| YouTube Channel

सत्त्रं (sattraM)

 
Apte 1890
English
सत्त्रं [सद्-ष्ट्रन्] (usually written सत्रं) 1 A sacrificial session, especially one lasting from 13 to 100 days.
2 A sacrifice in general.
3 An oblation, offering, or gift.
4 Liberality, munificence.
5 Virtue.
6 A house, residence.
7 Covering.
8 Wealth.
9 A wood, forest
Ki. 13. 9.
10 A tank, pond.
11 Fraud, cheating.
12 A place of refuge, asylum, covert.
Comp.
अपश्रयः a place of refuge, asylum.
अयनं (णं) a long sacrificial session.
परिवेषणं distribution of food at a sacrifice.
शाला an alms-house.
शब्दकल्पद्रुमः
Sanskrit
सत्त्रं,
क्ली,
(सतः साधून् त्रायते इति त्रै + कः ।यद्वा, सीदन्ति सज्जना यत्र सद गतौ +“गुधृवीपचिवचीति ।” उणा० १६६ इतित्रः ।) यज्ञः (यथा, भनुः ३०३ ।“अभयस्य हि यो दाता संपूज्यः सततं नृपः ।सत्त्रं हि वर्द्धते तस्य सदैवाभयदक्षिणम्
”)सदादानम् आच्छादनम् अरण्यम् (यथा, किराते १३ ।“अयमेव मृगव्यसत्त्रकामःप्रहरिष्यन् मयि मायया समस्थे ।पृथुभिर्ध्वजिनीरवैरकार्षीत्चकितोद्भ्रान्तमृगाणि काननानि
”)कैतवम् इति मेदिनी
(यथा, महाभारते ।४ ३६ ३८ ।“सत्त्रेण नूनं छन्नं हि चरन्तं पार्थमर्ज्जुनम् ।उत्तरः सारथिं कृत्वा निर्य्यातो नगरात्बहिः
”)धनम् गृहम् दानम् सरोवरम् इत्यने-कार्थकोषः
यागविशेषः यथा, --“नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः ।सत्त्रं स्वर्गाय लोकाय सहस्रसमभासत
कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् ।आसोना दीर्घसत्रेण कथायां सक्षणा हरेः
”इति श्रीभागवते स्कन्धे अध्यायः
*
द्वादशाहसाध्यसत्त्रं यथा ज्योतिष्टोमे द्वादश-गोशतदक्षिणाविभागः षोडशर्त्विजां तद्विकृती-भूते सत्त्रात्मके द्वादशाहसाध्ये शतेनाद्धिनीदीक्षयन्तीत्यादिदर्शनेन निर्णीयते तच्च सावन-मानेन कर्त्तव्यम् यथा, --“सत्त्राण्युपास्यान्यथ सावनेनलौक्यञ्च यत् स्याद्व्यवहारमर्म्म ।”इति मलमासतत्त्वम्
*
सदक्षिणं सततान्नदानम् तन्निन्दकस्पशनादि-निषेधो यथा, --“नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम् ।देवतापितृसच्छास्त्रयज्ञसत्त्रादिनिन्दकैः ।कृत्या तु स्पर्शनालापं शुद्ध्येतार्कावलोकनात्
”इति मार्कण्डेयपुराणे सदाचाराध्यायः
सत्त्रं सदक्षिणं सततान्नदानम् इति तट्टीका
सत्त्रं, [म्]
व्य,
सह इति शब्दरत्नावली जटा-धरश्च