सत्यं (satyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiसच
शब्दकल्पद्रुमः
Sanskritसत्यं, (सते हितम् । सत् + यत् ।) कृतयुगम् ।शपथः । यथार्थम् । (यथा, रघुः । १२ । ७५ ।“कामं जीवति मे नाथ इति सा विजहौशुचम् ।प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीतिलज्जिता ॥
”)तद्वति, त्रि । इति मेदिनी ॥
(यथा, याज्ञ-वल्क्ये । ३ । १४९ ।“महाभूतानि सत्यानि यथात्मापि तथैव हि ॥
”)सिद्धान्तः । इति शब्दरत्नावली ॥
* ॥
यथार्थस्यपर्य्यायः । तथ्यम् २ ऋतम् ३ सम्यक् ४ । इत्य-मरः ॥
अवितथम् ५ भूतम् ६ । इति जटा-धरः ॥
तल्लक्षणम् । यथा, --“यथार्थकथनं यश्च सर्व्वलोकसुखप्रदम् ।तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययम् ॥
”इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥
* ॥
तदाकारा यथा, --“सत्यञ्च समता चैव दमश्चैव न संशयः ।अमात्सर्य्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥
त्यागो ध्यानमथार्य्यत्वं धृतिश्च सततं दया ।अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदश ॥
”इति महाभारते राजधर्म्मः ॥
* ॥
तस्यापालने दोषो यथा, --“कृत्वा शपथरूपञ्च सत्यं हन्ति न पालयेत् ।स कृतघ्नः कालसूत्रे वसेद्देवचतुर्युगम् ॥
सप्तजन्मसु काकञ्च सप्तजन्मसु पेचकः ।ततः शूद्रो महाव्याधी जन्मसप्त ततः शुचिः ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४८ अध्यायः ॥
* ॥
अपि च ।“सत्येन लोकं जयति सत्यन्तु परमं तपः ।यथाभूतप्रसादन्तु सत्यमाहुर्म्मनीषिणः ॥
”इति कौर्म्मेउपविभागे १४ अध्यायः ॥
* ॥
तस्य प्रशंसा यथा, --“सत्यमायास्यति हरिः सत्यं निष्कपटं वद ।वद तत् स्वभयं त्यक्त्वा सत्यं ब्रूहि सुसंसदि ॥
वरं कूपशताद्वापी वरं वापीशतात् क्रतुः ।वरं क्रतुशतात् पुत्त्रः सत्यं पुत्त्रशतात् किल ॥
नहि सत्यात् परो धर्म्मो नानृतात् पातकं परमनहि मातुः परो बन्धुर्न गुरुर्मन्त्रदात् परः ॥
”इति ब्रह्मवैवर्त्ते जन्मखण्डे ९५ अध्यायः ॥
* ॥
अपि च ।“तस्मात् सत्यं परं ब्रह्म सत्यमेव परं तपः ।सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम् ॥
सत्यं वेदेषु जागर्त्ति सत्यश्च परमं पदम् ।कीर्त्तिर्यशश्च पुण्यश्च पितृदेवर्षिपूजनम् ॥
आद्यो विधिश्च विद्या च सर्व्वं सत्ये प्रतिष्ठितम् ।सत्यं यज्ञस्तथा वेदा मन्त्रा देवाः सरस्वती ॥
व्रतचर्य्या तथा सत्यं ओङ्कारः सत्यमेव च ।सत्येन वायुरभ्येति सत्येन तपते रविः ॥
सत्येनाग्निर्दहेन्नित्यं स्वर्गं सत्येन गच्छति ।सत्येन चापः क्षिपति पर्जन्यो धरणीतले ॥
परेण सर्व्वदेवानां सर्व्वतीर्थावगाहनम् ।सत्यस्य वचनाल्लोके सर्व्वमाप्नोत्यसंशयम् ॥
अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सत्येन देवाः प्रीयन्ते पितर ऋषयस्तथा ।मनुष्याः सिद्धगन्धर्व्वाः सत्यात् सिद्धिमितोगताः ॥
अगाधे विपुले शुद्धे सत्यतीर्थे शुचिह्नदे ।स्नातव्यं मनसा युक्तैः स्नानं तत् परमं स्मृतम् ॥
आत्मार्थे वा परार्थे वा पुत्त्रार्थे वापि मानवाः ।अनृतं ये न भाषन्ते ते बुधाः स्वर्गगामिनः ॥
तस्मात् सत्यकृतं पञ्च तदनन्तफलं भवेत् ॥
”इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥
अपि च ।“तडागशतदानेन यत् पुण्यं लभते नरः ।ततोऽधिकञ्च लभते वापीदानेन निश्चितम् ॥
दशवापीप्रदानेन यत् फलं लभते नरः ।ततोऽधिकञ्च लभते पुण्यं कन्याप्रदानतः ॥
दशकन्याप्रदानेन यत् फलं लभते नरः ।ततोऽधिकञ्च लभते यज्ञ केन नराधिपः ॥
शतयज्ञेन लभते यत् पुण्यं पुण्यकृज्जनः ।ततोऽधिकञ्च लभते पुत्त्रास्यदर्शनेन च ॥
दर्शने शतपुत्त्राणां यत् पुण्यं लभते नरः ।तत् पुण्यं लभते नूनं पुण्यवान् सत्यपालनात् ॥
नहि सत्यात् परो धर्म्मो नानृतात् पातकं नरः ।नहि गङ्गास्रमं तीर्थं न देवः केशवात् परः ॥
”इति ब्रह्मवैवर्त्तपुराणम् ॥
* ॥
अन्यच्च ।“सत्यमूलं जगत् सर्व्वं सर्व्वं सत्ये प्रतिष्ठितम् ।सिद्धं लभन्ते सत्येन ऋषयो वेदपारगाः ॥
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः ।सत्यं वदन्ति राजानः सत्येन वसुधा धृता ॥
सत्येन गम्यते स्वर्गं मोक्षं सत्येन प्राप्यते ।सूर्य्यस्तपति सत्येन सोमः सत्येन राजते ॥
यमः सत्येन हरति सत्येनेन्द्रो विराजते ।वरुणश्च कुबेरश्च तौ च सत्ये प्रतिष्ठितौ ॥
तत् सत्यं मम नश्येत यद्यहं नागमे पुनः ॥
”इति वाराहे मथुरामाहात्म्ये अन्धकतीर्थ-प्रभाववर्णननामाध्यायः ॥
* ॥
अन्यच्च ।“सत्यं सन्तोव आस्तिक्यं तथा चेन्द्रियनिग्रहः ।देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥
सत्यं भूतहितं वाक्यमस्तेयं स्वागतम्परम् ।नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥
”इति गारुडे ४९ अध्यायः ॥
* ॥
अपि च ।“येऽर्था धर्म्मेण ते सत्या येऽधर्म्मेण गतश्रियः ।सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः ॥
सर्व्वभूतदया शौचं जलशौचञ्च पञ्चमम् ।यस्य सत्यञ्च शौचञ्च तस्य स्वर्गो न दुर्ल्लभः ॥
सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते ॥
”इति गारुडे ११३ अध्यायः ॥
* ॥
अपि च ।“न सा सभा यत्र न सन्ति वृद्धावृद्धा न ते ये न वदन्ति धर्म्मम् ।नासौ धर्म्मो यत्र नो सत्यमस्तिनो तत् सत्यं यच्छलेनानुविद्धम् ॥
ब्राह्मणोऽपि मनुष्याणामादित्यश्चैव तेजसाम् ।शिरोऽपि सर्व्वगात्राणां व्रतानां सत्यमुत्तमम् ॥
”इति गारुडे ११५ अध्यायः ॥
ब्रह्म । यथा । यः सर्व्वज्ञः सर्व्ववित् यस्य ज्ञान-मयं तपः सर्व्वस्य वशी सर्व्वस्येशानः यःपृथिव्यां तिष्ठन् पृथिव्या अन्तरः सोऽकामयतबहुस्यां स ईक्षत तत्तेजोऽसृजत् सत्यं ज्ञान-मनन्तं ब्रह्म इत्याद्याः । इति श्रीभागवतदशम-स्कन्धीय ८७ अध्यायीयतृतीयश्लोकटीकायांश्रीधरस्वामी ॥
* ॥
अपि च ।“अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ।विज्ञानमानन्दो ब्रह्म सत्तत्त्वमसि केवलम् ॥
नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम् ।योऽसावादित्यपुरुषः सोऽसावहमणण्डतः ।इति ध्यायन् विमुच्येत ब्रह्मणो भवबन्धनात् ॥
”इति गारुडे ४९ अध्यायः ॥
तद्वैदिकपर्य्यायः । वट १ श्रत् २ सत्रा ३अद्धा ४ इत्था ५ ऋतम् ६ । इति षट् सत्य-नामानि । इति वेदनिघण्टौ । ३ । १० ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
