| YouTube Channel

सजूः (sajUH)

 
Wordnet
Sanskrit
Synonyms:
मित्रम्, सुहृत्, सखा, बन्धुः, वयस्यः, स्निग्धः, स्नेही, बान्धवः, सहायः, अनुरागी, प्रणयी, हितः, हितकारी, प्रियकृत्, सजूः, अनुकूलः, विभावः, केलिकरः, सङ्गी
noun
यः सर्वदा सहायकः तथा शुभचिन्तकः।
"मित्रस्य परीक्षा आपत्तिकाले भवति।"
शब्दकल्पद्रुमः
Sanskrit
सजूः, [ष्]
व्य,
सहार्थः इति शब्दरत्नावलीभरतश्च
(यथा, भागवते १८ ६७ ।“सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन्
”)
सजूः, [ष्] जुष सेवे + क्विप् जुषा सहवर्त्तते इति सहस्य सः “ससजुषो रुः ।” ।२ ६६ इति रुः र्वोरिति दीर्घः ।) प्रीति-युक्ता सेवायुक्ता इति मुग्धबोधव्याकरणम्
“जुषी प्रीतिसेवनयोः जोषणं जुट् सह जुषावर्त्तते या सा सजूः ।” इति तट्टीकायां दुर्गा-दासः
तापसः इति संक्षिप्तसारव्याकरणम्