस्य अन्यस्य चतुर्था-श्रमिणः अशौचिभिक्षाग्रहणे दोषाभावः ।इति हारलताप्रभृतयः
कौर्म्मे ।“सद्यःशौचं समाख्यातं दुर्भिक्षे चाप्युपप्लवे ।डिम्बाहवहतानाञ्च विद्युता पार्थिवैर्द्विजैः ।सद्यःशौचं समाख्यातं शापादिमरणे तथा
”उपप्लवे राजविप्लवे औपसर्गिकात्यन्तमरक-पीडने सद्यःशौचमुक्तम् तथा पराशरः ।“उपसर्गमृते चैव सद्यःशौचं विधीयते ।”अतएव ।“आपद्यपि कष्टायां सद्यःशौचं विधीयते ।”इति याज्ञवल्क्यवचने अनिरुद्धभट्टशूलपाणि-प्रभृतिभिरौपसर्गिकात्यन्तमरकपीडायां सद्यः-शौचं विधीयते इत्युक्तम् उपसर्गश्च त्रिवि-धोत्पातः तथा गर्गसंहिताबार्हस्पत्ययोः ।“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्य-धर्म्मतः ।नरापचारान्नियतमुपसर्गः प्रवर्त्तते
अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।ताः सृजन्त्यद्भुतांस्तावद्दिव्यनाभसभूमिजान्
एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।विचरन्ति विनाशाय रूपैः सम्भावयन्ति
”यद्यप्युपसर्गः स्मृतो रोगभेदोपप्लवयोरपीतिविश्वकोषादुपसर्गस्योभयवाचकत्वं तथाप्यत्रमुनिप्रयुक्तत्वेनान्तरङ्गत्वात् त्रिविधोत्पातात्म-कोपसर्गो गृह्यते तु रोगविशेषात्मक इति ।एतेनोपसृजन्तीति व्युत्पत्त्या देहाभ्यन्तर एवयावद्वर्त्तते तावत्कालमरण एव सद्यःशौचं बहि-र्भावे व्रणपरम्परया मरणे सति स्वजात्युक्ता-शौचमेवेति त्र्यहमिति दर्शनस्मृतिसारप्रदीपाइति वाचस्पतिमिश्रोक्तं हेयम् द्विजैर्ब्राह्मणैःशापादीत्यादिशब्देनाभिचारमृतस्य ग्रहणम् ।ब्रह्मकूर्म्मपुरणाभ्यां यद्ब्राह्मणहतस्याशौचा-भाव उक्तः बुद्धिपूर्व्वकहनने बोद्धव्यः प्रमाद-हते त्वशौचाद्यस्त्येव अन्यथा मरीचिवचनंनिर्व्विषयं स्यात् यथा, --“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम्चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिताविषादिसाहचर्य्यात् ब्राह्मणकृतघातोऽस्या-स्तीति प्रतीयते यच्चात्र ये वै ब्राह्मणैर्हताइति ब्रह्मपुराणीयं साधकत्वेनोपन्यस्तं श्राद्ध-विवेके तच्चिन्त्यम् ।“महापातकिनो ये पतितास्ते उदाहृताः ।”इत्यत्तरार्द्धेन पातित्यमभिधाय तेषां श्राद्ध-निषेधात् जावालः ।“दुर्भिक्षे राष्ट्रसम्पाते शस्त्रगोब्रह्मघातिते ।पतितेऽनशनप्रेते विदेशस्थे शिशौ
”नाशौचमित्यर्थः इति शुद्धितत्त्वम्
वाचस्पत्यम्
Sanskrit
सद्यःशौच
न०
सद्यः शीघ्रमपनेयमशौचम् स्मृत्युक्तेशीघ्रनाश्ये अशौचे ब० तद्वति शिल्पिनृपश्रोत्रि-यादौ
त्रि०
अशौचशब्दे ४८८ पृ० दृश्यम्