| YouTube Channel

सङ्ग्रहणी (saGgrahaNI)

 
Yates
English
स-ङ्ग्रहणी (णी) 3.
f.
Diarrhoea, dy-
sentery.
n.
Seizing
sexual in-
tercourse
collecting, compil-
ing
hope.
Monier Williams Cologne
English
सं-ग्र॑हणी (ई),
f.
=
संग्रह-ग्रहणी,
Bhpr.
Apte Hindi
Hindi
सङ्ग्रहणी
स्त्री*
- -
पेचिस
L R Vaidya
English
saMgrahaRI {% f. %} Dysentery.
Edgerton Buddhist Hybrid
English
saṃgrahaṇī (= AMg. saṃgahaṇī), summary, résumé, in Paryāya-sa°, q.v.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
संग्रहणी f. °Hetäre, Prabandh. 173, 2 v.u.
शब्दकल्पद्रुमः
Sanskrit
सङ्ग्रहणी,
स्त्री,
(सञ्चिता ग्रहणी ।) ग्रहणी-रोगः तस्य निदानादि ग्रहणीशब्दे द्रष्टव्यम् ।अथ सामान्यग्रहणीरोगस्य चिकित्सामाह ।“ग्रहणीमाश्रितं रोगमजीणवदुपाचरेत् ।लङ्घनैर्दीपनीयैश्च मन्दातीसारभेषजैः
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।अतिसारोक्तविधिना तस्यामञ्च विपाचयेत्
पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् ।दीपनानि तक्रञ्च ग्रहण्यां योजयोद्भषक्
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।यवागूः पाचयत्यामं सकृत् संवर्त्तयत्यपि
”संवत्तयति घनीकरीति
*
औषधान्याह ।“जातीफललवर्ङ्गलापत्रत्वङ् नागकेशरैः ।कर्पूरं चन्दनन्तिल्वत्वक्क्षीरतगरामलैः
तालीसपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।शुण्ठीविडङ्गमरिचैः समभागैर्विचूर्णितैः
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गाञ्च तावतीम् ।सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा
कर्षमात्रमिदं खादेन्मधुनाप्लावितं जनः ।नाशयेद्ग्रहणीं कासं क्षयं श्वासमरोचकम्
”इति जातीफलादिचूर्णम्
*“चित्रकं पिप्पलीमूलं क्षारौ लवणपञ्चकम् ।व्योषं हिङ्ग्वजमोदाञ्च चव्यं चैकत्र चूर्णयेत्
वटिका मातुलुङ्गस्य रसैर्व्वा दाडिमस्य वा ।कृता विपाचयत्यामं प्रदीपयति चानलम्
”क्षारौ स्वर्ज्जिकायवक्षारौ लवणपञ्चकमिति ।सैन्धवं रुचकञ्चैव विडं सामुद्रिकं गडमिति ।व्योषं शुण्ठीपिप्पलीमरिचानि अजमोदात्रयवानिका मातुलुङ्गं बीजपूरकम् चित्र-कादिवटिका
*
“श्रीफलशलादुकल्को नागरचूर्णेन मिश्रितःसगुडः ।ग्रहणीमदमत्युग्रं तक्रभुजा शीलितो जयति
”श्रीफलशलादुः विल्वस्यामं फलम् गुडस्यात्रभागद्वयम् विल्वकल्कः
*
“चतुष्पलं सुधाकाण्डं त्रिफलं लवणत्रयम् ।वार्त्ताकोः कुडवञ्चाकमूलाद्विल्वे तथानलात्
दग्धद्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।भुक्ताभुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ।कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम्
”इति वार्त्ताकुगुटिका
*
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।मधुना समांलीढं ग्रहणीं सर्व्वजान्त्यजेत्
”कौटजं इन्द्रयवः मुस्तादिचूर्णम्
*
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।गुडेनाधिकसर्ज्जेन भक्षितेनाशु नश्यति
”सर्ज्जः राल इति लोके सर्जरसचूर्णम्
*
“विल्वाब्दशक्रयवबालकमोचसिद्ध-माजं पयः पिबति यो दिवसत्रयेण ।सोऽतिप्रवृद्धचिरजं ग्रहणीविकारंसामं सशोणितमसाध्यमपि क्षिणोति
