सङ्क्रान्तिः (saGkrAntiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiसङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
"संगमन, मेल"
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
"एक बिन्दु से दूसरे बिन्दु तक का मार्ग, अवस्थांतर"
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
सूर्य या किसी और ग्रहपुंज का एक राशि से दूसरी राशि में जाने का मार्ग
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
"स्थानान्तरण, सौंपना"
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
"हस्तान्तरित करना, विद्यादान की शक्ति"
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
"प्रतिमा, प्रतिबिंब"
सङ्क्रान्तिः
- सम् + क्रम् + क्तिन्
चित्रण
Wordnet
Sanskrit सङ्क्रान्तिः
राश्यान्तरसंयोगानुकूलव्यपारः
"सङ्क्रान्तिं यस्य कुर्वन्ति तस्य क्लेशोभिजायते"[श क]"
सङ्क्रमणम्, सङ्क्रान्तिः
सूर्यस्य राश्यान्तरप्रवेशः।
"सङ्क्रमणस्य समयः निश्चितः भवति।"
शब्दकल्पद्रुमः
Sanskritसङ्क्रान्तिः, (सं + क्रम + क्तिन् ।) राश्य-न्तरसंयोगानुकूलव्यापारः । यथा, --“नाडीनक्षत्रदिवसे रविभौमशनैश्चराः ।सङ्क्रान्तिं यस्य कुर्व्वन्ति तस्य क्लेशोऽभिजायते ॥
इति तिथ्यादितत्त्वम् ॥
रविसंक्रान्तिर्यथा । भविष्यमात्स्यज्योतिषेषु ।“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।विषुवती तुलामेषे गोलमध्ये तथापराः ॥
”मृगो मकरः । गोलो राशिचक्रम् ।“धनुर्म्मिथुनकन्यासु मीने च षडशीतयः ।वृषवृश्चिकसिंहेषु कुम्भे विष्णुपदी स्मृता ॥
”देवीपुराणम् ।“यावद्विंशकला भुक्तास्तत् पुण्यं चोत्तरायणे ।निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने ॥
अर्द्धरात्रे त्वसंपूर्णे दिवा पुण्यमनागतम् ।अर्द्धरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि ॥
संपूर्णे चार्द्धरात्रे च उदयेऽस्तमयेऽपि वा ।मानार्द्धं भास्करे पुण्यमपूर्णे शर्व्वरीदले ॥
सम्पूर्णे तूभयोर्ज्ञेयमतिरेके परेऽहनि ।षडशीतिमुखेऽतीते वृत्ते च विषुवद्वये ॥
भविष्यत्ययने पुण्यमतीते चोत्तरायणे ।आदौ पुण्यं विजानीयात् यद्यभिन्ना तिथि-र्भवेत् ॥
”विंशकला विंशतितमी कला संक्रान्तिक्षणादूर्द्ध्वंयावद्भवति तावत् पुण्यम् । निरंशेऽंशशून्येसंक्रान्तिकाले हि भास्करोऽंशरहितो भवतितस्मिन् दृष्टे दिवेति यावत् । दिनञ्च दिनकर-करसंस्कृतास्त्रिंशन्नाडिका इति ज्योतिर्विदः ।तदन्तं तत्समाप्तिं यावत् तावत् पुण्यम् । तथाच बृहद्वशिष्ठः । त्रिंशत्कर्क्कटके नाड्यो मकरेविंशतिः स्मृताः । नाडी दण्डः ।“उत्पलाद्विपलं षष्ट्या विपलात्तु पलं नयेत् ।पलात्षष्ट्या नयेन्नाडीं तत्षष्ट्या तु रवेर्द्दिनम् ॥
”इति सिद्धान्तसन्दर्भात् ॥
