| YouTube Channel

सञ्चारी (saJcArI)

 
शब्दकल्पद्रुमः
Sanskrit
सञ्चारी, [न्]
पुं,
(सञ्चरतीति सं + चर +णिनिः ।) धूपः इति त्रिकाण्डशेषः
वायुः
इति शब्दचन्द्रिका
भावविशेषः यथा, --“स्थायिसात्त्विकसञ्चारिमभेदैः स्याद्रतिः पुनः ।”इति हेमचन्द्रः
अन्यच्च ।“सञ्चारिणः प्रधानानि देवादिविषया रतिः ।उद्बुद्धमात्रस्थायी भाव इत्यभिधियते
”अपि ।“नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः ।तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारि-सात्त्विकाः
”वात्मल्यरससञ्चारिणो यथा, --“सञ्चारिणोऽनिष्टशङ्काहर्षगर्व्वादयो मताः
”वीररससञ्चारिणस्तु “धृतिमतिगर्व्व स्मृतितर्क-रोमाञ्चाः ।” इति साहित्यदर्पणे परिच्छेदः
(गतिशीले, त्रि यथा, गीतगोविन्दे ।११ ।“अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपिसञ्चारिणिप्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरंध्यायति
”)