सदाचारः (sadAcAraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiसदाचारः
सत्-आचारः -
"सद्व्यवहार, शिष्ट आचरण"
सदाचारः
सत्-आचारः -
"मानी हुई रस्म, परंपराप्राप्त पर्व, स्मरणातीत प्रथा"
Wordnet
Sanskrit सदाचारः, साधुता
उत्तमः व्यवहारः।
"सर्वैः सह सदाचारेण वर्तितव्यम्।"
शब्दकल्पद्रुमः
Sanskritसदाचारः, (सतां साधूनामाचारः ।) साधू-नामाचरणम् । तल्लक्षणादि यथा, --“सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।तद्देवनिर्म्मितं देशं ब्रह्मावर्त्तं प्रचक्षते ॥
तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः ।वर्णानां सान्तरालानां सदाचारः स उच्यते ॥
”इति मनुः ॥
* ॥
अन्यच्च ।और्व्वौवाच ।“सदाचारेषु राजेन्द्र विशेषान् शृणु संप्रति ।यानवश्यं नृपः कुर्य्यात्तान्मत्तः सकलान् शृणु ॥
साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः ।तेषामाचरणं यत्तु सदाचारः स उच्यते ॥
आगमेषु पुराणेषु संहितासु यथोदितान् ।समुद्दिष्टसदाचारांस्तान् गृह्णीयाद्गृहस्थवत् ॥
ऋषीन् यजेद्वेदपाठैर्द्देवान् होमैस्तु पूजयेत् ।श्राद्धैः पितॄन् यजेदन्नैर्भूतानि बलिभिस्तथा ॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।सर्व्वं गृहस्थवत् कुर्य्यात् निषेकाद्यं विधिं तथा ॥
षट्कर्म्मसु नियुञ्जीत राजा विप्रान् समन्ततः ।तथैव क्षत्त्रियादीनि स्वे स्वे कर्म्मणि योजयेत् ॥
यः स्वधर्म्मं परित्यज्य परधर्मं समाचरेत् ।तं शतेन नृपो दण्ड्यः पुनस्तस्मिन्नियोजयेत् ॥
सांवत्सरेषु कृत्येषु विशेष्यैतान् समाचरेत् ।अवश्यं पार्थिवो राजन् विशेषांस्तु शृणुष्व मे ॥
शरत्काले महाष्टम्यां दुर्गायाः परिपूजनम् ।नीराजनं दशम्यान्तु कुर्य्याद्वै बलवृद्धये ॥
पौषे मासि तृतीयायां कुर्य्यात् पुष्याभिषेचनम्पूजयित्वा श्रियं देवीं श्रीपञ्चम्यां नृपश्चरेत् ॥
श्रीयज्ञं धनधान्यस्य वृद्धये नृपसत्तमः ।ज्यैष्ठे दशहरायान्तु विष्णोरिष्टं समाचरेत् ॥
रवौ हरिस्थे द्वादश्यां शक्रपूजां समाचरेत् ।विशेष्यैतांस्तु नृपतिः कुर्य्यात् सर्वं बहुव्ययैः ।एभिः कृतैर्बलं राज्यं कोषश्चापि विवर्द्धते ॥
अकृतेष्वेषु यज्ञेषु दुर्भिक्षं मरकं तथां ।जायते च नृपस्तस्मादेषु यज्ञं समाचरेत् ॥
शरत्काले महाष्टम्यां दुर्गायाः पूजने विधिः ।पुरा प्रोक्तस्तु विधिना तेन कार्य्यन्तु पूजनम् ॥
”इति कालिकापुराणे ८६ अध्यायः ॥
* ॥
अपि च ।“सदाचारे विशेषोऽयं कथितस्तव पार्थिव ! ।निषेधेषु विशेषांस्तु शृणु येन श्रियेष्यते ॥
असंपूज्य तथा विष्णुं शिवामग्निं पुरन्दरम् ।अदत्त्वा च तथा दानं न भुञ्जीयान्नृपः क्वचित् ॥
हावयेदग्निहोत्रन्तु नित्यमेव पुरोहितैः ।अहुत्वा चाग्निहोत्रन्तु भुञ्जन्नरकमाप्नुयात् ॥