ततश्च देवीपुराणबृहद्वशिष्ठयोरेकवाक्यतयाकलानाड्योः पर्य्यायता ॥
* ॥
रात्रिसंक्रमणेत्वाह अर्द्धरात्रे त्विति । असम्पूर्णे कलान्यूना-र्द्धरात्रे ।“कलान्यूनार्द्धरात्रे तु यदि संक्रमणं भवेत् ।तदहः पुण्यमिच्छन्ति गार्गगालवगातमाः ॥
”इति कृत्यचिन्तामणिवर्षकृत्यधृतगर्गवचनात् ।कालकौमुद्याञ्च गालवेत्यत्र हारीत इति पाठः ।ततश्च कलान्यूनार्द्धरात्राभ्यन्तरे द्वादशस्वेवसंक्रान्तिषु अनागतं नागतं संक्रमणेन यत्रदिवा तदेव पुण्यं पुण्यजनकम् । तत्तु पूर्व्वदिनंतदैव संक्रान्तेरनागतत्वसन्भवात । तेन संक्र-मणकालादर्व्वागेव दिवापरार्द्धे स्नानादिकंकर्त्तव्यमित्यर्थः । अर्द्धरात्रे व्यतीते कालाधिकार्द्धरात्रे व्यतीते । संपूर्णे अर्द्धरात्रे रात्रिमध्य-कलयोः । कलान्यूनार्द्धरात्रे त्विति वचना-नन्तरं भुजबलभीमे ।‘अर्द्धरात्रे कलाधिक्ये यदा स क्रमते रविः ।तदोत्तरदिनं ग्राह्य स्नानदानजपादिषु ॥
अद्ध रात्रे तु संपूर्णे यदा संक्रमते रविः ।प्राहुद्दिनद्वय पुण्यं त्यक्त्वा भकरकर्क्कटौ ॥
”इति वचनाभ्या तथा प्रतीतेः । कालविवेकेकालकौमुद्याञ्च शातातपजावाली ।“पूर्णे चेदर्द्धरात्रे तु रविसंक्रमण भवेत् ।प्राहुर्द्दिनद्वयं पुण्यं त्यक्त्वा मकरकर्क्कटौ ॥
”एतयोर्व्यवस्था आह कालमाधवीये भविष्यो-त्तरीयम् ।मियुनात् कर्किसंक्रान्तिर्यदि स्यादंशुमालिनः ।प्रदोषे वा निशीथे वा कुर्य्यादहनि पूर्व्वतः ॥
कार्म्मुकन्तु परित्यज्य झष संक्रमते रविः ।प्रभात वार्द्धरात्रे वा स्नान कुर्य्यात् परेऽहनि ॥
”ततश्च रात्रिमध्यदण्डद्वयात्मकार्द्धरात्रसंक्रान्ता-वदयेऽस्तमयऽपि वा इत्यनेन उदयोपक्रममस्त-मयान्तञ्च मानार्द्धं पुण्यम् । एवञ्चोभयदिनेपुण्यकाले पूर्व्वदिनाकरण एव परदिने ।“श्वः कार्य्यसद्य कत्तव्य पूर्व्वाह्णे चापराह्णिकम् ।न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥
”इति लिङ्गपुराणात् मोक्षधर्म्माच्च ॥
तत्रापि दक्षिणायने पूर्व्वदिनार्द्धमात्रमितिविशेषः । उत्तरायणे परदिनार्द्धमात्रमितिविशेषः । मानार्द्धमिति भास्करे भास्करोप-लक्षिते काले दिवेति यावत् तस्मिन् संक्रमणे-ऽपि मानार्द्धं पुण्यम् । एतच्च विषुवषडशीति-विषयम् ! अयनकालयोः पूर्व्वमुक्तत्वात् विष्णु-पद्याञ्चोभयतः षोडशकलानां पञ्चदशनाडि-कानां वा पुण्यत्वस्य शातातपादिवचनेन वक्ष्य-माणत्वात् । तेन दिवासंक्रमण एवायनादित्वेनपुण्यकाले विशेषः । रात्रिसंक्रमणे तु अर्द्ध-रात्रीयमकरकर्क्कटसंक्रमणव्यतिरिक्ते सर्व्वेषांतुल्यतेति । अपूर्णे शर्व्वरीदले कलान्यूनार्द्धरात्रेइत्यत्रापि मानार्द्धमित्यनुषज्यते । दिवापुण्य-मिति यत् प्रागुक्तं अत्र तदेव मानार्द्धत्वेनविशेषितमित्यपुनरुक्तिः । एवमुदयास्तमयेयन्मानार्द्धं पुण्यं तत् किमेकदिने दिनयोर्व्वेतितत्राह संपूर्णे तूभयोरिति उभयोः पूर्व्वापर-दिनयोर्म्मानार्द्धं पुण्यं तेन पूर्व्वदिनस्यास्तम-यपर्य्यन्तं परदिनस्य उदयमारभ्य मानार्द्धंपुण्यमित्यर्थः । अतिरेके अर्द्धरात्रात् परतःसंक्रमणे परेऽहनि मानार्द्बं पुण्यमित्यनुष-ज्यते । मानार्द्धन्तु प्रहरद्वयम् ।“अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरिक्रिया ।ऊर्द्ध्वं संक्रमणे भानोरुदयात् प्रहरद्वयम् ।पूर्णार्द्धरात्रसंक्रान्तौ द्वे दिनार्द्धे तु पुण्यदे ॥
”इति स वत्सरप्रदीपगङ्गावाक्यावलीधृतवशिष्ठ-सौरधर्म्मवचनैकवाक्यत्वात् !“अर्द्धरात्रादधश्चैव दिनार्द्धस्योपरि क्रिया ।ऊर्द्धं संक्रमणे भानोरुदयात् प्रहरद्बयम् ॥
”इति भोजराजकृत्यचिन्तामणिधृतैकवाक्यत्वाच्चअधः पूर्व्वं ऊर्द्ध परत । क्रिया स्नानादिका ।एवञ्च गर्गवचनस्थतदहरिति यामद्वयपरम् ।अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः । एवञ्चषडशीतिमुखेऽतीते इत्यादि दिवासंक्रमण-विषयम् । तेन दिवा षडशीतिसंक्रमणे भूतेभविष्यन्मानार्द्धं पुण्यं एवं विषुवद्वयेऽपि ।दिवोत्तरायणेऽपि भविष्यद्विंशतिदण्डानांपुण्यत्वम् । अत्रीत्तरायणस्य पृथगभिधानात्अयन इति पद दक्षिणायनपरं गीवलीवर्द्दन्या-यात् । तेन दिवा दक्षिणायने भविष्यति भूत-त्रिंशद्दण्डानां पुण्यत्वम । एवञ्च षडशीत्या-दिष्वप्यवकाशमलभमानम् ।“अर्व्वाक् षोडश विज्ञया नाड्यः पश्चाच्चषोडश ।कालः पुण्योऽकसक्रान्तेर्व्विद्वद्भिःपरिकीत्तितः ॥
”इति शातातपोयम् ।“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।”इति देवीपुराणीयञ्च वचन दिवा विष्णपदीविषयम् । अतएव जावालिबृहद्वशिष्ठौ ।“पुण्यायां विष्णुपद्याञ्च प्राक् पश्चादपि षोडश ।”अर्द्धरात्रे विशेषमाह आदावित्यादि । अर्द्धरात्र-संक्रान्तावादौ पूर्व्वदिन एव मानार्द्धं पुण्यम् ।यद्यभिन्ना संक्रान्तिकाले पूर्वदिने च एकैवतिथिर्भवेत् तेन मध्यरात्रे संक्रमणेयदुमयदिन-मानार्द्धं पुण्यमुक्तं तद्भिन्नतिथिविषयम् । अतीतेपुनरर्द्धरात्रे पूर्वेणाह्ना तिथ्यभेदेऽपि परदिनस्यैवपूर्व्वार्द्धं पुण्यमिति तात्पर्य्यार्थः ॥
एवञ्च रात्रि-संक्रान्तौ दिन एव पुण्यत्वाभिधानात् ।“राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।स्नानदानादिकं कुर्य्युर्निशि काम्यव्रतेषु च ॥
”इति देवलेन दिनसंक्रमणस्य रात्रिप्रविष्टपुण्य-कालांशे सक्रान्तिनिमित्तेन स्नानदानादिविधीयते इति ॥
* ॥
यत्तु ।“मन्दा मन्दाकिनी ध्वाङ्क्षी घोरा चैव महोदरीराक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृपमन्दा ध्नुवेषु विज्ञेया मृदो मन्दाकिनी तथा ।क्षिप्रे ध्वाङ्क्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिताचरे महोदरी ज्ञेया क्रूरैरृक्षैश्च राक्षसी ।मिश्रिता चैव विज्ञेया मिश्रितर्क्षैस्तु संक्रमे ॥
