| YouTube Channel

सत्यनारायण (satyanArAyaNa)

 
Monier Williams Cologne
English
सत्य—नारायण
m.
N.
of a partic. divinity (called Satyapīr in Bengālī),
MW.
शब्दकल्पद्रुमः
Sanskrit
सत्यनारायणः,
पुं,
(सत्यो नारायणः ।) देवता-विशेषः सत्यपीर इति भाषा तस्य व्रतकथायथा, --“एकदा मुनयः सर्व्वे सर्व्व लोकहिते रताः ।सुरम्ये नैमिषारण्ये गोष्ठीञ्चक्रुर्म्मनोरमाम्
तत्रान्तरे महातेजा व्यासविष्यो महायशाः ।सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन्
तमायान्तं समालोक्य सूतं शास्त्रार्थपारगम् ।नेमुः सर्व्वे समुत्थाय शौनकाद्यास्तपोधनाः
सोऽपि तान् सहसा भक्त्या मुनीन् परमवैष्णवान्ननाम दण्डवद्भूमौ सर्व्वधर्म्मविदांवरः
वरासने महाबुद्विस्तैर्द्दत्ते मुनिपुङ्गवैः ।उवास सभामध्ये सर्व्वैः शिष्यगणैवृतः
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः ।बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः
शौनक उवाच ।महर्षे सूत सर्व्वज्ञ कलिकाले समागते ।केनोपायेन भगवन् हरिभक्तिर्भवेन्नृणाम्
कलौ सर्व्वे भविष्यन्ति पापकर्म्मपरायणाः ।वेदविद्याविहिनाश्च तेषां श्रेयः कथं भवेत्
कलावन्नगतप्राणा लोकाः स्वल्पायुषस्तथा ।निधनाश्च भविष्यन्ति नानापीडाप्रपीडिताः
प्रयाससाध्यं सुकृतं शास्त्रेषु श्रूयते द्विज ।तस्मात् केऽपि करिष्यन्ति कली सुकृतं जनाः
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्म्मणि ।सवंशाः प्रलयं सर्व्वे गमिष्यन्ति दुराशयाः
स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम
यथा भवेन्महापुण्यं तथा कथय सूत नः
यस्योपदेशतः पुण्यं पापं वा कुरुते जनः ।स तद्भागी भवेन्मर्त्त्य इति शास्त्रेषु निश्चितम्
पुण्योपदेशी सदयः कैतवैश्च विवर्ज्जितः ।पापायनविरोधी चत्वारः केशवोपमाः
ज्ञानं संप्राप्य संसारे यः परेभ्यो यच्छति ।ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते
ज्ञानरत्नैश्च रत्रैश्च परसन्तोषकृन्नरः ।स ज्ञेयः सुकृतिर्नूनं नररूपधरो हरिः
व्रतेन तपसा किंवा प्राप्यते वाञ्छितं फलम् ।सर्व्वं तत् श्रोतुमिच्छामि कथयस्व महामते
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः ।त्वदृते नहि वक्तान्यो यतस्त्वं व्यासशासितः
सूत उवाच ।धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः ।यतः समस्तलोकानां हितं वाच्छसि सर्व्वदा ।शृणु शौनक वक्ष्यामि यत् त्वया श्रोतुमिष्यते
नारदेनैवमुक्तः सन् भगवान् कमलापतिः ।सुरर्षये यथैवाह तत् शृणुष्व समाहितः
*
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।पर्य्यटन् विविधान् लोकान् मर्त्त्यलोकमुपागतम्
तत्र दृष्टा जनाः सर्व्वे नानादुःखसमन्विताः ।नानायोनिसमुत्पन्नाः क्लिश्यन्ते पापकर्म्मभिः