नारक्षिते गृहे राजा रत्नर्द्धिपरिवर्ज्जिते ।स्वपेत्तथा स्त्रिया सार्द्धं न कदाचन संविशेत् ॥
भुक्त्वान्नं श्रीफलं नाद्यात्तथा धात्रीफलं नृपः ।बुद्धिक्षयकरा एता माष आसवमृत्तिकाः ॥
निम्बाटरूषवृत्ताश्च बुद्धिवृद्धिकरा न ताः ।बुद्धिवृद्धिहरान्नित्यं त्यजेद्राजा च भोजने ॥
भोजयेदन्वहं वुद्धिवृद्धिहेतुं नृपोत्तमः ।न पर्य्यायविहीनन्तु प्रारोहेदासनं नृपः ॥
न यानं न गजानश्वमारोहेद्वीक्ष्य ब्राह्मणम् ।नैकन्तु विचरेद्राजा कदाचिदपि निर्जने ॥
मदहेतुं न भुञ्जीयात् कदाचिदपि भोजने ॥
कदापि नोपसेवेत ह्यष्टम्यां मांसमैथुने ॥
अमास्नानं गयाश्राद्धं तिलैस्तर्पणमेव च ।न जीवत्पितृको भूपः कुर्य्यात् कृत्वाघमाप्नुयात्न क्षेत्रजादींस्तनयान् राजा राज्येऽभिषेचयेत् ।पितॄणां श्राद्धयेन्नित्यमौरसे तनये सति ॥
औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।गूढोत्पन्नोऽपविद्धश्च भागार्हास्तनया इमे ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।स्वयंदत्तश्च पोष्यश्च षडिमे पुत्त्रपांशुलाः ॥
अभावे पूर्व्व पूर्व्वेषां परान् समभिषेचयेत् ।पौनर्भवं स्वयं दत्तं दासं राज्ये न योजयेत् ॥
दत्ताद्याश्चापि तनया निजगोत्रेण संस्थिताः ।आयान्ति पुत्त्रतां सम्यगन्यबीजसमुद्भवाः ॥
पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ।आचूडान्तं न पुत्त्रः सः पुत्त्रतां याति चान्यतः ॥
चूडाद्या यदि संस्कारा निजगोत्रेण वैकृताः ।दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥
ऊर्द्ध्वन्तु पञ्चमाद्वर्षद्दत्ताद्याश्च सुता नृप ।गृहीत्वा पञ्चवर्षीयं पुत्त्रेष्टिं प्रथमं चरेत् ॥
पौनर्भवन्तु तनयं जातमात्रं समानयेत् ।कृत्वा पौनर्भवं स्तोमं जातमात्रस्य तस्य वै ॥
सर्व्वांस्तु कुर्य्यात् संस्कारान्जातकर्म्मादिकान्नरःकृते पुनर्भवस्तोमे सुतः पौनर्भवस्तथा ॥
एकोद्दिष्टं पितुः कुर्य्यान्न श्राद्धं पार्व्वणादिकम्क्रीताद्या वनिता मूल्यैः सा दासीति निगद्यते ॥
तस्यां यो जायते पुत्त्रो दासः पुत्त्रस्तु स स्मृतः ।न राज्ञो राज्यभाक् स्याद्विपुलानपि श्राद्धकृत् ।अधमः सर्व्वपुत्त्रेभ्यस्तं तस्मात् परिवर्जयेत् ॥
पुराणधर्म्मशास्त्राणि संहिताञ्च मुनीरिताम् ।नाध्यापयेन्नृपः शूद्रैर्व्विहितान्यत् यदृच्छया ॥
यस्य राज्ये सदा शूद्राः पुराणं संहितां तथा ।पठन्ति स्यान्महीनाशो राजा राष्ट्रेण सान्वयः ।मोहाद्वा कामतः शूद्रः पुराणं संहितांस्मृतिम् ।पठन्नरकमाप्नोति पितृभिः सह पापकृत् ॥
शूद्रोक्त्या विहितं यच्च यच्च मन्त्र उदाहृतः ।तद्द्वयं विप्रवदानाद्ग्राह्यं शूद्रैः सदैव हि ॥
