| YouTube Channel

सङ्क्रान्तः (saGkrAntaH)

 
शब्दकल्पद्रुमः
Sanskrit
सङ्क्रान्तः, त्रि, (संक्रान्तिरस्यास्तीति अच् ।)संक्रान्तिविशिष्टः यथा, --“असङ्क्रान्तमासोऽधिमासः स्फुटः स्यात्द्विसंक्रान्तमासः क्षयाख्यः कदाचित् ।”इति मलमासतत्त्वम्
(सं + क्रम् + क्तः ।) प्राप्तः गतः क्रमापत-धनादि यथा स्त्रीसङ्क्रान्तधनस्य स्त्रीधनत्वा-भावात् अधिकारविशेषस्यात्र वचनादप्राप्त्या-काङ्क्षया कल्पने सादृश्यात् स्त्रीसङ्क्रान्तधन-मात्रस्य पूर्व्वस्वामिदायादरूपोऽधिकारी कल्प-नीय एतदर्थं पत्नीपदस्य स्त्रीलक्षकत्वमितिभावः इति दायभागटीकायां श्रीकृष्णतर्का-लङ्कारः