| YouTube Channel

सत्यः (satyaH)

 
Apte Hindi
Hindi
सत्यः
पुं*
- सते हितम् - सत् + यत्
"ब्रह्मलोक, सत्यलोक, भूमि के ऊपर सात लोकों में सबसे ऊपर का लोक"
सत्यः
पुं*
- सते हितम् - सत् + यत्
पीपल का पेड़
सत्यः
पुं*
- सते हितम् - सत् + यत्
राम का नाम
सत्यः
पुं*
- सते हितम् - सत् + यत्
विष्णु का नाम
सत्यः
पुं*
- सते हितम् - सत् + यत्
नांदीमुख श्राद्ध को अधिष्ठात्री देवता
Wordnet
Sanskrit
Synonyms:
सत्यम्, सत्या, सत्यः, यथार्थम्, अवितथः, अवितथम्, अवितथा, अकृत्रिमः, अकृत्रिमा, अकृत्रिमम्, गतालीकः, गतालीका, गतालीकम्, निर्मायिकः, निर्मायिकम्, निर्मायिकः, अकपटः, अकपटम्, अकपटा, निष्कपटी, निष्कपटः, ऋतम्, सम्यक्, तथ्यम्
adjective
यथा अस्ति तथा। विना कपटं वा।
"अध्यक्षेण निर्भयो भूत्वा सत्यं कथनीयम्।"
Synonyms:
वास्तविकम्, वास्तविकः, वास्तविकी, वास्तवः, वास्तवी, वास्तवम्, तथ्यः, तथ्यम्, तथ्या, यथार्थः, यथार्थम्, यथार्था, सन्, सत्, सती, सत्यः, सत्यम्, सत्या, प्रकृतः, प्रकृता, प्रकृतम्, अकल्पितः, अकल्पितम्, अकल्पिता
adjective
यद् यथार्थभूतम् अस्ति तद्।
"शशशृङ्गं वास्तविकः पदार्थः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
सत्यः,
पुं,
(सते हितः सत् + यत् ।) श्रीरामः ।यथा, --“कौशल्यानन्दनः श्रीशः सत्यो दशमुस्त्रान्तकः
”इति शब्दरत्नावली
विष्णुः यथा, --“औत्तमेऽप्यन्तरे विष्णुः सत्यैः सह स्यधोत्तमैः ।सत्यायामभवत् सत्यः सत्यरूपो जनार्द्दनः
”इति कौर्न्मे ४८ अध्यायः
*
अन्यच्च ।“सत्यव्रतं सत्यपरं त्रिसत्यंसत्त्यस्य योनिं निहितञ्च सत्त्य ।सत्त्यस्य सत्यमृतसत्यनेत्रंसत्यात्मकं त्वां शरणं प्रपन्नाः
”इति श्रीभागवते १० स्कन्धे अध्यायः
*
“प्रतिश्रुतं सत्यं कृतमिति हृष्टाः प्रथमं सत्यत्वेनस्तुवन्ति सत्यव्रतमिति सत्यं व्रतं सङ्कल्पो यस्य ।सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् ।त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्व्वं प्रलयानन्तरंस्थितिसमये सत्यं अव्यभिचारेण वर्त्तमानम् ।तत एवाहुः सत्त्यस्य योनिमिति सच्छब्देनपृथिव्यप्तेजांसि त्यशब्देन वाय्वाकाशौ एवंसच्च त्यश्च सत्त्यं भूतपञ्चकम् तं सत्त्यमित्या-चक्षते इति श्रुतेः तस्य योनिं कारणं अनेनसृष्टेः पूर्व्वं वर्त्तमानातोक्ता तथा सत्त्ये तस्मि-न्नेव निहितं अन्तर्य्यामितया स्थितं अनेन स्थिति-समये सत्यत्वमुक्तम् तथा सत्त्यस्य सत्यंतस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽपिअवशिष्यमानं रूपं अनेन प्रलयेऽप्यवधित्वेनसत्यत्वं दर्शितं एवं त्रिसत्यत्वमुपपादितम् तथाऋतसत्यनेत्रम् ऋतञ्च सूनृता वाणी सत्यञ्चसमदर्शनम् तथा भगवता व्याख्यास्यमानत्वात्सत्यञ्च समदर्शनमिति ऋतञ्च सूनृता वाणीकविभिः परिकीर्त्तिता
इति तयोर्नेत्रं नयन-साधनं नेतारं प्रवर्त्तकमिति यावत् एवं सर्व्व-प्रकारेण सत्यात्मकं तां वयं शरणं प्रपन्नाइत्यर्थः ।” इति श्रौधरस्वामी
*
अश्वत्थवृक्षः ।इति राजनिर्घण्टः
नान्दीमुखश्राद्धदेवः यथा, “इष्टिश्राद्धे क्रतुर्द्दक्षः सत्यो नान्दीमुखे वसुः ।नैमित्तिके कालकामौ काम्येच धुरिलोचनौ
”इति श्राद्धतत्त्वम्
*
(मुनिविशेषः यथा, महाभारते १० ।“असितो देवलः सत्यः सर्पमाली महाशिराः
”देवगणविशेषः यथा, मार्कण्डेये ७१ -- २“मन्वन्तरे तृतीयेऽस्मिन् उत्तमस्य प्रजापतेः ।देवानिन्द्रानृषीन् भूपान् निबोध गदतो मम
स्वधामानस्तथा देवा यथानामानुकारिणः ।सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथागणः
”)तपोलोकादूर्द्ध्वलोकः इति विश्वः
अस्य विव-रणं सत्यलोकशब्दे द्रष्टव्यम्