न योजयेन्नृपः शूद्रं व्यवहारस्य दर्शने ।नियोज्य तत्र तं भूप ! तामिस्रे तेन पच्यते ।हीनायुश्च भवेल्लोको राजा चापि सहान्वयः ॥
काणं व्यङ्गमन्धपुत्त्रं वानभिज्ञमजितेन्द्रियम् ।न ह्रस्वं व्याधितं वापि नृपः कुर्य्यात्पुरोहितम् ॥
कृपणस्य धनं राजा न गृह्णीयात् कदाचन ।न द्विजानां तथा दद्याद्धनानि विपुलान्यपि ॥
नारोहेत् कामुकोन्मत्तं गजं राजा कदाचन ।आरुह्य कामुकं तन्तु परत्रेह विषीदति ॥
अनायुष्यं न कुर्य्यात्तु कर्म्म भूपः कदाचन ।सततं आयुषो वृद्ध्यै यतेत सकलैर्बलैः ॥
न क्रूरवारे नाष्टम्यां न षष्ठ्यां नृपसत्तमः ।अञ्जनाभ्यञ्जने कुर्य्यात्ताम्बूलस्यापि भोजनम् ॥
अतिसूक्ष्मं तथा पूर्णं ग्रहणं चन्द्रसूर्य्ययोः ।नालोकयेत् स्वयं राजा रक्तं सूर्य्यं तथैव च ॥
उत्पातं जायते यत्तु दिव्यं भौमञ्च नाभसम् ।नेक्षेत यत्नान्नृपतिर्दृष्ट्वा नाद्यात् त्र्यहं पनः ॥
सर्व्वदा मङ्गलं रत्नं धारयेत् सह दूर्व्वया ।अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥
न तोये स्वं मुखं पश्ये न्नाद्यान्मांसानि पर्व्वसु ।नारोहेत खरं चोष्ट्रं न वामीमपि गुर्व्विणीम् ॥
एवं नययुतो राजा चतुरङ्गं विवर्द्धयन् ।आत्सानं सततं रक्षन् सदा वीर्य्यं विवर्द्धयेत् ॥
बीजक्षयकरं नित्यं भक्ष्यं भोज्यञ्च पानकम् ।वर्ज्जयेत् क्षारशाकाद्यानत्यम्बु बहुतिक्तकम् ॥
कांस्यराजतरङ्गस्थं तोयं पानेऽप्यवर्द्धनम् ।मूत्रवृद्धिकरं बीजक्षयकारि विवर्ज्जयेत् ॥
ताम्रायःस्वर्णसीसानां पात्रस्थं फलचर्म्मणोः ।शुक्रवृद्धिकरं तोयं तदुपासीत यत्नतः ॥
सर्व्वमूलेषु कृत्येषु सदाचारेखनुष्ठितः ।भुक्त्वेह विविधान् भोगानैन्द्रं स्थानं व्रजेत् परे ॥
श्रीमार्कण्डेय उवाच ।एवमौर्व्वस्तु सगरं शशास मुनिपुङ्गवः ।शास्त्राणि चैव सर्व्वाणि सदाचारान् संगुह्य-कान् ।बहुशः कथयामास सगराय महात्मने ॥
तन्नास्ति यत् पुरौर्व्वेण कथितं सगराय न ।राजनीतिः सतां नीतिर्यच्चान्यच्छास्त्रसम्भवम् ॥
संहितासु पुराणेषु यच्चागमचये स्थितम् ।सर्व्वं शुश्राव सगरो मुखादौर्व्वस्य धीमतः ॥
तेषान्तु कथितं किञ्चिदुद्धृत्य द्विजसत्तमाः ।विष्णुधर्म्मोत्तरे पूर्वं मया रहसि भारते ॥
राजनीतिं सदाचारं वेदवेदाङ्गसङ्गतम् ।रहस्यं सततं विष्णोर्वीक्षध्वं द्विजसत्तमाः ॥
यच्चानुदितमन्यत्र गदितं वा ससंशयम् ।संशयच्छेदनं तेषु युष्मभ्यं कथितं त्विदम् ॥
अनुक्तं संशयच्छेदि पुराणं कालिकाह्वयम् ।योऽभ्यसेत् सततं विप्रः स वेदानां फलं लभेत् ॥
”इति श्रीकाकिपुराणे ८९ अध्याये राजनीति-सदाचारादिकं समाप्तम् ॥
* ॥
अन्यच्च ।ऋषय ऊचुः ।“सदाचारो निगदितस्तव योऽस्माभिरादरात् ।लक्षणं तस्य वक्ष्यामस्तच्छृणुष्व निशाचर ॥