”इत्येतैर्द्बादशस्वेव संक्रान्तिषु ध्रुवादिनक्षत्र-योगान्मन्दादिरूपतया सप्तधाभिन्नासु ।“त्रि चतुः पञ्च सप्ताष्ट नव द्वादश एव च ।क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥
”इति देवीपुराणे एव त्रिचतुरादिघटिकानांपुण्यत्वमुक्तं तद्दिवारात्र्योस्तत्तत्कालोपदेशात्अवकाशमलभमानं सन्ध्याद्वयसंक्रान्तिविषयमि-ति समयप्रकाशः ॥
* ॥
ध्रुवादिगणस्तु दीपिकायाम्“उग्रः पूर्व्वमघान्तकाः ध्रुवगणस्त्रीण्युत्तराणिस्वभू-र्व्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्तालघुः ।चित्रामित्रमृगान्त्यभं मृदुगणस्तीक्ष्णोऽहि-रुद्रेन्द्रयुक्मिश्रोऽग्निः सविशाखभः शुभफलाः सर्व्वेस्वकुत्येगणाः ॥
”अन्तको भरणी । स्वभू रोहिणौ । वातादित्य-हरित्रयं स्वाती पुनवसुः श्रवणा धनिष्ठाशतभिषा । मित्रमृगान्त्यभं अनुराधामृगशिरोरेवत्यः । अहिरुद्रन्द्रयुक् अश्लषा आर्द्राज्येष्ठा मूला । आग्नः कृत्तिका । कल्पतरुस्तु ।क्रमेण यथासंख्यन एता घटिकास्तत्पुण्यं तस्यसक्रमणस्य पुण्यहेतुत्वात् पुण्यं पारमार्थिकमुख्यम् ।“त्रुटेः सहस्रभागो यः स कालो रविसंक्रमः ।”इत्युक्तसूक्ष्मसङ्क्रमकालानानुष्ठानजन्यपुण्य-समपुण्यहेतवं इत्याह । त्रुटिस्तु ।“लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते ।त्रुटिद्वय लवः प्रोक्ता निमेषस्तु लवद्वयम् ॥
”इति स्मृत्युक्ता ॥
एतदेव मत युक्तम् । अतएव देवलेन ।“या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाःस्मृताः ।”इत्यक्तम् । एवञ्चेता घटिकाः पुण्यतमाः माना-र्द्धादिकन्तु पुण्यमात्रमिति तस्मान्मन्देत्यादि नसन्ध्यासंक्रान्ति विषयकमिति । सन्ध्यासंक्रान्ति-विषयत्वे पारमार्थिकमित्यनुपपत्तेः । पुण्य-मित्यनेनैव सिद्धिः । पारमार्थिकमित्यत्र कल्प-तरुव्यांख्यानावलोकनात् रविसंक्रम इतिपाठकल्पनं कल्पनमेव । समयप्रकाशकृतापितथा पठितत्वात् । जीमूतवाहनाऽपि काल-विवेके ।“अह्रि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्त्तितम् ।रात्रौ संक्रमणे भानोर्द्दिनार्द्धं स्नानदानयोः ॥
”इति बृहद्वशिष्ठादिवचनपर्य्यालाचनया दिवा-संक्रान्तौ दिनमात्रं पुण्यं पुण्यतरास्तु विशेष-विहिता नाड्यः इत्याह । अतएव तद्धृतजा-बालिबृहस्पतिशातातपवचनमपि सङ्गच्छते ।यथा, --“वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥
”कालमाधवीयेऽपि । अह्रीत्यभिधाय प्राशस्त्य-तारतम्यमुक्तम् । एवञ्च दिवासंक्रान्तौ कृत्स्नंदिनं पुण्यं षडशीतिमुखेऽतीते इति वचनंपुण्यतरपरम् ॥
* ॥