केनोपायेन चैतषां दुःखनाशो भवेद्ध्रुवम् ।इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा
तत्र नारायणं देवं शुक्लवणं चतुर्भुजम् ।शङ्खचक्रधरं देवं वनमालाविभूषितम्
दृष्ट्वा तं देवदेवेशं स्तोतुं समुपचक्रमे ।नारद उवाच ।नमस्ते वाङ्मनोऽतीतरूपायानन्तशक्तये ।आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने
सर्व्वेषामादिभूताय भक्तानामार्त्तिनाशिने ।श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत
श्रीभगवानुवाच ।किमर्थमागतोऽसि त्वं किन्ते मनसि वर्त्तते ।कथयस्व महाभाग तत् सर्व्वं कथयामि ते
नारद उवाच ।मर्त्त्यलोके जनाः सर्व्वे नानाशोकसमन्विताः ।नानायोनिसमुत्पन्नाः पच्यन्ते पापकर्म्मणा
तत् कथं शमयेन्नाथ लघूपायेन तद्वद ।श्रोतुमिच्छामि तत् सर्व्वं कृपास्ति यदि ते मयिश्रीभगवानुवाच ।साधु पृष्टं त्वया वत्स ! लोकानुग्रहकाम्यया ।यत् कृत्वा मुच्यते मोहात् तत् शृणुष्व वदामि तेव्रतमस्ति महापुण्यं स्वर्गे भुवि दुर्लभम् ।तव स्नेहान्मया विप्र प्रकाशीक्रियतेऽधुना
*
सत्यनारायणस्यैतद्व्रतं सम्यग्विधानतः ।कृत्वा सद्यः सुखं भुक्त्वा परत्र मोक्षमालभेत्
तत् श्रुत्वा भगद्वाक्यं नारदः पुनरब्रवीत्
किं फलं किं विधानञ्च कृतं केनेति वा व्रतम् ।तत् सर्व्वं विस्तराद्ब्रूहि कदा कार्य्यं हि तद्-व्रतम्
श्रीभगवानुवाच ।दुःखशोकादिशमनं धनधान्यविवर्द्धनम् ।सौभाग्यसन्ततिकरं सर्व्वत्र विजयप्रदम्
यस्मिन् कस्मिन् दिने मर्त्त्यो भक्तिश्रद्धासमन्वितःसत्यनारायणं देवं यजेत्तुष्टो निशामुखे
बान्धवैर्ब्राह्मणैश्चैव सहितो धर्म्मतत्परः ।नैवेद्यं भक्तितो दद्यात् सपादं भक्ष्यमुत्तमम्
रम्भाफलं घृतं क्षीरं गोधूमस्य चूर्णकम् ।अभावे शालिचूर्णं वा शर्करां वा गुडं तथा
सपादसर्व्वभक्ष्याणि एकीकृत्य निवेदयेत् ।विप्राय दक्षिणां दद्यात् कथां श्रुत्वा जनैः सह
ततश्च बन्धुभिः सार्द्धं विप्रेभ्यः प्रतिपादयन् ।प्रसादं भक्षयेत् भक्त्या नृत्यगीतादिकं चरेत्
ततः स्तुत्वा गृहं गच्छेत् सत्यनारायणं स्मरन् ।एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद्ध्नुवम्
विशेषतः कलियुगे नान्योपायोऽस्ति भूतले ।कथामस्य प्रवक्ष्यामि कृतकृत्यो भवेत् द्विजः
*
कश्चित् काशीपुरे ग्रामे आसीद्विप्रश्च निर्द्धनः ।क्षुधातृष्णाकुलो भूत्वा सततं भ्रमते महीम्
दुःखितं ब्राह्मणं दृष्ट्वा भगवान् ब्राह्मणप्रियः ।वृद्धब्राह्मणरूपः सन् पप्रच्छ द्विजमादरात्
किमर्थंभ्रमसे विप्र ! महीं कृत्खाञ्च दुःखितः ।तत् सर्व्वं श्रोतुमिच्छामि कथ्यतां यदि रोचते
विप्र उवाच ।ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं भ्रमते महीम्उपायं यदि जानासि कृपया कथय प्रभो
वृद्ध उवाच ।सत्यनारायणो देवो वाञ्छितार्थफलप्रदः ।तस्य त्वं द्विजशार्द्दूल कुरुष्व व्रतमुत्तमम्
यत् कृत्वा सर्व्वदुःखेभ्यो मुक्तो भवति मानवः