गृहस्थेन सदा कार्य्यमाचारपरिपालनम् ।न ह्याचारविहीनस्य भद्रमत्र परत्र च ॥
यज्ञदानतपांसीह पुरुषस्य न भूतये ।भवन्ति यः समुल्लङ्घ्य सदाचारं प्रवर्त्तते ॥
दुराचारो हि पुरुषो नेह नामुत्र नन्दति ।कार्य्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥
तस्य स्वरूपं वक्ष्यामः सदाचारस्य राक्षस ।शृणुष्वैकमनास्त्वञ्च यदि श्रेयो हि वाञ्छसि ॥
धर्म्मोऽस्य मूलं धनमस्य शाखापुष्पञ्च कामः फलमस्य मोक्षः ।असौ सदाचारतरुः सुकेशिन्संसेवितो येन स पुण्यभोक्ता ॥
ब्राह्मे मुहुर्त्ते प्रथमे विबुध्येदनुस्मरेद्देववरं महर्षीन् ।प्राभातिकं मङ्गलमेव वाक्यंयदुक्तवान् देवपतिस्त्रिनेत्रः ॥
सुकेशी उवाच ।किं तदुक्तं सुप्रभातं शङ्करेण महात्मना ।प्रभाते यत् पठन् मर्त्यो मुच्यते पापबन्धनात् ॥
ऋषय ऊचुः ।श्रूयतां राक्षसश्रेष्ठ सुप्रभात हरोदितम् ।श्रुत्वा स्मृत्वा पठित्वा च सर्व्वपापैः प्रमुच्यते ॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारीभानुः शशी भूमिसुतो बुधश्च ।गुरुः सशुक्रः सह भानुजेनकुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
भृगुर्वशिष्ठः क्रतुरङ्गिराश्चमनुः पुलस्त्यः पुलहः सगोतमः ।रैभ्यो मरीचिश्च्यवनो रिभुश्चकुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
सनत्कुमारः सनकः सनन्दनःसनातनोऽप्यासुरिपिङ्गलौ च ।सप्तस्वराः सप्त रसातलाश्चकुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
पृथ्वी सुगन्धा सरसास्तथापःसस्यर्शवायुर्ज्वलितञ्च तेजः ।नभः सशब्दं महता सहैवकुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
सप्तार्णवाः सप्त कुलाचलाश्चसप्तर्षयो द्वीपवराश्च सप्त ।भूरादि कृत्वा भुवनानि सप्तकुर्व्वन्तु सर्व्वे मम सुप्रभातम् ॥
इत्थं प्रभाते परमं पवित्रंयः संस्मरेद्वा शृणुयाच्च भक्त्या ।दुःस्वप्ननाशो ननु सुप्रभातेभवेच्च सत्यं भगवत्प्रसादात् ॥
ततः समुत्थाय विचिन्तयेच्चधर्मं तथार्थञ्च विहाय शय्याम् ।उत्थाय पश्चाद्धरिरित्युदीर्य्यगच्छेत्तदोत्सर्गविधिं हि क्वर्त्तुम् ॥
न देवगोब्राह्मणवह्निमार्गेन राजमार्गे न चतुष्पथे च ।कुर्य्याद्यथोत्सर्गमपीह गोष्ठेप्रच्छाद्य शीर्षं मुखनासिकञ्च ॥
ततश्च शौचार्थमुपाहरेन्मृदंगुदे त्रयं पाणितले च सप्त ।तथोभयोः पञ्च चतुस्तथैकांलिङ्गे तथैकां मृदमाहरेच्च ॥
नान्तर्ज्जलाद्राक्षसमूषिकस्थला-न्न चावशिष्टा सदनादिभग्ना ।वल्मीकमृच्चैव हि शौचनायग्राह्या सराचारविदा नरेण ।उदङ्मुखः क्षाल्य पदौ भुविस्थःसमाचमेदद्भिरफेनिलाभिः ।आचम्य च त्रिः परिमृज्य च द्वि-स्ततः स्पृशेच्चात्मशिरः करेण ॥
सन्ध्यां स निर्वर्त्त्य ततः क्रमेणकेशांश्च संशोध्य च दन्तधावनम् ।कृत्वा तथा दर्पणदर्शनञ्चकृत्वा शिरःस्नानमथाह्निकञ्च ॥