”मोचो मोचरसः क्षिणोति हन्ति ।“प्रस्थत्रये त्वामलकीरसस्यशुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।चूर्णीकृतैर्ग्रन्थितजीरचव्य-व्योषेभकृष्णाहवुषाजमोदैः
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पलप्रमाणैःदत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-वष्टौ तैलस्य पचेद्यथावत्
तं भक्षयेदक्षफलप्रमाणंयथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।अनेन सर्व्वा ग्रहणीविकाराःसश्वासकासस्वरभेदशोथाः
शाम्यन्ति चायं चिरमन्तराग्ने-र्हतस्य पुंस्त्वस्य वृद्धिहेतुः ।स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रसिद्धः
तैले मनाक् त्रिवृत् भृष्टा त्रिसुगन्धिपलं पलम् ।सिद्धे निधेयमत्रैव गुडे कल्याणपूर्व्वके
”इति कल्याणकगुडः
*
“पिप्पली पिप्पलीमूलं चव्यकं गजपिप्पली ।धान्यकञ्च विडङ्गानि यवानी मरिचानि
त्रिफला चाजमोदा नलिनी जीरकस्तथा ।सैन्धवं रौमकं चापि सामुद्रं रुचकं विडम्
आराग्वधश्च त्वक् पत्रं सूक्ष्मैला चोपकुञ्चिका ।शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिता
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा
तिलतैलपलान्यष्टौ चामलक्या रसस्य तु ।प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत्
उडम्बरं चामलकं वादरं वा यथाफलम् ।तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम्
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैकविशतिम् ।उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्निसंक्षयम्
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिंस्वरम् ।पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च चिद्ग्रहम्
धातुक्षीणो वयक्षीणः स्त्रीषु क्षीणः क्षयी यः ।तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः
”इति महाकल्याणकगुडः
*
‘कुष्माण्डानां सुपक्वानां श्वित्रानां लिकुचत्वचाम्सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत्
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।धान्यकानि विडङ्गानि नागरं मरिचानि
त्रिफला चाजमोदा कलिङ्गाजाजिसैन्धवम् ।एकैकस्य पलं चैकं त्रिवृतोऽष्टपलानि
तैलस्य पलान्यष्टौ गुडात् पञ्चाशदेव तु ।आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम्
तावत् पाकंप्रकुर्व्वीत मृदुना वह्निना भिषक् ।यावत् दर्व्वीप्रलेपः स्यात् तदैनमवतारयेत्
औडुम्बरं चामलकं वादरं वा यथाफलम् ।तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम्
अनेनैव विधानेन प्रयुक्तश्च दिने दिने ।निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान्
ज्वरमानाहहृदोगगुल्मोदरविसूचिकाः ।कामलां पाण्डुरोगञ्च प्रमेहांश्चैकविंशतिम्
वातशोणितवीसर्पदद्रुपक्षहलीमकान् ।वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समाचरेत्व्याधिक्षीणा वयःक्षीणा स्त्रीषु क्षीणाश्च ये नराः ।तेभ्यो हितो गुडोऽयंस्यात् बन्ध्यानामपि पुत्त्रदः ।वृष्या बल्यो बृंहणश्च वयसः स्थापनः परः
”इति कुष्माण्डकल्याणगुडः
*
अतीसाराधिकारलिखितं विल्वं तैलञ्चात्रहितम् इति ग्रहणीरोगाधिकारः इतिभावप्रकाशः
वाचस्पत्यम्
Sanskrit
सङ्ग्रहणी स्त्री सञ्चिता ग्रहणी ग्रहणीरोगभेदे