| YouTube Channel

सञ्चयः (saJcayaH)

 
Apte Hindi
Hindi
सञ्चयः
पुं*
- सम् + चि + अच्
"ढेर लगाना, एकत्र करना"
सञ्चयः
पुं*
- सम् + चि + अच्
"ढेर, राशि, संग्रह, भंडार, वाणिज्यवस्तु"
सञ्चयः
पुं*
- सम् + चि + अच्
"भारी परिमाण, संग्रह"
Wordnet
Sanskrit
Synonyms:
सञ्चयः, सम्भारः, सामग्री
noun
भविष्ये वस्तूनाम् उपयोगं कर्तुं तेषां कृतः सङ्ग्रहः।
"उद्योगसंस्थानां समीपे पर्याप्तः सञ्चयः भवति।"
Synonyms:
सञ्चयः
noun
कस्यापि वस्तुनः कतिचित् कालानन्तरम् उपयोगं कर्तुं तस्य वस्तुनः वर्तमानस्थितौ रक्षणम्।
"सञ्चयेन भविष्यकाले विपद्भ्यः रक्षितुं शक्यते।"
Synonyms:
प्रदायः, आपूर्तिः, सम्भारः, संचयः, सञ्चयः, सङ्ग्रहः, साहित्यम्, संविधा, उपस्करः, उपकरणजातम्
noun
कस्यापि वस्त्वादेः शून्यत्वस्य परिपूरणार्थं तस्य प्रेषणस्य वा दानस्य वा क्रिया।
"अस्मिन् नगरे वैद्युतशक्तेः प्रदायः अल्पीभूतः।"
Synonyms:
सञ्चयः
noun
रक्षणस्य क्रिया भावो वा।
"सः भविष्यार्थे सञ्चयं करोति।"
Synonyms:
समुदायः, सङ्घः, समूहः, सङ्घातः, समवायः, सञ्चयः, गणः, गुल्मः, गुच्छः, गुच्छकः, गुत्सः, स्तवकः, ओघः, वृन्दः, निवहः, व्यूहः, सन्दोहः, विसरः, व्रजः, स्तोमः, निकरः, वातः, वारः, संघातः, समुदयः, चयः, संहतिः, वृन्दम्, निकुरम्बम्, कदम्बकम्, पूगः, सन्नयः, स्कन्धः, निचयः, जालम्, अग्रम्, पचलम्, काण्डम्, मण्डलम्, चक्रम्, विस्तरः, उत्कारः, समुच्चयः, आकरः, प्रकरः, संघः, प्रचयः, जातम्
noun
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
"अस्मिन् समुदाये नैकाः महिलाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
सञ्चयः,
पुं,
(सञ्चीयते इति सम् + चि +“एरच्” ५६ इत्यच् ।) समूहः ।इत्यमरः
यथा, कथासरित्सागरे १८ ।१२८ ।“तस्थौ सेवमानस्तं राजानं तदाश्रितः ।भुञ्जानश्च सहान्यै स्तैर्ब्राह्मणैर्ग्रामसञ्चयम्
”)संग्रहः यथा, “शक्तेनापि हि शूद्रेण कार्य्यो धनसञ्चयः ।शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते
”इत्याह्लिकाचारतत्त्वम्