संपूज्य तोयेन पितॄन् सदेवान्होमञ्च कृत्वालभनं शुभानाम् ।कृत्वा बहिर्निर्गमणं प्रशस्तंदूर्व्वां दधि सर्पिरथोदकुम्भम् ॥
धेनुं सवत्सां वृषभं सुवर्णंमृद्गोमयं स्वस्तिकमक्षतानि ।लाजा मधु ब्राह्मणकन्यकाश्चश्वेतानि पुप्पाण्यथ शोभनानि ॥
हुताशनं चन्दनमर्कविम्ब-मश्वत्थवृक्षञ्च समालभेत ।ततस्तु कुर्य्यान्निजजातिधर्म्मंदेशानुशिष्टं कुलधर्म्ममग्र्यम् ॥
स्वगोत्रधर्म्मं न हि सन्त्यजेततेनापि सिद्धिं समुपाचरेत ।नासत्प्रलापं न च सत्यहीनंन निष्ठुरं नागमशास्त्रहीनम् ॥
वाक्यं वदेत् साधुजनेन येननिन्द्यो भवेन्नैव च धर्म्मभेदी ।सङ्गं न चासत्सु जनेषु कुर्य्यात्सन्ध्यासु भक्ष्यं सुरतं दिवा च ।सर्व्वासु योनीषु पराबलासुरजस्वलास्वेव जलेषु धीरः ॥
वृथाटनं वृथादानं वृथा च पशुमारणम् ।न कर्त्तव्यं गृहस्थेन वृथा दारपरिग्रहम् ॥
वृथाटनान्नित्यहानिर्वृथादानाद्धनक्षयः ।वृथापशुघ्नः प्राप्नोति घातनान्नरकं महत् ॥
सन्तत्या हानिरश्लाघ्या वर्णसङ्करतो भयम् ।भेतव्यञ्च भवेल्लोके वृथादारपरिग्रहात् ॥
परस्वे परदारे च न कार्य्या बुद्धिरुत्तमैः ।परस्वं नरकायैव परदाराश्च मृत्यवे ॥
नेक्षेत् परस्त्रियं नग्नां न सम्भाषेच्च तस्करान् ।उदक्त्या दर्शनं स्पर्शं सम्भाषाञ्च विवर्जयेत् ॥
नैकासने तथा स्थेयं सुन्दर्य्या परजायया ।तथैव् अस्यान्न मातुश्च तथैव दुहितुस्त्वपि ॥
न भार्य्या वीक्ष्यते नग्ना पुरुषेण कदाचन ।न च स्नायीत वै नग्नो न शयीत कदाचने ॥
दिग्वाससोऽपि न तथा परिभ्रमणमिष्यते ।भिन्नासनं भाजनादीन् दूरतः परिवर्जयेत् ॥
नन्दासु नाभ्यङ्गमुपाचरेतक्षौरञ्च रिक्तासु जयासु माषम् ।पूर्णासु योषित् परिवर्जनीयाभद्रासु सर्व्वाणि समालभेत ॥
नाभ्यङ्गमर्के न च भूमिपुत्त्रेक्षौरञ्च शुक्रे रविजे च मांसम् ।बुधेषु योषिन्न समाचरेतशेषेषु सर्व्वाणि सदैव कुर्य्यात् ॥
चित्रासु हस्ते श्रवणेषु तैलं ।क्षौरं विशाखास्वभिजित्सु वर्ज्यम् ।मूले मृगे भाद्रपदासु मांसंयौषिन्मघाकृत्तिकयोत्तरासु ॥
सदैव वर्ज्यं शयने ह्युदक्शिर-स्तथा प्रतीच्यां रजनीचरेश ।भुञ्जीत नैवेह च दक्षिणामुखोन च प्रतीचीममिभोजनीयम् ॥
देवालयं चैत्यतरुं चतुष्पथंविद्याधिकञ्चापि गुरुं प्रदक्षिणम् ।कुर्य्यान्न वामं गमने च धीमान्द्विजान् मृगान् गाश्च निशाचरेश ॥
माल्यानुलेपं वसनानि यत्नतोनान्यैर्धृतान्येव हि धारयेत ।स्नायाच्छिरःस्नानतया च नित्यंनिष्कारणं चैव विना निशामु ॥
ग्रहोपरागे स्वजनामिघातेमुक्ता च जन्मर्क्षगते शशाङ्के ।नाव्यङ्गितं कायमुपस्पृशेच्चस्नातो न केशान् विधुनीत चापि ॥
गात्राणि चैवाम्बरपाणिना चस्नातोऽवमृज्यद्रजनीचरेश ।वसेच्च देशेषु सुराजकेषुसुसंहितस्वीयजनेषु नित्यम् ॥
