| YouTube Channel

सदापुष्पः (sadApuSpaH)

 
शब्दकल्पद्रुमः
Sanskrit
सदापुष्पः,
पुं,
(सदा पुष्पं यस्य ।) नारिकेलवृक्षः ।इति शब्दमाला
सर्व्वदाकुसुमयुक्ते, त्रि
(यथा, महाभारते १४ ३५ २०-२२ ।“अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः
महाभूतविशेषश्च विशेषप्रतिशाखवान् ।सदापर्णः सदापुष्पः सदाशुभफलोदयः
आजीवः सर्व्वभूतानां ब्रह्मबीजः सनातनः ।एतज्ज्ञात्वा तत्त्वानि ज्ञानेन परमासिना
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी