| YouTube Channel

सत्ययुगं (satyayugaM)

 
शब्दकल्पद्रुमः
Sanskrit
सत्ययुगं,
क्ली,
(सत्यं युगम् ।) चतुर्युगानां प्रथम-युगम् यथा, --“कृतं सत्ययुगं त्रेताग्नायी द्वापरयज्ञियौ ।कलिर्झर्झरकः कर्म्मयुगं पापन्तु पातकम्
”इति त्रिकाण्डशेषः
*
तस्य कृतनामकारणं यथा, --“तदुपाधिकृतः कालो ब्रह्मणो जन्ममृत्युकृत् ।शतसंवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि
लयान्ते तन्नाभिमध्यादुत्थितः सृजति प्रभुः ।ततः कृतयुगान्तेऽहं कालं सद्धर्म्मपालकम्
कृतकृत्याः प्रजा यत्र तन्नाम्ना मां कृतं विदुः
”इति कल्किपुराणे १९ अध्यायः
*
तद्धर्म्मा यथा, --“धर्म्मश्चतुष्पादमवत् कृते पूर्णे जगत्त्रयम् ।देवा यथोक्तफलदाश्चरन्ति भुवि सर्व्वतः
सर्व्वशस्या वसुमती हृष्टपुष्टजनावृता ।शाठ्यचौर्य्यानृतैर्हीना आधिव्याधिविवर्ज्जिता
विप्रा वेदविदह् सुमङ्गलयुता नार्य्यस्तु चर्य्याव्रतैःपूजाहोमपराः पतिव्रतधरा यागोद्यताःक्षक्षियाः ।वैश्या वस्तुषु धर्म्मतो विनिमयैः श्रीविष्णुपूजा-पराःशूद्रास्तु द्विजसेवनाद्धरिकथालापाः सपर्य्या-पराः
”इति कल्किपुराणे २८ अध्यायः
*
तद्युगमानं यथा, “चत्वारि त्रीणि द्वे चैकं कृत्यादिषु यथाक्रमम्संख्यातानि सहस्राणि द्विगुणानि शतानि
”इति श्रीभागवते १२ स्कन्धे अध्याये श्लोक-टीकायां श्रीधरस्वामी
तस्योत्पत्त्यादिर्यथा ।वैशाखशुक्लपक्षे तृतीयायां रविवारे सत्य-युगोत्पत्तिः तत्रावतारचतुष्टयं मत्स्यकूर्म्म-वराहनृसिंहाः पूर्णं पुण्यम् पापं नास्ति ।कुरुक्षेत्रं तीर्थम् ग्रहांशो ब्राह्मणः मज्जा-गताः प्राणाः इच्छामृत्युः एकविंशति-हस्तपरिमितो मानवदेहः लक्षवर्षं परमायुः ।सुवर्णनिर्म्मितभोजनपात्रम् सत्ययुगाब्दाः१७२८००० सत्ययुगस्य राजा बलिः वेणःमान्धाता पुरोरवा धुन्धुमारिकः कार्त्तवीर्य्यःएते षट् चक्रवर्त्तिनः
सत्ययुगस्य लक्षणम् ।“सत्यधर्म्मरतो नित्यं तीर्थानाञ्च सदाश्रयम् ।नन्दन्ति देवताः सर्व्वाः सत्ये सत्यपरा नराः
”तत्र तारकब्रह्मनाम यथा, --“नारायणपरा वेदा नारायणपराः क्षराः ।नारायणपरा मुक्तिर्नारायणपरा गतिः
”इति मुद्राङ्कितपञ्जिकातः संगृहीतम्