अक्रोधना न्यायपरा अमत्सराःकृषीबला ह्यौषधिजातयश्च ।न तेषु देशेषु वसेच्च बुद्धिमान्यस्मिन्नृपो दण्डरुचिस्त्वशक्तः ।जनोऽपि नित्योत्सवबद्धवैरःसदा जिगीषुश्च निशाचरेन्द्र ॥
ऋचय ऊचुः ।यन्न भोज्यं महाबाहो सदा धर्म्मस्थितैर्नरैः ।यद्भोज्यञ्च समुद्दिष्टं कथयिष्यामहे वयम् ।त्यज्यमन्नं पर्य्युषितं स्नेहाक्तं चिरसंभृतम् ।अस्नेहा व्रीहयः श्लक्ष्णा विकाराः पायसा-स्तथा ॥
शशकः शल्लको गोधा तथा खङ्गी च कच्छपः ।तद्वद्द्विदलकादीनि भोज्यानि मनुरब्रवीत् ॥
मणिवस्त्रप्रबालानां तद्वन्मुक्ताफलस्ये च ।शैलदारुमयानाञ्च तृणगुल्मौषधस्य च ॥
शाकधान्याजिनानाञ्च संहतानाञ्च वाससाम् ।बल्कलानामशेषाणामम्बुना शुद्धिरिष्यते ॥
सस्नेहानामयोष्णेन तिलकल्केन चाविकम् ।कार्पासिकानां वस्त्राणां शुद्धिः स्यात् सहभस्मना ॥
नागदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यत ।पुनःपाकेन भाण्डानां मृण्मयानाञ्च शुद्धता ॥
शुद्धं भैक्ष्यं कारुहस्तः पुण्यं योषिन्मुखं तथा ।रथ्यागतमविज्ञातं दासवर्गेण यत् कृतम् ॥
वाक्यपूतं चिरानीतमनेकान्तरितं लघु ।चेष्टितं बालवृद्धानां बालस्य तु मुखं शुचि ॥
म्लेच्छानामपि गोशाला स्तनन्धयसुता स्त्रियः ।वाग्विप्रुषो द्विजेन्द्राणां पाठे वागम्बुबिन्दवः ॥
भूमिर्व्विशुध्यते खातदाहगोक्रमसेचनैः ।लेपादुल्लेखनात् सेकात् वेश्मसम्मार्ज्जनाज्जलात् ॥
केशकीटावपन्नेऽन्ने गोघ्राते मक्षिकान्विते ।मृद्वारिभस्मक्षाराणि प्रक्षेप्तव्यानि शुद्धये ॥
उडुम्बराणाञ्चाम्लेन क्षारेण त्रपुसीसयोः ।कांस्यानां भस्मना शुद्धिस्तोयाच्छुद्धिर्द्रवस्य च ॥
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ।अन्येषामपि तद्द्रव्ये शुद्धिर्गन्धावहारतः ॥
मातुः प्रसवने वत्सः शकुनिः फलपातने ।गर्द्दभो भारहारित्वे श्वा मृगग्रहणे शुचिः ॥
रथ्याकर्द्दमतोयानि गावः पथि तृणानि च ।मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥
शृतं द्रोणाढकस्यान्नममेध्याभिप्लुतं भवेत् ।अग्रमुद्धृत्य सन्त्येज्यं शेषस्य प्रोक्षणं स्मृतम् ॥
उपवासं त्रिरात्रं वा दूषितान्नस्य भोजने ।अज्ञाते ज्ञातपूर्व्वे च नैव शुद्धिर्व्विधीयते ॥
उदक्याश्च तु नग्नाश्च सूतिकान्तावशायिनः ।स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥
सस्नेहमस्थि संस्पृश्य सवासाः स्नानमाचरेत् ।आलभ्यैव तु निस्नेहं गामालभ्यार्कमीक्ष्य च ॥
न लङ्घयेत् नरं कृष्णवर्त्मानं दुर्ब्बलं तथा ।गृहादुच्छिष्टविण्मूत्रपादाद्भांसि क्षिपेद्वहिः ॥
पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि ।स्नायीत देवखातेषु सरोह्रदसरित्सु च ॥