ननु देवीपुराणे दिवा-रात्र्योः संक्रमणे विशिष्यकालाभिधानात्सन्ध्यासंक्रान्तेः कः काल इति चेत् ।“त्रिंशन्मुहूर्त्तं कथितमहोरात्रन्तु यन्मया ।”इति विष्णुपुराणेन सन्ध्ययोः पृथगनुपादानात्दिवारात्रिसम्बन्धित्वान्मुहूर्त्तार्द्धेन तयोरन्तर्भावःतथा च दक्षः ।“अहोरात्रस्य यः सन्धिः सूर्य्यनक्षत्रवर्ज्जितः ।सा तु सन्ध्या समाख्यातामुनिभिस्तत्त्वदर्शिभिः ॥
”योगियाज्ञवल्क्यः ।“ह्रासवृद्धी च सततं दिनरात्र्योर्यथाक्रमम् ।सन्ध्या मुहूर्त्तमाख्याता ह्रासे वृद्धौ समास्मृता ॥
”वराहः ।“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारकायावत् ॥
”तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत् ॥
”अतएव केनापि मुनिना नानादेशीयसंग्रह-कारेण च सन्ध्यासंक्रान्तित्वेन विशेषो नाभि-हितः ॥
* ॥
* ॥
तदयं संक्षेपः । दिनसंक्र-मणे कृत्स्नं दिनं पुण्यम् । षडशीतिमुखेऽतीतेइत्याद्युक्तं पुण्यतरं । मन्दा मन्दाकिनीत्यादि-रूपेण त्रिचतुरादिघटिकाः पुण्यतमाः ।दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनांरात्रिप्रविष्टभागस्यापि पुण्यत्वम् । रात्रिसंक्र-मणे तु कलान्यूनप्रथमार्द्धरात्रगते तद्दिवसीय-शेषयामद्वयं पुण्यम् । कलाद्वयात्मकमध्यरात्र-गते तद्दिवसीयतिथिरभेदे तद्दिवसीयशेषयामद्वयंपुण्यम् । भेदे तु तद्दिवसीयशेषयामद्वयं पर-दिवसीयाद्ययामद्वयञ्च पुण्यम् । उभयदिनेपुण्यकालेऽपि पूर्व्वदिनाकरण एव परदिनेतद्विहितं कार्य्यम् । तिथिभेदाभेदयोर्द्दक्षिणा-यने तद्दिवसीयशेषयामद्वयं उत्तरायणे तु पर-दिवसीयाद्ययामद्वयं पुण्यमिति । मध्यरात्रीय-कलोत्तरशेषार्द्धरात्रसंक्रमणमात्रे तु परदिनाद्य-यामद्वयं पुण्यमिति । सन्ध्यासंक्रमणे तु दिन-दण्डेदिनस्य रात्रिदण्डे रात्रेर्व्यवस्थेति ॥
* ॥
* ॥
ब्रह्मपुराणे ।“शुक्लपक्षस्य सप्तम्यां यदा संक्रमते रविः ।महाजया तदा प्रोक्ता सप्तमी भास्करप्रिया ॥
स्नानं दानं तपो होमः पितृदेवाभिपूजनम् ।सर्व्वं कोटीगुणं प्रोक्तं तपनेन महौजसा ॥
”अत्र ।“मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः ।”इत्यनेन प्राप्ततिथ्युल्लेखे तद्विशेषणत्वेन महा-जया इत्युल्लेख्यम् । संज्ञाविधेरेतदेव प्रयोजनंयत्तया निर्द्देश इत्युक्तत्वात् । एवञ्च संक्रान्ति-विशेषस्य निमित्तत्वेन प्राप्तौ विषुवाद्यु-ल्लेखोऽपि ॥
* ॥
स्कान्दे ।“एकान्ततो मया प्रोक्ताः कालाः संक्रान्ति-संज्ञकाः ।नैतेषु विद्यतेऽनिष्टं यतश्चाक्षयसंज्ञिताः ॥
अश्रद्धयापि यद्दत्तं कुपात्रेभ्योऽपि मानवैः ।अकालेऽपि हि तत् सर्व्वं सत्यमक्षयतां व्रजेत् ॥
”मात्स्ये ।“अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।षडशीतिसहस्रन्तु षडशीत्यामुदाहृतम् ॥
शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये ।विषुवे शतसाहस्रमा का-मा-वैष्वनन्तकम् ॥
”आ-का-मा-वैषु आषाडीकार्त्तिकीमाघी-वैशाखीपूर्णिमासु । देवीपुराणे ।“रविसंक्रमणे पुण्ये न स्नायाद्यस्तु मानवः ।सप्तजन्मस्वसौ रोगी निर्द्धनश्चोपजायते ॥
