| YouTube Channel

सत्यरतः (satyarataH)

 
शब्दकल्पद्रुमः
Sanskrit
सत्यरतः,
पुं,
(सत्ये रतः ।) सत्यव्रतराजपुत्त्रः ।यथा, --“त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः ।तस्य सत्यव्रतो नाम तस्मात् सत्यरतः स्मृतः
तस्य पुत्त्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः ।”इति मात्स्ये १२ अध्यायः