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ।नालपेज्जनविद्विष्टं वीरहीनां तथा स्त्रियाम् ॥
देवतापितृसच्छास्त्रयज्ञसत्रादिनिन्दकैः ।कृत्वा तु स्पर्शनालापं शुध्यतेऽर्कावलोकनात् ॥
अभोज्याः सूतिकाषण्ढमार्ज्याराखुश्वकुक्वुटाःपतितापविद्धनग्नाश्च चाण्डालाश्चाधमाश्च ये ॥
सुकेशी उवाच ।भवद्भिः कीर्त्तिता भोज्या य एते सूतिकादयः ।अमीषां श्रोतुमिच्छामि तत्त्वतो लक्षणानि च ॥
ऋषय ऊचुः ।ब्राह्मणी ब्राह्मणश्चैव यावच्छेषत्वमागतौ ।ताबभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥
न जुहोत्युचिते काले न स्नाति च ददाति च ।पितृदेवार्च्चनाद्धीनः स षण्ढः परिगीयते ॥
दम्भार्थं जपते यश्च तप्यते यजते तथा ।न परत्रार्थमुद्युक्तो मार्ज्जारः परिकीर्त्तितः ॥
विभवे सति नैवात्ति न ददाति जुहोति च ।तमाहुराखुं तस्यान्नं भुक्त्वा कृच्छ्रेण शुध्यति ॥
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।तामाहुः कुक्कुटं देवास्तस्याप्यन्नं विगर्हितम् ॥
स्वधर्म्मं यः समुत्सृज्य परधर्म्मं समाचरेत् ।अनापदि स विद्वद्भिः पतितः परिकीर्त्त्यते ॥
वेदत्यागी पितृत्यामी गुरुवह्न्युह्यकस्तथा ।गोब्राह्मणस्त्रीवधकृदपविद्धः स उच्यते ॥
येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् ।ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥
आशार्त्तानामदाता च दातुश्च प्रतिषेधकः ।शरणागतं यस्त्यजति स चाण्डालाधमो नरः ॥
यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि ।कुण्डाशी यश्च अस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥
यो नित्यकर्म्मणो हानिं कुर्य्यान्नैमित्तिकस्य च ।भुक्त्वान्नं तस्य शुध्येत त्रिरात्रोपोषितो नरः ॥
नित्यस्य कर्म्मणो हानिः केवलं मृतजन्मसु ।न तु नैमित्तिकोच्छेदः कर्त्तव्यो हि कथञ्चन ॥
जाते पुत्त्रे पितुः स्नानं सचेलस्य विधीयते ।मृते च सर्व्वबन्धूनामित्याह भगवान् भृगुः ॥
प्रेताय सलिलं देयं बहिर्द्दग्ध्वा तु गोत्रजैः ।प्रथमेऽह्नि चतुर्थे वा सप्तमे वास्थिसञ्चयम् ॥
ऊर्द्ध्वं सञ्चयनात्तेषामङ्गस्पर्शो विधीयते ।सोदकैस्तु क्रिया कार्य्या अशुद्धैस्तु सपिण्डकैः ॥
विषोद्वन्धनशस्त्राम्बुवह्निपातमृतेषु च ।तथा गृहीतसन्न्यासे देशान्तरमृते तथा ॥
मद्यःशौचं भवेद्विद्वन् तच्चाप्युक्तं चतुर्व्विधम् ।गर्भम्रावे तदेवोक्तं पूर्णकाले न वै चरेत् ॥
ब्राह्मणानामहोरात्रं क्षत्त्रियाणां दिनत्रयम् ।षड्रात्रं चैव वैश्यस्य शूद्राणां द्वादशाह्निकम् ॥
दशद्वादशमासार्द्धं माससंख्यादिनैश्च तैः ।स्नात्वा कर्म्मक्रियाः कुर्य्युः सर्व्वे वर्णा यथाक्रमम् ॥
प्रेतमुद्दिश्य कर्त्तव्यमेकोद्दिष्टं विधानतः ।सपिण्डीकरणं कार्य्यं प्रेतस्य वत्सरान्तरैः ॥