विधानञ्च व्रतस्यास्य विप्रायाभाष्य यत्नतः ।सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत
ततः प्रातः करिष्यामि व्रतं मनसि चिन्तितम्इति सञ्चिन्त्य विप्रोऽसौ रात्रौ निद्रां चाल-भत्
ततः प्रातः समुत्थाय सत्यनारायणव्रतम् ।करिष्येऽहञ्च सङ्कल्प्य भिक्षार्थमगमद्द्विजः
तस्मिन्नेव दिने विप्रः प्रचुरं प्राप्तवान् धनम् ।तेनैव बन्धुभिः सार्द्धं सत्यस्य व्रतमाचरत्
सर्व्वदुःखविनिर्म्मुक्तः सर्वसम्पत्समन्वितः ।बभूव द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ।ततः प्रभृतिकालञ्च मासि मासि व्रतं कृतम्
सूत उवाच ।एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तमः ।सर्वपापविनिर्मुक्तो दुर्ल्लभं मोक्षमाप्नुयात्
व्रतञ्च तद्यथा विप्रः पृथिव्यां सञ्चरिष्यति ।तदैतत् सर्वदुःखं हि तराणाञ्च विनश्यति
एवं नारायणेनोक्तं नारदाय महात्मने ।मयापि कथितं विप्र किमन्यत् कथयामि ते
”इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायण-विप्रसंवादो नाम अध्यायः
*
शौनक उवाच ।“तस्माद्विप्र व्रतं केन पृथिव्यां चरितं मुने ।तत् सर्वं श्रोतुमिच्छामि श्रद्वास्माकं प्रजायते
सूत उवाच ।शृणुध्वं मुनयः सर्वे तस्माद्येन कृतं भुवि ।एकदास द्विजवरो यथाविभवविस्तरेः
बन्धुभिः स्वजनैः सार्द्धं व्रतं कर्त्तुं समुद्यतः ।एतस्मिन्नेव काले तु काष्ठकेतुः समागतः ।बहिः काष्ठञ्च संस्थाप्य विप्रस्य मन्दिरं ययौ
तृष्णया पीडितात्मा विप्रं दृष्ट्वा तथाविधम् ।प्रणिपत्य द्विजश्रेष्ठं किमिदं क्रियते त्वया ।कृते किं फलमाप्नोति विस्तराद्वद मे प्रभो
विप्र उवाच ।सत्यनारायणस्येदं व्रतं सर्व्वेप्सितप्रदम् ।दुःखशोकादिशमनं सर्वत्र विजयप्रदम्
धनादिसन्ततिकरं सर्वेषामीप्मितप्रदम् ।यस्य प्रसादान्मे सर्वं धनधान्यादिकं महत्
ततस्तु व्रतं ज्ञात्वा काष्ठकर्त्तातिहर्षितः ।पपौ जलं प्रसादञ्च भुक्त्वा तन्नगरं ययौ
सत्यनारायणं देवं चिन्तयन् स्थिरमानसः ।काष्ठं विक्रीय नगरे प्राप्स्यते चाद्य यद्धनम् ।तेनैव सत्यदेवस्य व्रतमद्य करोम्यहम्
इति सञ्चिन्त्य मनसा काष्ठं कृत्वा तु मस्तके ।जगाम नगरे रम्य धनिनां यत्र सस्थितिः ।तद्दिने काष्ठमूलञ्च द्विगुणं प्राप्तवानसौ
ततः प्रसन्नहृदयः सुपक्वकदलीफलम् ।शर्कराञ्च घृतं दुग्धं गोधूमस्य चूर्णकम्
प्रत्येकन्तु सपादञ्च गृहीत्वा गृहमाययौ ।ततो बन्धून् समाहूय चकार विधिना व्रतम्
तद्व्रतस्य प्रसादेन धनपुत्त्रान्वितोऽभवत् ।इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ
”इति श्रीस्कन्दपुराणं रेवाखण्डे सत्यनारायण-कथायां विप्रकाष्ठकेतुसंवादो नाम अध्यायः
सूत उवाच ।“पुनरन्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।आसीदुल्कामुखो नाम नृपतिर्ब्बलिनां वरः