” * ॥
दीपिकायाम् ।“नाडीनक्षत्रदिवसे रविभौमशनैश्चराः ।संक्रान्तिं यस्य कुर्व्वन्ति तस्य क्लेशोऽभिजायते ॥
गोमूत्रसर्षपैः स्नानं सर्व्वौषधिजलेन च ।विशुद्धं काञ्चनं दद्यान्नाडीदोषोपशान्तये ॥
नाडीनक्षत्राणि चाद्यदशषोडशाष्टादशत्रयो-विंशतिपञ्चविंशतयः । रत्नमालायाम् ।“ताराबलादिन्दुरथेन्दुवीर्य्या-द्दिवाकरः संक्रममाण उक्तः ।ग्रहाश्च सर्व्वे सवितुर्बलेनमहीसुताद्याः क्रमशः प्रशस्ताः ॥
” * ॥
संवत्सरप्रदीपे ।“धुस्तूरबीजसलिलैः स्नायात् संक्रान्तिशान्तयेतथा सर्व्वौषधीभिश्च विष्णुमन्त्राश्च संजपेत् ॥
यदाह्रि मेषसंक्रान्तिस्तुलासंक्रमणं निशि ।तदा प्रजा विवर्द्धन्ते धनधान्यसमृद्धिभिः ॥
कुजार्कशनिवारेण महासंक्रमणं यदा ।तदा भवेत् प्रजानाशो दुर्भिक्षादिभयं महत् ॥
”षट्त्रिंशन्मतनिगमौ ।“संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे ।वस्त्रं न पीडयेत्तत्र न च क्षारेण योजयेत् ॥
संक्रान्त्याञ्च त्रयोदश्यां पक्षान्ते नवमीदिने ।सप्तम्यां रविवारे च स्नानमामलकैस्त्यजेत् ॥
”शातातपः ।“रविवारेऽर्कसंक्रान्त्यां षष्ठ्यां वै सप्तमीतिथौ ।आरोग्यकामस्तु नरो निम्बपत्रं न भक्षयेत् ॥
” *कृत्यचिन्तामणी गुणिसर्व्वस्वे च ।“चैत्रे मासि च सम्पूज्यो घण्टाकर्णो घटात्मकः ।आरोग्याय स्नुहीमूलं सक्रान्त्यां तत्र कारयेत् ॥
”पूजामन्त्रः ।“घण्टाकर्ण महावीर सर्व्वव्याधिविनाशन ।विस्फोटकभये प्राप्ते रक्ष रक्ष महाबल ! ॥
”शिवपुराणे ।“घण्टाकर्णो गणः श्रीमान् शिवस्यातीव-वल्लभः ॥
” * ॥
कृत्यचिन्तामणौ ।“मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ ।अपि रोषान्वितस्तस्य तक्षकः किं करिष्यति ॥
”संवत्सरप्रदीपे तूत्तरार्द्धे ।“मेषस्थे च विधौ तस्य नास्त्यङ्गे विषजं भयम् ॥
”स्मृतिः ।“मेषादौ शक्तवो देया वारिपूर्णा च गर्गरी ॥
”वारिदानमन्त्रः ।“एष धर्म्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः ।अस्य प्रदानात् सफला मम सन्तु मनोरथाः ॥
वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने ।ददात्यभुक्त्वा राजेन्द्र स याति परमां गतिम् ॥
”पूर्णं जलेनेति शेषः । महार्णवे ।“यो ददाति हि मेषादौ शक्तूनम्बूघटान्वितान्पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ॥
विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभम् ।”पितृम्यः पितॄनुद्दिश्य इत्यर्थः । अत्र विषुवस्यपुण्यविशेषजनकत्वेन विवक्षितत्वात् मेषादावितिविषुवसंक्रान्तिपुण्यकालपरम् । अन्यथा कालद्व-यकल्पनापत्तेः ॥
* ॥
कर्म्मोपदेशिन्यां व्यासः ।“संक्रान्त्यां पक्षयोरन्ते द्वादश्यां श्राद्धवासरे ।सायंसन्ध्यां न कुर्व्वीत कृते च पितृहा भवेत् ॥
