| YouTube Channel

सत्पुत्त्रः (satputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
सत्पुत्त्रः,
पुं,
(सन् पुत्त्रः ।) उत्तमसन्तानः ।वेदादिविहितपित्रादिकार्य्यकर्त्ता यथा --“पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः ।मुखसन्दर्शनेनापि तदुत्पत्तौ यतेत सः
”इति बृहस्पत्युक्तनरकनिस्ताराय ऋणमस्मिन्समन्नयति अमृतत्वञ्च विन्दति इति पितापुत्त्रस्य जातस्य पश्येच्च जीवतो मुखम् इति वशि-ष्ठोक्तर्णापनयनाय यत् पश्येदिति नियम-विधानं तदकृतपुत्त्रकार्य्यपुत्त्रपरम् सत्पुत्त्रस्तुमुखदर्शनं विनापि नरकनिस्तारकः तथा चविष्णुपुराणम् ।“सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ ।पुन्नाम्नो नरकात्त्रातः तेन सुमहात्मना
”ब्रह्मपुराणेऽपि ।“समुत्पन्नेन भो विप्राः सत्पुत्त्रेण महात्मना ।त्रातः पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा
”इति शुद्धितत्त्वम्