जितेन्द्रियः सत्यवादी ययौ देवालयं प्रति ।दिने दिने धनं दत्त्वा द्विजान् सन्तोषयेत् सुधीःभार्य्या तस्य प्रमुग्धा सरोजवदना सती ।सस्मितास्या शरदिन्दुं सकटाक्षं बिभ्रती
काञ्चीञ्च बिभ्रती श्यामा मालतीमाल्यभूषिताभद्रशीला व्रतं सत्यं सिन्धुतीरेऽकरोन्मुने
एतस्मिन्नन्तरे नत्र साधुः कोऽपि समागतः ।बाणिज्यार्थं बहुधनै रत्नाद्यैः परिपूरितः
नावं संस्थाप्य तत्तीरे जगाम तत्तटं प्रति ।दृष्ट्वा तत्र व्रतं सम्यक् पप्रच्छ विनयान्वितः
साधुरुवाच ।किमिदं कुरुषे राजन् भक्तियुक्तेन चेतसा ।प्रकाशं कुरु तत् सर्वं श्रोतुमिच्छामि सम्प्रति
राजोवाच ।पूजनं क्रियते साधो विष्णोरतुलतेजसः ।व्रतञ्च स्वजनैः सार्द्धं पुत्त्रादिप्राप्तये मया
प्रत्युवाच ततो नत्वा राजानं मधुरं वचः ।सत्यं कथय मे राजन् व्रतमेतत् करोम्यहम्
ममापि सन्ततिर्नास्ति सत्यमेतत् सुतव्रतम् ।ततो निवृत्त्य बाणिज्यात् सानन्दं गृहमागतः
भार्य्यायै कथित सर्व्वं व्रतञ्च सन्ततिप्रदम् ।तदा व्रतं करिष्यामि यदा मे सन्ततिर्भवेत्
यत्किञ्चिद्दिवसे तस्य भार्य्या लीलावती सती ।गर्भयुक्तानन्दचित्ताभवद्धर्म्मपरायणा
पूर्णे गर्भे ततो जाता बालिका चातिनिर्म्मला ।दिने दिने वर्द्धमाना शुक्लपक्षे यथा शशी
ततो बणिक् सुतायाश्च जातकर्म्मादिकञ्चरन् ।नाम्ना कलावती चेति तन्नामकरणं कृतम्
ततो लीलावती प्राह स्वामिनं मधुरं वचः ।न करोषि किमर्थं वा पुरा यच्च प्रतिश्रुतम्
विवाहसमयेऽप्यस्याः करिष्यामि व्रतं प्रिये ।इति भार्य्यां समाश्वास्य जगाम नगरं प्रति
ततः कलावती कन्या वर्द्धिता पितृवेश्मनि ।दृष्ट्वा कन्यां ततः साधुर्नगरे बन्धुभिः सह ।मन्त्रयित्वा द्रुतं दूतं प्रेरयित्वा धर्म्मवित् ।विवाहार्थञ्च कन्याया वरं श्रेष्ठं विचारयन्
तेनाज्ञप्तश्च दूतोऽसौ काञ्चनं नगरं ययौ ।तस्मादेकं बणिक्पुत्त्रं समादायागतो हि सः
दृष्ट्वा तं सुन्दरं बालं बणिक्पुत्त्रं गुणान्वितम् ।ज्ञातिभिर्बन्धुभिः सार्द्धं परितुष्टेन चेतसा
दत्तवान् साधुराहूय कन्यां विधिविधानतः ।ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्
विवाहसमयेऽप्यस्यास्तेन रुष्टोऽभवद्विभुः
ततः कालेन कियता निजधर्म्मविशारदः ।बाणिज्यार्थं गतः शीघ्रं जामात्रा सहितोबणिक्
रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपतः ।बाणिज्यं कुरुते साधुर्जामात्रा श्रीमता सह
पुरीं निर्म्माय नगरे चन्द्रकेतोर्नृपस्य ।एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः
भ्रष्टप्रतिज्ञमालोक्य शापं तस्मै प्रदत्तवान् ।अद्यप्रभृति कालञ्च महादुःखं भविष्यति
तस्मिन्नेव दिने राज्ञो धनमादाय तस्करः ।तेनैव वर्त्मना यातः पृष्ठदेशं विलोकयन्
तत्पश्चाद्धावकान् दूतान् दृष्ट्वा भीतेन चेतसा ।धनं संस्थाप्य तत्रैव गतः शीघ्रमलक्षितः
ततो दूताः सगायाता यत्रास्ते सज्जनो बणिक्