ततः पितृत्वमापन्ने दर्शपौर्णादिभिः शुभैः ।प्रीणनन्तस्य कर्त्तव्यं यथाश्रुतिनिदर्शनम् ॥
पितुरर्थं समुद्दिश्य भूमिकोषादिकञ्च यत् ।कुर्य्याद्येनास्य सुप्रीता पितरो यान्ति राक्षस ॥
यद्यदिष्टनमं किञ्चित् यच्चास्य दयितं गृहे ।तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥
अध्येतव्या त्रयी नित्यं भाव्यञ्च विदुषा सदा ।धर्म्मतो धनमाहार्य्यं यष्टव्यञ्चापि शक्तितः ॥
आचारं कुर्व्वतो नात्मा जुगुप्सामेति राक्षस ।तत् कर्त्तव्यमशङ्केन यत्न गोप्यं महाजने ॥
एवमाचर्तो लोके पुरुषस्य गृहे सतः ।धर्म्मार्थकामसंप्राप्तिः परत्रेह च शोभना ॥
एष तूद्देशतः प्रोक्तो गृहस्थाश्रम उत्तमः ॥
* ॥
वानप्रस्थाश्रमं धर्म्मं ते वक्ष्यामोऽवधार्य्यताम् ।अपत्यसन्ततिं दृष्ट्वा प्राज्ञो देहस्य चायतिम् ।वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् ॥
तत्रारण्योपभोगेन तपोभिश्चात्मकर्षणम् ।भूमौ शय्या ब्रह्मचर्य्यं पितृदेवातिथिक्रिया ॥
होमस्त्रिसवनस्नानं जटावल्कलधारणम् ।वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥
* ॥
सर्व्वसङ्गपरित्यागो ब्रह्मचर्य्यममानिता ।जितेन्द्रियत्वमावासे नैकस्मिन् वसते चिरम् ॥
अनारम्भस्तथाहारे भिक्षा विप्रे ह्यनिन्दिते ।आत्मज्ञानं विवेकश्च तथाह्यात्मावबोधनम् ॥
चतुर्थे चाश्रमे धर्म्मा ह्यस्माभिस्ते प्रकीर्त्तिताः ॥
वर्णधर्म्माणि चान्यानि निशामय निशाचर ॥
गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः ।क्षत्त्रियस्यापि गदिता य आचारो द्विजस्य हि ॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः ।गार्हस्थमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ॥
स्वानि वर्णाश्रमोक्तानि धर्म्माणीह न हापयेत् ।यो हापयति तस्यासौ परिकुप्यति भास्करः ॥
कुपितः कुलनाशाय देहरोगविवृर्द्धये ।वर्ष्माशु पतते तस्य नरस्य क्षणदाचर ॥
तस्मात् स्वधर्म्मं न हि संत्यजेतन हापयेच्चापि तथात्सवंशम् ।यः संत्यजेच्चापि निजं हि धर्मंतस्मै प्रकुप्येत दिवाकरश्च ॥
पुलस्त्य उवाच ।इत्येवमुक्तो मुनिभिः सुकेशीप्रणम्य तान् ब्रह्मऋषीन्महर्षीन् ।जगाम चोत्पत्य पुरं स्वकीयंमुहुर्मुहुर्धर्म्ममवेक्षमाणः ॥
”इति श्रीवामनपुराणे १४ अध्यायः ॥
* ॥
अन्यत् पाद्मे स्वर्गखण्डे २९ । ३० । ३१ अध्या-येषु विष्णुपुराणे ३ अंशे ११ अध्याये मार्कण्डेय-पुराणे सदाचारनामाध्याये चालोकनीयम् ।(सन् साधुराचारो यस्य । सदाचारणशीले, त्रि । यथा, कथासरित्सागरे । २ । ७ ।“कात्थायनो जगादैनमुपविष्टः क्षणान्तरे ।सदाचारो भवानेवं कथमेतां गतिं गता ॥
”)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