”देवीपुराणे ।“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः ।सान्निध्यन्तु भवेत्तत्र ग्रहाणां संक्रमे रवेः ॥
पुण्यपापविभागेन फलं देवी प्रयच्छति ।”भोगः पुण्यपापजननयोग्यकालः । पुण्यपाप-विवेचने विश्वामित्रः ।“यमार्य्याः क्रियमाणं हि शंसन्त्यागमवेदिभिः ।स धर्म्मो यं विगर्हन्ति तमधर्म्मं प्रचक्षते ॥
”आगमवेदिभिः क्रियमाणमिति सम्बन्धः ।तान्त्रिकास्तु ।“विहितक्रियया साध्यो धर्म्मः पुंसो गुणो मता ।प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म्म उच्यते ॥
”अत्रैकस्मिन्नेव काले पुण्यपापफलदानदर्शनात्संक्रमणपुण्यकाल एव स्नानादिवत्तैलादित्यागःएवमेव गुरुचरणाः । एकादशीप्रकरणोक्त-सक्रान्त्यु पवासस्य व्रतत्वेन भावरूपत्वात् भाव-घटितत्वाद्वोभयथापि तत्र पूज्ये विधेर्वृत्तिरित्य-नेन पुण्यकालयुक्ताहोरात्रकर्त्तव्यता अष्टम्युप-वासवत् । एकादशीतत्त्वे एतद्बहुधा विमृष्टम् ।एवञ्च रात्रिप्रागर्द्धसंक्रान्तौ दिवाशेषार्द्धमात्रस्यतत्पुण्यकालत्वाद्रात्रिमुहुर्त्तार्द्धे सायं सन्ध्यो-पासनं कार्य्यमेव । * । ब्रह्मपुराणे ।“नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः ।चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु ॥
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत् ॥
”अहोरात्रोषितः पूर्व्वदिने कृतोपवासः । एतत-परमेव ।“अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् ।पूर्व्वे व्रतादिकं कुर्य्यात् परेद्युः स्नानदानयोः ॥
”इति भीमपराक्रमीयम् ॥
स्नानदानयोरित्यत्र सप्तमीनिर्द्देषात् परदिव-सायस्नानदानादिनिमित्तकं पूर्व्वदिने उपवास-संयमरूपः व्रतादिकं कुर्य्यादित्यर्थः । इतितिथ्यादितत्त्वम् ॥
* ॥
अथ रविसंक्रान्तिगणनम्“नवाष्टशक्रहीनेन शकाब्दाङ्केन पूरिताः ।भूर्व्वाणचन्द्रावेकाम्नी कुरामौ वेदयुग्मके ॥
१ । १५ । ३१ । ३१ । २४ ॥
अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः ।दण्डात् खाम्बी हयेषू च ३० । ५७ । पलाद्धित्वाततः पुनः ॥
सप्तावशिष्टा वाराः स्युस्ततो दण्डादिकाः परे ।मेषसंक्रमणे भानोः सिद्धान्तस्फुटसम्मताः ॥
भुजौ षडिषू रामाग्नी २ । ५६ । ३३ । कालोजातिर्गजावनी । ६ । २२ । १८रामश्चन्द्रोऽग्नियुग्मश्च ३ । १ । २३ । तर्कोऽङ्क दृङ्-नवाशुभौ ॥
६ । २९ । ५९ ॥
द्वावङ्कदृग्वेदबाणा २ । २९ । ५४ । अब्धिर्वाणशरौसुराः । ४ । ५५ । ३३ ।षणागवेदौ शून्येन्दू ६ । ४८ । १० । एकं शैलभुवौशराः ॥
१ । १७ । ५ ॥
द्वौ षडग्नी तथा काला २ । ३६ । ६ । अब्धीरामाःशरावनी । ४ । ३ । १५ ।पश्चाग्नीषू तथा रुग्रा ५ । ५३ । ११ । मेष-संक्रमवारतः ।अङ्केर्योज्या वृषादेस्तु वाराद्याः संक्रमे रवेः ॥
”इति ज्योतिस्तत्त्वम् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