दृष्ट्वा नृपधनं तत्र बद्ध्वा दूता बणिक्सुतौ
हषयुक्ता धावमाना ऊचुर्नृपसमीपतः ।तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो
ते नृपाज्ञां समदाय दृढं बद्ध्वा तु तावुभौ ।स्थापितौ द्वौ महादुर्गे कारागरेऽविचारयन्
सूत उवाच ।मायया सत्यदेवस्य श्रुतञ्च तयोर्वचः ।ततस्तयोर्धनं यच्च गृहीतं चन्द्रकेतुना
तच्छापाच्च तयोर्गेहे भार्य्या दुःखिताभवत् ।चौरेणापहृतं सर्व्वं गृहे यच्च स्थितं धनम्
आधिव्याधिसमायुक्ता क्षुत्पिपासातिपीडिता ।अन्नचिन्तापरा भूत्वा भ्रमते गृहे गृहे ।ततः कलावती कन्या बभ्राम प्रतिवासरे
एकस्मिन् दिवसे रात्रौ क्षुधार्त्ता द्विजमन्दिरम् ।गत्वापश्यद्व्रतं तत्र सत्यनारायणस्य सा
उपविश्य कथां श्रुत्वा वरं प्रार्थयती मुदा ।प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति
ततो लीलावती कन्यां भर्त्सयामास तां भृशम् ।पूत्रि रात्रौ स्थिता कुत्र किन्ते मनसि वत्तते
द्विजालये व्रतं भातर्दृष्टं वाञ्छितसिद्धिदम्
तत् श्रुता कन्यकावाक्यं व्रतं कर्त्तुं समुद्यता ।ससुता सा बणिग्भार्य्या सत्यनारायणस्य
व्रतं चक्रे वै साध्वी बन्धुभिः स्वजनैः सह ।भर्त्तृजामातरौ क्षिप्रमागच्छेतां ममाश्रमम्
इति देवं वरं याचे सत्यदेवं पुनः पुनः ।अपराधन्तु भर्त्तुर्म्मे जामातुः क्षन्तुमर्हसि
व्रतेन तस्यास्तुष्टोऽसौ सत्यनारायणः प्रभुः ।दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम
वन्दिनौ मोचय प्रातर्बणिजौ नृपसत्तम् ! ।देयं धनञ्च तत् सर्व्वं विधिना द्विगुणीकृतम्
नो चेत् त्वां नाशयिष्यामि सराज्यधनपुत्त्रकम् ।एवमाभाष्य राजानं ध्यानगम्योऽभवत् प्रभुः
ततः प्रभातसमये राजा स्वजनैः सह ।उपविश्य सभामध्ये प्राह दूतजनं प्रति
बद्धौ महाजनौ शीघ्रं मोचयध्वं बणिक्सुतौ ।इति राज्ञो वचः श्रुत्वा मोचयित्वा महाजनौ
समानीय नृपस्याग्रे प्रोचुश्च विनयान्विताः ।आनितौ द्वौ बणिक्पुत्त्रौ मुक्तौ निगडबन्धनात्
ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम् ।स्मृत्वा पूर्व्ववृत्तान्तं विस्मयाद्भयविह्वलौ
राजा बणिक्सुतौ वीक्ष्य प्रोवाच सादरं वचः ।दैवात् प्राप्तं महत् कष्टमिदानीं नास्ति ते भयम्
इदानीमेव मुक्तस्त्वं क्षुरकर्म्मादिकञ्चर
ततो नृपवरः श्रीमान् स्वर्णरत्नविभूषणैः ।अलङ्कृत्य बणिक्पुत्त्रौ वचसाप्रीणयद्भृशम् ।पुरानीतञ्च यद्द्रव्यं द्विगुणीकृत्य दत्तवान्
प्रोवाच तौ ततो राजा गच्छ साधो निजा-श्रमम् ।राजानं प्रणिपत्याह गन्तव्यं त्वत्प्रसादतः
यात्रां कृत्वा ततः साधुर्म्मङ्गलाचारपूर्व्विकाम् ।ब्राह्मणेभ्यो धनं दत्त्वा सहर्षो नगरं ययौ
कियद्दूरे गते साधौ सत्यनारायणः प्रभुः ।जिज्ञासां कृतवान् साधो किमस्ति तरणौ तव
ततो महाजनो मत्तो हेलया प्रहस्य ।कथं पृच्छसि भो दण्डिन ! मुद्रां किं लब्धु-मिच्छसि
