| YouTube Channel

सङ्घट्टचक्रं (saGghaTTacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्घट्टचक्रं,
क्ली,
(संघट्ट एव चक्रम् ।) युद्धविचा-रार्थनक्षत्राङ्कितचक्रविशेषः यथा, --“अश्विन्यादि लिखेच्चक्रं सप्तविंशतितारकैः ।त्रिकोणं नवभिर्व्वेधः कर्त्तव्यस्तिर्य्यगाकृतिः
अश्विनीरेवतीवेधो अश्विनीज्येष्ठयोस्तथा ।मघापुष्णोः सर्पपित्रोरश्लेषामूलयोस्तथा
ज्येष्ठामूलकयोर्व्वेधो भवेत् सङ्घट्टचक्रके ।एवं सङ्घट्टचक्रे कार्य्या ऋक्षगता ग्रहाः
भूपनामर्क्षसङ्घट्टे युद्धं भवति नान्यथा ।निर्व्वेधे सौम्यवेधे युद्धं नास्तिंरणेशयोः
क्रुरवेधे भवेद्युद्धं तत्काले घोरदारुणम् ।युद्धाकाङ्क्षी भवेद्राजा यस्य भं क्रूरवेधितम्
युद्धद्वेषी भवेत् सौम्यैर्भे वेधविवर्ज्जिते ।सौम्यक्रूरविभागेन मित्रामित्रक्रमेण ।वक्रातिचारगत्या युद्धमत्रास्ति नास्ति
”इति स्वरोदये सङ्घदृकालानलचक्रम्