| YouTube Channel

सत्यानृतं (satyAnRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
सत्यानृतं,
क्ली,
बाणिज्यम् इत्यमरः किञ्चित्सत्यं किञ्चदसत्यं सत्यसहितमनृतं वा यत्र ।इति भरतः
(यथा, मनुः ।“सत्यानृतञ्च बाणिज्यं तेन चैवापि जीव्यते ।सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्ज्जयेत्
”सत्यञ्चानृतञ्चेति द्वन्द्वे कृते द्विवचनप्रयोगःस्यात् यथा, वाजसनेयसंहितायाम् १९ ७७ ।“दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः
”)
वाचस्पत्यम्
Sanskrit
सत्यानृतं
न०
सत्यसहितमनृतं यत्र बणिग्वृत्तौ बाणिज्येअमरः