लतापत्रादिकञ्चैव वर्त्तते तरणौ मम ।निष्ठुरञ्च वचः श्रुत्वा सत्यं भवतु ते वचः
एवमुक्त्वा गतः शीघ्र दण्डी तस्य समीपतः ।कियद्दूरे ततो गत्वा स्थितः सिन्धुसमीपतः
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।उत्थितस्तरणीं दृष्ट्वा विस्मयं परमं ययौ
लतापत्रादिकं दृष्ट्वा मूर्च्छितो न्यपतद्भुवि ।लब्धसंज्ञो बणिक्पुत्रस्ततश्चिन्तापरोऽभवत्
श्वश्रुरं दुहितुः कान्तो वचनञ्चेदमब्रवीत्
जामातोवाच ।किमथे कुरुते शोकं शापादेतच्च दण्डिनः ।शक्यते तेन सर्व्वं हि कर्त्तुं हर्त्तुं संशयः
ततस्तच्छरण यामो वाञ्छितार्थो भविष्यति ।जामातुश्च वचः श्रुत्वा तत्सकाशं गतस्तदा
दृष्ट्वा दण्डिनं भक्त्या नत्वा प्रोवाच सादरम् ।क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ
मया दुरात्मना देव मुग्धोऽहं तव मायया ।यदुक्तं तद्वचो नाथ दुष्टं मे क्षन्तुमर्हसि
यतः परक्र्ताः सर्वे क्षमासारा हि साधवः ।पुनः पुनस्ततो नत्वा रुरोद शोकविह्वलः
तमुवाच ततो दण्डी विलपन्तं विलोक्य ।मा रोदीः शृणु मे वाक्यं मम पूजापराङ्मुखः
मामवज्ञाय दुर्बुद्धे ! लब्धं दुःस्नं मुहुर्मुहुः ।तत् श्रुत्वा भगवद्धाक्यं स्तुतिं कर्त्तुं समुद्यतः
साधुरुवाच ।त्वन्मायामोहिताः सर्व्वे ब्रह्माद्यास्त्रिदिवौकसः ।न जानन्ति गुणं रूपं तवाश्चर्य्यमिदं प्रभो
मूढोऽहं त्वां कथं जाने मोहितस्तव मायया ।प्रसीद पूजयिष्यामि यथाविभवविस्तरैः
पुत्त्रं वित्तञ्च मच्चित्तं पाहि मां शरणागतम्
श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्द्दनः ।वरञ्च वाञ्छितं दत्त्वा तत्रैवान्तरधीयत
ततोऽसौ नावमारुह्य दृष्ट्वा रत्नादिपूरिताम् ।कृपया सत्यदेवस्य यत् फलं वाञ्छितं मम
इत्युक्त्वा स्वजनैः सार्द्धं पूजां कृत्वा यथाविधि ।हर्षेण महता साधुः प्रयाणं चाकरोत् द्विजः
नावं संयोज्य वेगेन स्वदेशमगमत्तदा
ततो जामातरं प्राह पश्य वत्स पुरीं मम ।दूतञ्च प्रेरयामास निजवित्तस्य रक्षकम्
ततोऽसौ नगरं गत्वा साधुभार्य्यां विलोक्य ।उवाच वाञ्छितं वाक्यं नत्वा बद्धाञ्जलिस्तदा
निकटे नगरस्यैव जामात्रा सहितो बणिक् ।आगतौ बन्धुवर्गैश्च धनैर्बहुविधैस्तथा
श्रुत्वा दूतमुखाद्वाक्यं महाहर्षयुता सती ।सत्यपूजां ततः कृत्वा प्रोवाच तनुजां प्रति ।व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय
इति मातृवचः श्रुत्वा व्रतं कृत्वा समाप्य ।प्रसादं संपरित्यज्य गता सा पतिं प्रति
तेन रुष्टः सत्यदेवो भर्त्तारं तरणीन्तथा ।संहृत्य धनैः सार्द्धं जले तस्मिन् समर्पयत्
ततः कलावतीकन्या नालोक्य बणिजं पतिम् ।शोकेन महता तत्र रुदन्ती चापतद्भुवि
दृष्ट्वा तथाविधां कन्यां दृष्ट्वा तत्पतिं तरीम् ।भीतेन महता साधुः किमाश्चर्य्यमिदं महत्
विचिन्त्यमानास्ते सर्व्वे बभूबुस्तरिवाहकाः ।ततो लीलावती साध्वी दृष्ट्वा तद्विह्वला सती ।विललापातिदुःखेन भर्त्तारञ्चे दमब्रवीत्
