| YouTube Channel

सङ्क्रान्तिचक्रं (saGkrAnticakraM)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्क्रान्तिचक्रं,
क्ली,
(संक्रान्त्याश्चक्रम् ।) नराणांशुमाशुभ-ज्ञानार्थनक्षत्राङ्कितनराकारचक्रम् ।यथा, --“मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् ।त्रितयं हस्तपादेषु महाविषुवभक्रमात्
मस्तके भूपतेः सौख्यं वदने पटुता स्वभे ।हृदये धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे
वामकरे महद्दुखं सुखं पादे दक्षिणे ।भ्रमणं वामपादे कथितं विषुवत्फलम्
”इति महाविषुवचक्रम्
*
“षड्मूर्ध्नि वदने पञ्च चत्वारि हृदये तथा ।त्रितयं करपादेषु पयोविषुवभक्रमात्
मानं मूर्द्ध्नि मुखे चैवं हृदये सुखसम्भवः ।दोः पदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे
”इति जलविषुवचक्रफलम्
*
“शीर्षे पञ्च मुखे त्रीणि हस्थयोश्च त्रयं त्रयम् ।हृदि पञ्च शशी नाभौ गुदे पादयो रसाः ।उत्तरायणभाज्ज्ञेयं स्वनक्षत्रस्थितेः फलम्
शीर्षेऽर्थलाभो वदने सुखानिदक्षे करेऽङ्घ्रौ हृदये सौख्यम् ।नाभौ शुभं वामकरेऽर्थनाशोगुह्ये भयं वामपदे प्रवासः
”इत्युत्तरायणचक्रफलम्
*
“शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च हस्तयोः ।अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनभक्रमात्
शीर्षे मानं मुखे विद्या हृदये वित्तसञ्चयः ।प्रवासः स्यात् करे वामे भिक्षालाभश्च दक्षिणे ।निष्फलं वामपादे किञ्चिल्लाभश्च दक्षिणे
”इति दक्षिणायनचक्रफलम्
*
“ऋक्षे संक्रसणं यत्र विष्णुपद्यां मुखे तत् ।चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्बये
चत्वारि वामवाहौ हृदये पञ्च निर्द्दिशेत् ।अक्ष्णोर्द्वयं द्बयं योज्यं मूर्द्ध्नि द्वौ चैककंगुदे
रोगो भोगस्तथा यानं बन्धनं लाभ एव ।ऐश्वर्य्यं राजपूजा अपमृत्युरिति क्रमात्
”इति विष्णुपदीचक्रफलम्
*
“मुखे चैकं करे वेदाः पादयुग्मे द्बयं द्बयम् ।क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि
द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा ।द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते
मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि ।कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभेनृणाम्
सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके ।गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः
”इति षडशीतिचक्रफलम्
*
इति ज्योतिस्तत्त्वम्