| YouTube Channel

सत्यधृतिः (satyadhRtiH)

 
शब्दकल्पद्रुमः
Sanskrit
सत्यधृतिः,
पुं,
(सत्या धृतिः ।) ऋषिविशेषः ।यथा, --“सरद्धतस्तु दायादमहल्या संप्रसूयते ।शतानन्दं ऋषिश्रेष्ठं तस्यापि सुमहातपाः ।तस्य सत्यधृतिर्नाम मुनिर्वेदस्य पारगः
”इति मात्स्ये ४८ अध्यायः
(सत्यशीले, त्रि यथा, रामायणे ८२ ।“रामस्तथा सत्यधृतिः सतां धर्म्ममनुस्मरन् ।नाजहात् पितुरादेशं शशी ज्योस्नामि-वोदितः
”)