इदानीं नौकया सार्द्धमदृश्योऽभूदलक्षितम् ।न जाने केन दैवेन हेलया वापहारितम्
सत्यदेवस्य माहात्म्यं किं ज्ञातुं नहि शक्यते ।इत्युक्त्वा विललापाथ तत्रस्या स्वजनैः सह
ततो लीलावती कन्यां क्रोडे कृत्वा रुरोद ।ततः कलावती कन्या नष्टे स्वामिनि दुःखिता
गृहीत्वा पादुक्रां तस्य अनुगन्तुं मनो दधे ।कन्यायाश्चरितं दृष्ट्वा सभार्य्यः सुजनो बणिक्
अतिशोकेन सन्तप्तश्चिन्तयामास धर्म्मवित्
हृतो हि सत्यदेवेन जामाता सत्यमायया ।सत्यपूजां करिष्यामि यथाविभवविस्तरैः
इति सर्व्वान् समाहूय कथितञ्च मनोरथम् ।भत्वा दण्डवद्भूमौ सत्यदेवं पुनः पुनः
ततस्तुष्टः सत्यदेवो गगनाद्वणिजं प्रति ।जगाद वचनञ्चेदं नैवेद्यमवमन्य ।आगता स्वामिनं द्रष्टुमतोऽदृश्योऽभवत् प्रभुः
गृहं गत्वा प्रसादञ्च भुक्त्वा चायाति सा पुनः ।लब्धभर्त्तृसुखा साधो भविष्यति संशयः
ततश्च प्राणदं वाक्यं श्रुत्वा गगनमण्डलात् ।क्षिप्रं तदा गृहं गत्वा प्रसादं प्रतिभूज्य
अपश्यत् पुनरागत्य पतिं नावं जनैः सह ।ततः कलावती तुष्टा जगाद पितरं प्रति
एहि तात गृहं याहि विलम्बं कुरुषे कथम् ।तत् श्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद्धणिकसुतःपूजनं सत्यदेवस्य कृत्वा विधिविधानतः ।धनैर्बन्धुगणैः सार्द्धं जगाम निजमन्दिरम्
पौर्णमास्याञ्च संक्रान्त्यां पूजां कृत्वा यथाविधि ।इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ
”इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारा-यण कथायां बणिक्साधुमोक्षवर्णनो नाम३ अध्यायः
*
सूत उवाच ।“अथ चान्यत् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।आसीद्वंशध्वजो राजा प्रजापालनतत्परः
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।एकदा यनं गत्वा हत्वा विविधान् मृगान्आगत्य वटमूले दृष्ट्वा सत्यस्य पूजनम् ।गोपाः कुर्व्वन्ति सन्तुष्टा भक्तियुक्ताः सबान्धवाःराजा दृष्ट्वा तु दर्पेण नागतो ननाम सः ।ततो गोपगणाः सर्व्वे प्रसादं नृपसन्निधौ
संस्थाप्य पुनरागत्य भुक्त्वा सर्व्वे यथेप्सितम् ।ततः प्रसादं संत्यज्य राजा दुःखमवास सः
तस्य पुत्त्रशतं नष्टं धनधान्यादिकञ्च यत् ।सत्यदेवेन तत् सर्व्वं नाशितं मम निश्चितम्
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।मनसेति विनिश्चित्य ययौ गोपालसन्निधिम्
ततोऽसौ सत्यदेवस्य पूजां गोपगणैः सह ।भक्तिश्रद्धान्वितो भूत्वा चकार विधिवन्नृपः
सत्यदेवप्रसादेन धनपुत्त्रान्वितोऽभवत् ।इह लोके सुखं भुक्त्वा चान्ते विष्णुपरं ययौ
इदं कुरुते सत्यव्रतं परमदुर्लभम् ।शृणोति कथां पुण्यां भक्तिमुक्तिफलप्रदाम्
धनधान्यादिकं तस्य भवेत् सत्यप्रसादतः ।दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात्
भीतो भयात् प्रमुच्येत सत्यमेतन्न संशयः ।ईप्सितञ्च फलं भुक्त्वा चान्ते सत्यपुरं व्रजेत्
इति वः कथितं विप्राः सत्यनारासणव्रतम् ।यत् कृत्वा सर्व्वदुःखेभ्यो मुक्तो भवति मानवः
विशेषतः कलियुगे सत्यपूजाकथाफलम् ।सत्यनारायणं केचित् सत्यदेवं तथापरे
नानारूपधरो भूत्वा सर्व्वेषामीप्सितप्रदः ।भविष्यति कलौ सत्यव्रतरूपी सनातनः
इदं पठते नित्यं शृणोति मुनिसत्तमाः ।तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः
”इति श्रीस्कन्दपुराणे रेवाखण्डे सत्यनारायण-कथानाम अध्यायः
*
इति श्रीसत्यनारा-यणव्रतकथा समाप्ता
क्वचित् पुस्तके अध्याय-नाम नास्ति क्वचित् भविष्यपुराणे इति कृत्वाएतत्कथा लिखिता
*
अथ सत्यनारायणपूजापद्धतिः आदौ स्वस्तिवाचनपूर्व्वकं सङ्कल्पंकुर्य्यात् अद्येत्यादि अमुकतिथौ रात्रौअर्मुकगोत्रः श्रीअमुकदेवशर्म्मा अमुककामःगश्चेशादिदेवतापूजापूर्व्वकश्रीसत्यनारायणपूज-नकथाश्रवणमहं करिष्ये ततः सूक्तं पठेत् ।तत आसनशुद्ध्यादिकं कृत्वा गणेशादिदेवत्रा-नवग्रहदिक्पालान् पूजयेत् लक्ष्मीसरस्वत्या-दिपुरुषानादिपुरुषश्रीरामलक्ष्मणपूजां कृत्वायवतिलैः सत्यनारायणमावाहयेत् प्रणवव्या-हृतीः समुच्चार्य्य भगवन् सत्यनारायण इहागच्छइहागच्छ इह तिष्ठ इह तिष्ठ मम पूजां गृहाणइत्यादिना आवाह्य पुष्पं गृहीत्वा ध्यायेत् ।“ध्यायेत् सत्यं गुणातीतं गुणत्रयसमन्वितम् ।लोकनाथं त्रिलोकेशं पीताम्बरधरं हरिम्
इन्दीवरदलश्यामं शङ्खचक्रगदाधरम् ।नारायणं चतुर्ब्बाहुं श्रीवत्सपदभूषितम् ।गोविन्दं गोकुलानन्दं जगतः पितरं गुरुम्
”इति ध्यात्वा एतत् पाद्यं सत्यनारायणाय नमः ।अर्ध्यमन्त्रस्तु ।“व्यक्ताव्यक्तस्वरूपाय हृषीकपतये नमः ।मया निवेदितो भक्त्या अर्घ्योऽयं प्रतिगृह्य-ताम्
”एषोऽर्घ्यः श्रीसत्यनारणाय नमः पुष्पा-ञ्जलिं गृहीत्वा ।“नमस्ते विश्वरूपाय शङ्खचक्रधराय ।पद्मनाभाय देवाय हृषीकपतये नमः ।नमोऽतन्तस्वरूपाय त्रिगुणात्मविभासिने
”नैवेद्यं गृहीत्वा ।“त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पितम् ।गृहाण सुमुखो भूत्वा प्रसीद पुरुषोत्तम
”ततः अञ्जलिं बद्ध्वा पठेत् ।“अच्युतं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ।हृषीकेशं जगन्नाथं वागीशं वरदायकम्
गुणत्रयं गुणातीतं गोविन्दं गरुडघ्वजम् ।जनार्द्दनं जनानन्दं जानकीवल्लभं जयम्
प्रणमामि सदा सत्यनारायणमतः परम्दुर्गमे विषमे घोरे शत्रुभिः परिपीडिते
विविधापत्सु दुष्टेषु तथान्ये ष्वपि यद्भयम् ।नामान्येतानि सङ्कीर्त्त्यं ईप्सितं फलमाप्नुयात्
सत्यनाराणं देवं वन्देऽहं कामदं शुभम् ।लीलया ततं विश्वं येन तस्मै नमो नमः
”ततो दक्षिणान्दद्यात् अच्छिद्रावधारणंकुर्य्यात् इति सत्यनारायणपूजापद्धतिः
वाचस्पत्यम्
Sanskrit
सत्यनारायण
पु०
कर्म० संक्रान्त्यादिषु पूज्ये नारायण-मूर्त्तिभेदे स्कन्दपु० रेवा० अ० तत्कथा दृश्या